________________
इत्यादि [द्वात्रिंशत् किल कवला आहारः कुक्षिपूरको भणितः । पुरुषस्य महेलाया अष्टाविंशतिः कवला भवेयुः ॥ १॥ कवलस्य च प्रमाणं कुर्कुट्यण्डकप्रमाणमात्रमेव यद्वा अविकृतवदनो वदने क्षिपेद्विश्वस्तः ॥२॥] सा च अल्पाहारादिभेदतः पञ्चविधा भवति, यदाहुः-'अप्पाहार १ अवडा २ दुभाग ३ पत्ता ४ तहेव किंचूणा ५ । अट्ठ दुवालस सोलस चउवीस तहेक्कतीसा य ॥१॥" अयमत्र भावार्थ:-अल्पाहारोनोदरिका नाम एककवलादारभ्य यावदष्टौ कवला इति, अत्र चैककवलमाना जघन्या अष्टकवलमाना पुनरुत्कृष्टा व्यादिकवलमानभेदा मध्यमा, एवं नवभ्यः कवलेभ्य आरभ्य यावद् द्वादश कवलास्तावदपाङ्खनोदरिका,अत्रापि नवकवला जघन्या द्वादशकवलोत्कृष्टा शेषा तु मध्यमा, एवं त्रयोदशभ्य आरभ्य यावत् षोडश कवलाः तावहिभागोनोदरिका, जघन्यादिभेदत्रयभावना पूर्ववत्, एवं सप्तदशभ्य आरभ्य यावत् चतुर्विंशतिः कवलास्तावत् प्राप्तोनोदरिका, जघन्यादित्रयभावना अत्रापि पूर्ववत् , एवं पञ्चविंशतेरारभ्य यावदेकत्रिंशत्कवलास्तावत् किञ्चिदूनोदरिका, जघन्यादिभेदत्रयं पूर्ववद्भावनीयं, एवमनेनानुसारेण पानेऽपि भणनीया, तथा स्त्रीणामप्येवं पुरुषानुसारेण द्रष्टव्या, भावत ऊनोदरिका क्रोधादिपरित्यागः, यत उक्तम्-"कोहाईणमणुदिणं चाओ जिणवयणभावणाओ य । भावेणोणोदरिआ पन्नत्ता वीयराएहिं ॥१॥ [क्रोधादीनामनुदिनं त्यागो जिनवचनभावनाश्च भावेनोनोदरिका प्रज्ञप्ता वीतरागैः ॥१॥] २ । 'वित्तीसंखेवणं'ति वर्तते अनयेति वृत्तिः-भैक्ष्यं तस्याः सङ्केपणं-सङ्कोचः तच्च गोचराभिप्रहरूपं, ते च गोचरविषया अभिग्रहा अनेकरूपाः, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतो मया अद्य भिक्षायां गतेन लेपकार्यायेव कुन्तामादिसंस्थितमण्डकादि वा ग्राह्यमित्यादयः, क्षेत्रत एकद्वित्र्यादिगृहस्वग्रामपरग्रामपेटार्धपेटादिलब्धं दायकेन देहलीजङ्घयोरन्तर्विधाय वा दत्तं गृहीष्यामीत्यादयः, कालतः पूर्वाह्नादौ सकलमिक्षाचरनिवर्त्तनावसरे वा पर्यटितव्यमित्यादयः, भावतो हसनगानरोदनादिक्रियाप्रवृत्तो बद्धो वा यदि प्रतिलाभयिष्यति ततोऽहमादास्ये न त्वन्यथेत्येवमादयः, उक्तं च-"लेवडमलेवडं वा अमुगं दव्वं च अज घेच्छामि । अमुगेण व दवेणं अह दव्वाभिग्गहो नाम ॥ १ ॥ 'अमुगेणति चटक्ककरोटिकादिना, अट्ठ उ गोयरभूमी एलुयविक्खंभमित्तगहणं च । सग्गामपरग्गामो एवइअ घरा उ खेत्तंमि ॥ २॥ उज्जुगगंतुं पञ्चागई य गोमुत्तिआ पयंगविही । पेडा य अद्धपेडा अभितरबाहिसंबुक्का ॥ ३ ॥ काले अभिग्गहो पुण आई मज्झे तहेव अवसाणे । अप्पत्ते सइकाले आई बिति मज्झि तइयंते ॥ ४॥" [लेपकृदलेपकृद्वाऽमुकं वा द्रव्यमद्य प्रहीष्यामि । अमुकेन वा द्रव्येणैष द्रव्याभिग्रहो नाम ॥ १॥ अष्टैव गोचरभूमयः देहलीविष्कम्भमात्रग्रहणं च । स्वग्रामे परप्रामे इयन्ति गृहाणि तु क्षेत्रे ॥ २ ॥ ऋजु गत्वाप्रत्यागतिश्च गोमूत्रिका पतङ्गवीथिः पेटा अर्धपेटा अभ्यन्तरशंबूका बाह्यशम्बूका ॥ ३ ॥ कालेऽभिग्रहः पुनरादौ मध्ये तथैवावसाने । अप्राप्ते स्मृतिकाले आद्यः द्वितीयो मध्ये तृतीयोऽन्ये ॥