________________
,,
रणपूर्वकं तद्विक्रयः, एतश्चोपलक्षणं अन्यदपि यदग्निसमारम्भपूर्वक मिष्टकाभांडादिपाकभ्राष्ट्रादिकरणेन जीवनं तदप्यङ्गारकर्म, यदाहु:“अङ्गारविक्कयं इट्टयाणं कुंभारलोहगाराणं । सुन्नारभाडभुंजाइयाण कम्मं तभिंगालं ॥ १ ॥” [ अङ्गारविक्रय इष्टकानां कुम्भकारलोहकाराणां । सुवर्णकारंभ्राष्ट्रभुञ्जकादीनां कर्म तदङ्गारकर्म ॥ १ ॥ ] ५ ॥ अतीचारता चैतेषां कृततत्प्रत्याख्यानस्य अनभोगादिना प्रवृत्तेः, एवमन्यत्रापीति, एतत्स्वरूपाणि कर्माणि पञ्च, तथा वाणिज्यानि - क्रयविक्रयस्वरूपाणि, चः समुच्चये, विषलाक्षादन्तरसकेशविषयाणि, तत्र विषवाणिज्यं विषं-शृङ्गिकादि तच्चोपलक्षणमन्येषां जीवघातहेतूनामुपविषाणामस्त्रादीनां च तेषां विक्रयः, यदाहुः — "विसवाणिज्जं भन्नइ विसलोहप्पाणहणणविक्किणणं । धणुहसरखग्गछुरिआपरसुयकुद्दालियाईणं ॥ १ ॥ [ विषवाणिज्यं भण्यते विषलोहप्राणघातकविक्रयणं धनुःशरखङ्गक्षुरिकापर्श कुद्दालिका दीनां ॥ १ ॥] ६ ॥ तथा लाक्षावाणिज्यं बहुजीवजालकस्थानलाक्षादि विक्रयः, यदवाचि — “लक्खाधायइगुलियामणसिलहरिआलवज्जलेवाणं । विकिणणं लक्खवणिज्जं तुयरीसकूडमाईणं ।। १ ।। " [ लाक्षाधातकीगुलिकामनःशिलहरितालवज्रलेपानां । विक्रयणं लाक्षावाणिज्यं तूरीकूटादीनां ।। १ ।।] ७ ॥ तथा दन्तवाणिज्यं यत्र प्रथमत एव पुलिन्द्रादीनां हस्तिदन्तशङ्खपूतिशचर्मकेशादीनामानयननिमित्तं मूल्यं ददाति आकरे वा गत्वा स्वयं क्रीणाति ततस्ते वनादौ गत्वा हस्त्यादीन् तदर्थ घ्नन्ति तद्विक्रयपूर्व यदाजीवनं तद्दन्तवाणिज्यं, यदवोचन् - "नह दंतचमर खल्ला भेरिकबड्डा य सिप्पिसंखा य । कत्थूरियपूइसमाइयं च इह दंतवाणिज्जं ॥ १ ॥ ” [ नखदन्तचामरखल्लाभेरीकपर्दकाः शुक्तिशङ्खाश्च । कस्तूरिकापूति शादिकं चेह दन्तवाणिज्यं ॥ १ ॥ ] अज्ञाकरे तु दन्तादेर्ग्रहणे विक्रयणे च न दोषः ८ ।। तथा रसवाणिज्यं मद्यादिविक्रयः, यदभ्यधायि - "महुमज्जमंसमक्खण चउण्ह विगईण जमिह विक्किणणं । रसवाणिज्जं तह दुद्धतिल्लघयदहि अपमिईणं || १ || ” [ मधुमद्यमांसम्रक्षणानां चतसृणां विकृतीनां यदिह विक्रयणं । रसवाणिज्यं तथा दुग्धतैलघृतदधिप्रभृतीनां ॥ १ ॥ ] ९ ॥ तथा केशवाणिज्यं यत्र दासीदासहस्त्यश्वग वोष्ट्रम हिष वालेयादिजीवान् गृहीत्वा तत्रान्यज्ञ वा विक्रीणीते जीविकानिमित्तं तत् केशवाणिज्यं, यदाहु:-- “ मणुयाणं तिरियाणं विक्किणणं इत्थ अन्नदेसे वा । केसवणिज्जं भन्नइ गोगद्दहअस्समाईणं ॥ १ ॥” [ मनुजानां तिरयां विक्रयणमत्रान्यदेशे वा केशवाणिज्यं भण्यते गोगर्दभाश्वादीनां ।। १ ।। ] १० ॥ सजीवानां विक्रये केशवाणिज्यं, अजीवानां तु जीवाङ्गानां विक्रये दन्तवाणिज्यमिति विवेकः || २६४ ॥ तथा दवदानं यत्रवाहनं निर्लाव्हनं असतीपोषः, एतैः सहितानि, सह जलाशयशोषेण वर्तन्ते सजलाशयशोषाणि, चः समुच्चये, कर्माणि भवन्ति पश्वादश, तत्र 'दवदानं' दवस्य – दवाग्नेस्तृणादिदहननिमित्तं दानं वितरणं दवदानं, तच्च द्विधा भवति-व्यसनात् - फलनिरपेक्षप्रवृत्तिरूपात् यथा वनेचरा एवमेव तृणादावनिं ज्वालयन्ति पुण्यबुद्ध्या वा-यथा मदीयमरणसमये इयन्तो मम श्रेयोऽर्थं धर्मदीपोत्सवाः करणीया इति, अथवा जीर्णतृणदाहे सति नवतृणाङ्कुरोद्भेदाद्गावश्चरन्तीति, क्षेत्रे वा शस्यसम्पत्तिनिमित्तमात्रं ज्वालयन्तीति यदुक्तं – “वणदवदाणमरणे दव्वग्गिदाणं तु जीववहजणयं ।” [ अरण्ये वनदवदानं द्वाग्निदानं जीववधजनकं ] ॥ ११ ॥ 'यन्त्रवाहन' मिति तिलेक्षु सर्षपैरण्डफला दिपीलननिमित्तं तत्तद्यत्राणां - घाणकादीनां अरघट्टादिजलयन्त्राणां च वाहनं - व्यापारणं शिलोदूखलमुशलादीनां विक्रयणं वा यत्रवाहनं, यत्रपीलनकर्मेत्यर्थः, उक्तं च—“सिलउक्खलमुसलघरट्टकंकयाईण जमिह विक्किणणं । उच्छुत्तिलपीलणं वा तं बिंती जंतपीलणयं ॥ १ ॥ " [ शिलोदूखलमुशलघरट्टकंकटादीनां यदिद्द विक्रयणं । इक्षुतिलपीडनं वा तत् ब्रुवते यत्रपीडनकर्म ॥ १ ॥ ] एतच पीलनीयतिलादिक्षोदात्तद्गतजीववधात्र सदोषं, यतो लौकिका अपि भाषन्ते -- "दशसूनासमश्चक्री, दशचक्रिसमो ध्वजः । दशध्वजसमा वेश्या, दशवेश्यासमो नृपः ॥ १ ॥” १२ इति । 'निर्लाञ्छन' मिति नितरां लाञ्छनं - अङ्गावयवच्छेदस्तेन कर्म-जीविका निर्लाच्छनकर्म, तत्र गोमहिषोष्ट्रादीनां नासावेधो गवाश्वादीनामनं तेषामेव वर्धितकीकरणं करभाणां पृष्ठगालनं गवां च कर्णकम्बलच्छेदनादिकमिति, यदाहुः - "नासावधोऽङ्कनं मुष्कच्छेदनं पृष्ठगालनम् । कर्णकम्बलविच्छेदो, निर्लाञ्छनमुदीरितम् ॥ १ ॥” १३ इति ॥ ' असतीपोष' इति असत्यो - दुःशीलास्तासां दासीसारिकादीनां पोषणं पोषोऽसतीपोषः, तत्र लिङ्गमतत्रं तेन शुकश्वादीनामपि पुंसां पोषणमसतीपोषः, यदवाचि - " मज्जारमोरमक्कडकुक्कुडसालहीअकुक्कुराईणं । दुट्ठित्थिनपुंसाईण पोसणं असइपोसणयं ॥ १ ॥” इति [ मार्जार मयूर मर्कटकुर्कुटशुक कुर्कुरादीनां । दुष्टस्त्रीनपुंसकादीनां पोषणमसतीपोषणं ॥ १ ॥ ] एषां च पोषणं पापहेतुरेवेति १४ ।। तथा 'जलाशयशोषी' जलाशयानां - सरःप्रभृतीनां शोषणमिति, तदुक्तं - " सरदहतलायसोसो बहुजलयरजीवखयगारी" [ सरोद्रहतटाकशोषो बहुजलचरजीवक्षयकारी ] १५ ॥ एतानि च पञ्चदशापि कर्मादानानि प्रतिषिद्धषड्विधजीववधादिमहासावद्यहेतुत्वाद्वर्जनीयानि, उपलक्षणं चैतद्बहुसावद्यानां कर्मणामेव जातीयानां न पुनः परिगणनमिदमिति ॥ २६६ ॥ 'नाणाइअट्ठ'त्ति ज्ञानदर्शनचारित्राणां प्रत्येकमष्टावतीचारा-मालिन्यलक्षणाः, ते च प्रतिपक्षे आचारलक्षणे ज्ञाते सति सुज्ञाना भवन्ति इत्यतस्तावद् ज्ञानाचारान् आह
9
third fair बहुमाणोर्वेहाणे तहा अनिण्हवणे । वजण अत्थ तदुर्भए अट्ठविहो नाणमायारो ।। २६७ ॥ निस्संकिय निक्कंखिय निव्वितिगिच्छा अमूदिट्ठी य । उबवूह थिरीकरणे वच्छल्ल पर्मावणे अट्ठ ॥ २६८ ॥ पणिहाणजोगजुत्तो पंचहिं समिईहिं तीहिं गुत्तीहिं । चरणायारो विवरीययाई तिपि अइयारा ॥ २६९ ॥
'काले 'त्यादि, काले - कालविषये ज्ञानाचारो भवतीति सर्वत्र सम्बन्धः, तत्र यो यस्याङ्गप्रविष्टादेः श्रुतस्य काल उक्तस्तस्य तस्मिन्नेव
42