________________
"
[ उदयस्यैव निरोधः प्राप्तोदयानां वाऽफलीकरणं । यदत्र कषायाणां कषायसंलीनतैषा ॥ १ ॥ ] योगसंलीनता पुनर्मनोवाक्काय लक्षणयोगानामकुशलानां निरोधः कुशलानामुदीरणं च यदवोचन् – “अपसत्थाण निरोहो जोगाणमुदीरणं च कुसलाणं । कज्जमि य विहिगमण जोगे संलीणया भणिया ॥ १ ॥” [ अप्रशस्तानां योगानां निरोधः कुशलानां चोदीरणं कार्ये च विधिगमनं योगे संलीनता भणिता ॥ १ ॥ ] विविक्तशयनासनतारूपा पुनः संलीनता आरामादिषु स्त्रीपशुपण्डकादिरहितेषु यदवस्थानं, यदाहुर्महर्षयः - " आरामुज्जाणाइसु थीपसुपंडगविवज्जिए ठाणं । फलगाईण य गहणं तह भणियं एसणिजाणं ॥ १ ॥ ।” [ आरामोद्यानादिषु स्त्रीपशुपण्डकविवर्जिते स्थानं । तथा एषणीयानां फलकादीनां ग्रहणं भणितं ॥ १ ॥ ] ६ ॥ चः समुच्चये, 'बज्झो तवो होइ'त्ति एतदनशनादिकं बाह्यं तपो भवति, बाह्यत्वं चास्य बाह्यद्रव्याद्यपेक्षत्वात् प्रायो बहिः शरीरस्य तापकत्वात् लौकिकैरपि तपस्तया ज्ञायमानत्वात् कुतीर्थिकैरपि स्वाभिप्रायेणासेव्यमानत्वाच्चेति ।। २७० ॥ 'पायच्छित्त' मित्यादि, इह चित्तं-जीवो भण्यते, ततः प्रायो - बाहुल्येन चित्तं - जीवं विशोधयति-मूलोत्तरगुणविषयातीचारजनितकर्ममलमलिनं निर्मलं करोतीति प्रायश्चित्तं, तत् पुनरालोचनादिकं दशधा यदाहुः – “आलोयण पडिक्कम मीस विवेगे तहा विउस्सग्गे । तब छेय मूल अणवट्ठया य पारंचिए चेव” ॥ १॥ इति [ आलोचना प्रतिक्रमणं मिश्र विवेकस्तथोत्सर्गः । तपश्छेदो मूलमनवस्थाप्यं पाराश्चिकं चैव ॥ १ ॥ ] ७ ॥ एतत्स्वरूपं चाष्टानवतिद्वारे न्यक्षेण वक्ष्यते, 'विणए'त्ति विनीयते - क्षिप्यते अष्टप्रकारं कर्मानेनेति विनयः, स च ज्ञानदर्शनादिभेदात् सप्तधा, यदाहु:-- “ नाणे दंसणचरणे मणवयकाओवयारिओ विणओ । नाणे पंचपयारो मइनाणाईण सद्दहणं ॥ १ ॥ भत्ती तह बहुमाणो तद्दिट्ठत्थाण सम्मभावणया । विहिगहण भासोऽवि य एसो विणओ जिणामिहिओ || २ ||" [ ज्ञाने दर्शने चारित्रे मनसि वाचि काये औपचारिको विनयः । ज्ञाने पथ्वप्रकारो - मतिज्ञानादीनां श्रद्धानं ॥ १ ॥ भक्तिस्तथा बहुमानः तद्दृष्टार्थानां सम्यक्त्वभावना विधिग्रहणमभ्यासोऽपि चैष विनयो जिनाभिहितः ॥ २ ॥ ] शुश्रूषणादिकञ्च दर्शनविनयः, यदाहु:- "सुस्सूसणा अणासायणा य विणओ उ दंसणे दुविहो । दंसणगुणाहिएसुं किज्जइ सुस्सूसणाविणओ ॥ १ ॥ सकारभुट्ठाणं संमाणासणअभिग्गहो तह य । आसणअणुप्पयाणं किइकम्मं अंजलिगहो य ॥ २ ॥ इंतस्सऽणुगच्छया ठिअस्स तह पज्जुवासणा भणिया । गच्छंताणुव्वयणं एसो सुस्सूसणाविणओ || ३ ||" [ शुश्रूषणा अनाशातना च विनयस्तु दर्शने द्विविधः दर्शनगुणाधिकेषु क्रियते शुश्रूषणाविनयः ॥ १ ॥ सत्कारोऽभ्युत्थानं सन्मानमासनाभिग्रहश्च तथा । आसनानुप्रदानं कृतिकर्माञ्जलिप्रहश्च ॥ २ ॥ आयातोऽनुगमनं स्थितस्य तथा पर्युपासनं भणितं । व्रजतोऽनुव्रजनमेष शुश्रूषणाविनयः ॥ ३ ॥ ] सत्कारः - स्तवनवन्दनादि अभ्यु - त्थानं - विनयार्हस्य दर्शनादेवासनत्यजनं सन्मानो - वस्त्रपात्रादिभिः पूजनं आसनाभिग्रहः पुनस्तिष्ठत एव गुरोरादरेणासनानयनपूर्वकमत्रोपविशतेति भणनं आसनानुप्रदानं - स्थानात्स्थानान्तरे आसनस्य सञ्चारणं कृतिकर्म - वन्दनकं अञ्जलिमहः - अञ्जलिकरणं, शेषं प्रकटं, अनाशातनाविनयः पुनः पञ्चदशविधः, तस्य चेदं स्वरूपम् – “तित्थयर धम्म आयरिअ वायगे थेर कुल गणे संघे । संभोइअ किरियाए मइनाणाईण य तहेव” ॥१॥ [ तीर्थकरे धर्मे आचार्ये वाचके स्थविरे कुले गणे संघे सांभोगिके क्रियावति मतिज्ञानादीनां च तथैव ॥ १ ॥ ] साम्भोगिकाः-एकसामाचारिकाः क्रिया - आस्तिकता "कायव्वा पुण भत्ती बहुमाणो तह य वन्नवाओ य । अरहंतमाइयाणं केवलनाणावसाणाणं” ।। १ ।। [ कर्त्तव्या पुनर्भक्तिर्बहुमानस्तथा वर्णवादश्व अर्हदादीनां केवलज्ञानावसानानां ॥ १ ॥ ] भक्तिः - बाह्या प्रतिपत्तिः बहुमान:- आन्तरः प्रीतिविशेषः वर्णवादो - गुणग्रहणं, चारित्रविनयः पुनः “सामाइयाइचरणस्स सदहाणं तहेव कायेणं । संफासणं परूवणमह पुरओ सव्वसत्ताणं ॥ १ ॥” तथा “मणवयकाइयविणओ आयरियाईण सव्वकालम्मि । अकुसलमणाइरोहो कुसलाणमुदीरणं तह य ॥ २ ॥” [ सामायिकादिचारित्राणां श्रद्धानं तथैव कायेन संस्पर्शनं अथ च सर्वसत्त्वानां पुरतः प्ररूपणं ॥ १ ॥ मनोवाक्कायविनय आचार्यादीनां सर्वकाले अकुशलमन आदि रोधः कुशलानां तथोदीरणं च ॥ २ ॥ तथा उपचारेण - सुखकारिक्रियाविशेषेण निर्वृत्त औपचारिकः स चासौ विनयश्च औपचारिक विनयः, स च सप्तधा - " अब्भासऽच्छणं छंदाणुवत्तणं कयपडिकिई तह य । कारिअ निमित्तकरणं दुक्खत्तगवेसणं तह य ॥ १ ॥ तह देसकालजाणण सव्वत्थेसु तह य अणुमई भणिया । उवयारिओ उ विणओ एसो भणिओ समासेणं ॥ २ ॥” [ अभ्यासस्थानं छन्दोऽनुवर्त्तनं कृतप्रतिकृतिस्तथा च । कारितनिमित्तकरणं दुःखार्त्तगवेषणं च तथा ॥ १ ॥ तथा देशकालज्ञानं तथा सर्वार्थेष्वनुमतिर्भणिता । औपचारिकस्तु विनय एष भणितः समासेन ॥ २ ॥ ] तत्र 'अन्भासऽच्छणं 'ति सूत्राद्यर्थिना नित्यमेवाचार्यस्याभ्यासे - प्रत्यासन्ने स्थातव्यं, तथा छन्द: - अमिप्रायो गुरूणामनुवर्तनीयः, तथा कृतप्रतिकृतिः - कृते भक्तादिना उपचारे प्रसन्ना गुरवः प्रतिकृति - प्रत्युपकारं सूत्रार्थादिदानतो मे करिष्यन्ति, न नामेकैव निर्जरेति भक्तादिदाने गुरोर्यतितव्यं, तथा कार्यनिमित्तकारणं, कार्य - श्रुतप्रापणादिकं निमित्तं - हेतुं कृत्वा श्रुतं प्रापितोऽहमनेनेति हेतोरित्यर्थः विशेषेण तस्य विनये वर्तितव्यं तदनुष्ठानं च कर्तव्यं, यद्वा कारितेन - सम्यक्सूत्रार्थमध्यापितेन पुनस्तन्निमित्तं करणं - विनयस्य विधानं कारितनिमित्तकारणं, गुरुणा सम्यक सूत्रादिकं पाठितेन विनेयेन विशेषतो विनये वर्तितव्यं तदुक्तार्थानुष्ठानं च कर्त्तव्यमिति भावः, तथा दुःखार्त्तस्य - दुःखपीडितस्य गवेषणं -औषधादिना प्रतिजागरणं दुःखार्त्तगवेषणं, पीडितस्योपकारकरणमित्यर्थः, तथा देशकालज्ञानमवसरज्ञतेत्यर्थः, तथा सर्वार्थेषु गुरुविषयेष्वनुमतिः- आनुकूल्यं, अथवा द्विपश्वाशद्भेदो विनयः, स च पश्चषष्टिद्वारे वक्ष्यते ८ ॥ 'वेयावच्च' मिति व्यापिपर्ति स्मेति व्यापृतः तस्य भावो वैयावृत्त्यं, धर्मसाधनार्थमन्नादिदानमित्यर्थः, यदाहुः – “वेयावच्चं वावडभावो इह धम्मसाहणनिमित्तं । अन्नाइयाण विहिणा
45