४॥] प्रतीतभिक्षावेलाया आदौ मध्येऽवसाने च कालविषयोऽभिग्रहः, तथा चाह"अप्राप्ते सति भिक्षाकाले अटत आदिः-प्रथमः, मध्ये-मिक्षाकाल एवाटतो द्वितीयः, अन्ते-मिक्षाकालावसानेऽटतस्तृतीयोऽभिग्रहः" दिन्तगपडिच्छगाणं हवेज सुहुमंपि मा हु अचियत्तं । इइ अप्पत्ते अइए पवत्तणं मा उ मज्झमि ॥ १॥ उक्खित्तमाइचरगा भावजुया खलु अभिग्गहा हुँति । गायंतो व रुयन्तो जं देइ निसन्नमाइ वा ॥२॥" [ददत्प्रतीच्छकयोः सूक्ष्माऽप्यप्रीतिर्मा भूदिति अप्राप्तेऽतीते वा प्रवर्त्तनं-पुरःपश्चात्कर्मादि मा भूदिति मध्ये ॥ १॥ उत्क्षिप्तादिचरकाः खल्वमिग्रहा भवन्ति गायन् वा रुदन् वा यद्ददाति निषण्णादि वा ॥२॥] 'उक्खित्तमाइचरगत्ति उत्क्षिप्तादिचराः, उरिक्षप्ते भाजनात् पिण्डे चरति-गच्छति यः स उत्क्षिप्तचरः, एवं निक्षिप्ते भाजनादाविति भावनीयं, "ओसक्कण अहिसकण परंमुहालंकिएतरो वावि । भावंतरेण य जुओ अह भावामिग्गहो नाम ॥१॥" [अवष्वष्कणममिष्वष्कणं परामुखोऽलंकृत इतरो वापि । भावान्तरेण वा युक्त एष भावाभिग्रहो नाम ॥१॥] ३। 'रसच्चाओ'त्ति रसानां-मतुब्लोपाद्विशिष्टरसवतां विकारहेतूनां दुग्धादीनां त्यागो-वर्जनं रसत्यागः ४ । 'कायकिलेसो'त्ति कायस्य-शरीरस्य केशःशास्त्राविरोधेन बाधनं कायक्लेशः, स च वीरासनाद्यासनकरणेन अप्रतिकर्मशरीरत्वकेशोल्लुचनादिना च विचित्रः, यदवाचि-"वीरासणउक्कुडुगासणाई लोयाइओ य विन्नेओ । कायकिलेसो संसारवासनिव्वेयहेउत्ति ॥१॥ वीरासणाइसु गुणा कायनिरोहो दया य जीवेसु । परलोगमई य तहा बहुमाणो चेव अन्नेसि ॥ २॥ निस्संगया अ पच्छापुरकम्मविवजणं च लोयगुणा । दुक्खसहत्तं नरगाइभावणाए य निव्वेओ ॥३॥” [वीरासनोत्कटुकासनादि लोचादिकश्व विज्ञेयः । कायक्लेशः संसारवासनिर्वेदहेतुरिति ॥१॥ वीरासनादिषु गुणाः कायनिरोधो दया च जीवेषु । परलोकमतिश्च तथा बहुमानश्चैवान्येषां ॥ २॥ निःसंगता च पश्चात्पुरःकर्मविवर्जनं च लोचगुणाः । दुःखसहत्वं नारकभावनया च निर्वेदः ॥३॥] ५। 'संलीणया य'त्ति संलीनता-गुप्तता, सा चेन्द्रियकषाययोगविषया विविक्तशयनासनता चेति चतुर्धा, यदुक्तम्-"इंदियकसायजोए पडुच्च संलीणया मुणेयव्वा । तह य विवित्ता चरिया पन्नत्ता वीयराएहिं" ॥ १॥ [ इंद्रियकषाययोगान् प्रतीत्य संलीनता ज्ञातव्या । तथा विविक्ता चर्या प्रज्ञप्ता वीतरागैः ॥१॥] तत्र श्रवणेन्द्रियेण शब्देषु मधुरादिभेदेषु रागद्वेषाकरणं श्रवणेन्द्रियसंलीनता, यदाहुः-"सहेसु य भयपावएसु सोयविसयमुवगएसु । तुटेण व रुढेण व समणेण सया न होयव्वं ॥ १॥" [शब्देषु भद्रकपापकेषु श्रोत्रविषयमुपगतेषु । श्रमणेन सदा तुष्टेन रुष्टेन वा न भवितव्यं ॥१॥] एवं च क्षुरादीन्द्रियेष्वपि भावनीयं, यथा-"रूवेसु य भयपावएसु चक्खुविसयमुवगएसु । तुटेण व रुटेण व समणेण सया न होयध्वं ॥१॥" [रूपेषु च भद्रकपापकेषु चक्षुर्विषय०] इत्याद्यमिलापेनेति, कषायसंलीनता च कषायाणामनुदीर्णानामुदयनिरोधेन उदीर्णानां च निष्फलीकरणेन विज्ञेया, यदभ्यधायि-"उदयस्सेव निसेहो उदयप्पत्ताण वाऽफलीकरणं । जं इत्थ कसायाणं कसायसंलीगया एसा ॥१॥"
44