________________
स्वाध्यायः कार्यो नान्यदा प्रत्यवायसम्भवात् , दृश्यते च लोकेऽपि कृष्यादेः कालकरणे फलं विपर्यये तु विपर्यय इति, यत उक्तम्-"कालंमि कीरमाणं किसिकम्मं बहुफलं जहा होइ । इय सव्वाविय किरिया नियनियकालंमि विनेया ॥ १॥ [काले क्रियमाणं कृषिकर्म बहुफलं यथा भवति । एवं सर्वाऽपि च क्रिया निजनिजकाले विज्ञेया ॥१॥] इति १ । तथा "विणए'त्ति विनये-विनयविषये ज्ञानस्य ज्ञानिनां ज्ञानसाधनानां च-पुस्तकादीनामुपचाररूपः, यतो विनयेन-आसनदानाऽऽदेशकरणादिना पठनीयं न पुनरविनयेन-आसनदानाद्यकरणेन २ । तथा 'बहुमाणे'त्ति बहुमानः-प्रीतिस्तद्विषये, यतो बहुमानेनैव-आन्तरचित्तप्रमोदलक्षणेन पठनादि विधेयं न पुनर्बहुमानाभावेनेति ३ । तथा 'उवहाणे'त्ति उप-समीपे धीयते-ध्रियते सूत्रादिकं येन तपसा तदुपधानं-तपोविशेषः तद्विषये, यतो यद्यस्य सूत्रस्य अध्ययनोद्देशकादेस्तप उक्तं तत्तपः कृत्वैव तस्य पाठादि विधेयं नान्यथेति ४। तथा '(तहा)अनिण्हवणे'त्ति तथाशब्दः समुच्चये, निह्ववनमपलपनं न निह्नवनमनिह्नवनं तद्विषये, यतोऽनिहवेनैव पाठादि सूत्रादेर्विधेयं न पुनर्मानादिवशत: आत्मनो लाघवाद्याशङ्कया श्रुतगुरूणां श्रुतस्य वाऽपलापेनेति ५ । तथा 'वंजणअत्थतदुभये' इति व्यञ्जनानि-ककारादीनि अर्थ:-अभिधेयं तदुभयं च-व्य जनार्थयोरुभयं ततः समाहारद्वन्द्वः, कोऽर्थः?-व्यञ्जनविषयेऽर्थविषये तदुभयविषये च ज्ञानाचारत्रयं भवति, एतत्त्रयानन्यथाकरणेन सम्यगुपयोगेन च यतः सूत्रादि पठनीयं नान्यथा ६-७-८, अत्र व्यजनग्रहणमुपलक्षणं स्वरा अपि द्रष्टव्याः । एवमष्टविधः-अष्टप्रकारो ज्ञानस्य-श्रुतज्ञानस्याचारो -ज्ञानाराधनतत्पराणां व्यवहार इति ॥ २६७ ॥ अथ दर्शनाचारभेदानाह-निस्संकिये'त्यादि, शङ्कितं शङ्का-सन्देहस्तस्याभावो निःशङ्कितं दर्शनस्य-सम्यक्त्वस्याचारः १ । इत्येवमन्यत्रापि, तथा काङ्कितं काङ्खा-अन्यान्यदर्शनग्रहः तदभावो निष्काङ्कितं २ । तथा विचिकित्सा-मतिविभ्रमः युक्त्यागमोपपन्नेऽप्यर्थे फलं प्रति सम्मोहः तदभावो निर्विचिकित्सं यद्वा विद्वजगुप्सा-मलमलिना एते इत्यादिसाधुजुगुप्सा तदभावो निर्विद्वजुगुप्स, तत एतेषां द्वन्द्वः, पुंल्लिङ्गनिर्देशश्च प्राकृतत्वात् ३ । तथा अमूढा-तपोविद्यातिशयादिकुतीर्थिकर्द्धिदर्शनेऽप्यमोहा-स्वभावादविचलिता सा च सा दृष्टिश्च-सम्यग्दर्शनं अमूढदृष्टिः, अथवा निर्गताः शङ्कितादिभ्यो ये ते निःशङ्कितनिकाङ्कितनिर्विचिकित्सा जीवाः, अमूढा दृष्टिरस्येत्येवममूढदृष्टिश्च जीव एव, तत एते धर्मधर्मिणोरभेदोपचारादर्शनाचारभेदा भवन्तीति ४ । तथा उपबृंहणं उपबृंहा-समानधार्मिकाणां क्षपणावैयावृत्त्यादिसद्गुणप्रशंसनेन तत्तद्गुणवृद्धिकरणं ५ । तथा स्थिरीकरणं तु धर्माद्विषीदतां तत्रैव चाटुवचनचातुर्यादवस्थापनं, उपबृंहा च स्थिरीकरणं च उपबृंहास्थिरीकरणे ६ । तथा वात्सल्यं च प्रभावना च वात्सल्यप्रभावने, तत्र वात्सल्यं-समानदेवगुरुधर्माणां भोजननिवसनदानोपकारादिभिः सम्माननं ७। प्रभावना-धर्मकथाप्रतिवादिनिर्जयदुष्करतपश्चरणकरणादिमिर्जिनप्रवचनप्रकाशनं, यद्यपि च प्रवचनं शाश्वतत्वात् तीर्थकरभाषितत्वाद्वा सुरासुरनमस्कृतत्वाद्वा स्वयमेव दीप्यते तथापि दर्शनशुद्धिमात्मनोऽभीप्सुर्यो येन गुणेनाधिकः स तेन तत्प्रवचनं प्रभावयति, यथा भगवदार्यवजस्वामिप्रभृतिक इति ८॥२६८॥ एतेऽष्टौ दर्शनाचाराः, साम्प्रतं चारित्राचारानाह-'पणिहाणजोगे'त्यादि, प्रणिधानं-चेतःस्वास्थ्यं तत्प्रधाना योगा-व्यापाराः प्रणिधानयोगाः तैर्युक्तः-समन्वितो यः साधुः पञ्चमिः समितिभिस्तिसृभिर्गुप्तिमिः कृत्वा, अथवा 'सुपा सुपो भवन्तीति वचनात् सप्तम्यर्थे तृतीया, ततः पञ्चसु समितिषु तिसृषु गुप्तिषु विषये-एता आश्रित्य प्रणिधानयोगयुक्तो यः स एष चरणाचारः, आचाराचारवतोः कथश्चिदभेदादिति, ज्ञेय इति शेषः, एतेषां त्रयाणामपि ज्ञानाचारादीनां विपर्यस्ततायां-अकालाविनयादौ शकितत्वादी अप्रणिधानरूपायां च सत्यामतीचारा:-चित्तमालिन्यलक्षणा इति ॥ २६९ ॥'बारस तवत्ति व्याख्यातुमाह
अणसणमूणोअरिआ वित्तीसंखेवणं रसाओ । कायकिलेसो संलीया य बज्झो तवो होइ ॥ २७ ॥ पायच्छित्तं विणओ वेयावच्चं तहेव संज्झाओ । झाणं उस्संग्गोवि य अभितरओ तवो होइ ॥ २७१ ॥ सम्ममकरणे बारस तवाइयारा तिगं तु विरिअस्स । मणवयकाया पावप
उत्ता विरियतिगअइयारा॥ २७२॥ 'अणसणेत्यादि गाथाद्वयं, तत्र अश्यत इति अशनं न अशनं अनशनमाहारत्याग इत्यर्थः तत्पुनर्द्धिधा-इत्वरं यावत्कथिकं च, तत्रेत्वर-परिमितकालं, तत्पुनः श्रीमहावीरतीर्थे नमस्कारसहितादि षण्मासान्तं श्रीनाभेयतीर्थे संवत्सरपर्यन्तं, मध्यमतीर्थकरतीर्थे त्वष्ट मासान् यावत् , यावत्कथिकं पुनराजन्मभावि, तत्पुनश्चेष्टाभेदोपाधिविशेषतनिधा, यथा पादपोपगमनं इङ्गितमरणं भक्तपरिज्ञा चेति, एतेषां त्रयाणामपि स्वरूपं सप्तपञ्चाशदधिकशततमद्वारादवसेयमिति १। 'ऊणोअरिय'त्ति ऊनमुदरं ऊनोदरं तस्य करणं भावे वुवि ऊणोदरिका, व्युत्पत्तिरेवेयं, अस्य प्रवृत्तिस्तूनतामात्रे, सा द्विधा-द्रव्यतो भावतश्च, द्रव्यत उपकरणभक्तपानविषया, तत्र उपकरणविषयोनोदरिका जिनकल्पिकादीनां तदभ्यासपरायणानां वाऽवबोद्धव्या, न पुनरन्येषां, तेषामुपध्यभावे समप्रसंयमपालनाऽभावात् , अथवाऽ न्येषामप्यतिरिक्तोपकरणाग्रहणतो भवत्येवोनोदरता, यत उक्तम्-"जं वट्टइ उवगारे उवगरणं तं च होइ उवगरणं । अइरित्तं अहिगरणं अजओ अजयं परिहरंतो ॥ १॥" [उपकरणं यद्वत्तेते उपकारे तदेव भवत्युपकरणं । अतिरिक्तमधिकरणं अयतोऽयतं भुजन् ॥ १ ॥] इति, 'परिहरंतोत्ति आसेवमानः परिहारो परिभोगों' इति वचनात् , ततोऽयतश्च यत्परिभुजानो भवतीत्यर्थः, भक्तपानोनोदरिका पुनरात्मीयाहारमानपरित्यागतो विज्ञेया, आहारमानं च-'बत्तीसं किर कवला आहारो कुच्छिपूरओ भणिओ । पुरिसस्स महिलिआए अट्ठावीसं भवे कवला ॥१॥ कवलस्स य परिमाणं कुक्कुडिअंडगपमाणमित्तं तु । जं वा अविगियवयणो वयणम्मि छुमिज वीसंतो ॥२॥"
43