________________
संपायणमेस भावत्थो" ॥१॥ वैयावृत्त्यं व्यावृतभाव इह धर्मसाधननिमित्तं अन्नादीनां विधिना संपादनमेष भावार्थः ॥१॥1॥ 'तहेव सज्झाओ'त्ति सुष्ठ आ-मर्यादया कालवेलापरिहारेण पौरुष्यपेक्षया वा अध्यायः-अध्ययनं स्वाध्यायः, स च पञ्चधा-वाचनापृच्छनापरावर्तनानुप्रेक्षाधर्मकथाभेदात् , तत्र वाचना-शिष्याध्यापनं, गृहीतवाचनेनापि संशयोत्पत्तौ पुनः पृष्टव्यमिति पूर्वाधीतस्त्र सूत्रादेः शतितादौ प्रश्नः पृच्छना, पृच्छनाविशोधितस्य सूत्रस्य मा भूद्विस्मरणमिति परावर्तना, सूत्रस्य घोषादिविशुद्धं गणनमित्यर्थः, सूत्रवदर्थेऽपि सम्भवति विस्मरणमतोऽनुप्रेक्षणं, ग्रन्थार्थस्य मनसाऽभ्यासोऽनुप्रेक्षा चिन्तनिकेत्यर्थः, एवमभ्यस्तश्रुतेन धर्मकथा कर्तव्येति, धर्मस्य-श्रुतरू- . पस्य कथा-व्याख्या धर्मकथेति १० ॥ 'झाण'मिति ध्यायते-चिन्त्यते वस्त्वनेनेति ध्यातिर्वा ध्यान-अन्तर्मुहूर्तमात्रकालमेकाप्रचित्ताध्यवसानं, यदाहुः-"अंतोमुहुत्तमेत्तं चित्तावत्थाणमेगवत्थुमि । छउमत्थाणं झाणं जोगनिरोहो जिणाणं तु" ॥१॥ [अन्तर्मुहूर्त्तमात्रं चित्तस्यैकवस्तुनि अवस्थानं छद्मस्थानां ध्यानं जिनानां तु योगनिरोधः॥१॥] तच्चतुर्धा-आतरौद्रधर्म्यशुक्लभेदात् , तत्र ऋतं-दुःखं तस्य निमित्तं तत्र वा भवं ऋते वा-पीडिते प्राणिनि भवमात, तच्चामनोज्ञानां शब्दरूपरसस्पर्शगन्धलक्षणानां विषयाणां तदाश्रयभूतवायसादिवस्तूनां वा समुपनतानां विप्रयोगप्रणिधानं भाविना वाऽसम्प्रयोगचिन्तनम् १ एवं शूलशिरोरोगादिवेदनाया अपि विप्रयोगासंप्रयोगप्रार्थनं २ इष्टशब्दादिविषयाणां सातवेदनायाश्वाविप्रयोगसम्प्रयोगप्रार्थनं ३ देवेन्द्रचक्रवर्तित्वादिप्रार्थनं च ४ शोकाक्रन्दनखदेहताडनविलपनादिलक्षणलक्ष्यं तिर्यग्गतिगमनकारणं विज्ञेयं १, तथा रोयत्यपरानिति रुद्रः-प्राणिवधादिपरिणत-आत्मैव तस्येदं कर्म सैक्रं, तदपि सत्त्वेषु वधवेधबन्धनदहनाङ्कनमारणादिप्रणिधानं १ पैशून्यासभ्यासद्भूतघातादिवचनचिन्तनं २ तीब्रकोपलोभाकुलं भूतोपघातपरायणं परलोकापायनिरपेक्षं परद्रव्यहरणप्रणिधानं ३ सर्वाभिशङ्कनपरम्परोपघातपरायणशब्दादि विषयसाधकद्रव्यसंरक्षणप्रणिधानं च ४ उत्सनवधादिलिङ्गगम्यं नरकगतिगमनकारणमवसेयं २ । तथा धर्म:-क्षमादिदशलक्षणः तस्मादनपेतं धर्म्य, तच्च सर्वज्ञाऽऽज्ञानुचिन्तनं १ रागद्वेषकषायेन्द्रियवशजन्तूनामपायविचिन्तनं २ ज्ञानावरणादिशुभाशुभकर्मविपाकसंस्मरणं ३ क्षितिवलयद्वीपसमुद्रप्रभृतिवस्तुसंस्थानादिधर्मालोचनात्मकं ४, जिनप्रणीतभावश्रद्धानादिचिह्नगम्यं देवगत्यादिफलसाधकं ज्ञातव्यं ३ । तथा शोधयत्यष्टप्रकारं कर्ममलं शुचं वा-शोक कुमयतिअपनयतीति निरुक्तविधिना शुक्लं, एतदपि पूर्वगतश्रुतानुसारिनानानयमतैकद्रव्योत्पत्तिस्थितिभङ्गादिपर्यायानुस्मरणादिस्वरूपं ४ अवधासम्मोहादिलिङ्गगम्यं मोक्षादिफलप्रसाधकं विज्ञेयं ४ । अत्र च धर्मशुक्ले एव तपसी निर्जरार्थत्वात् , नातरौद्रे बन्धहेतुत्वादिति ११ । 'उस्सग्गोऽविय'त्ति उत्सर्जनीयस्य परित्याग उत्सर्गः, स द्विविधः-बाह्योऽभ्यन्तरश्च, तत्र बाह्यो द्वादशादिभेदस्योपधेरतिरिक्तस्यानेषणीयस्य संसक्तस्यानपानादेर्वा त्यागः, आभ्यन्तरः कषायाणां मृत्युकाले शरीरस्य च त्यागः, ननु उत्सर्गः प्रायश्चित्तमध्य एवोक्तस्तत् किं पुनरत्र भणनेन ?, सत्यं, सोऽतीचारविशुद्ध्यर्थमुक्तः अयं तु सामान्येन निर्जरार्थमुक्त इत्यपौनरुक्त्यं १२ । 'अभितरओ तवो होइ'त्ति इदं प्रायश्चित्तादि व्युत्सर्गान्तमनुष्ठानं लौकिकैरनमिलक्ष्यत्वात् तत्रान्तरीयैश्च भावतोऽनासेव्यमानत्वात् मोक्षावाप्तावन्तरङ्गत्वादभ्यन्तरस्य कर्मणस्तापकत्वादभ्यन्तरैरेवान्तर्मुखैर्भगवद्भिर्जायमानत्वाच्चाभ्यन्तरं तपो भवतीति, एतेषां च कथं अतीचारः संभवतीति आह–'सम्मे'त्यादि, एतेषामनशनादीनां द्वादशानां तपोभेदानां सम्यगकरणे-विपरीततया न्यूनाधिक्येन वाऽयथावस्थितानुष्ठानरूपे अतीचारा अपि
१ दशधा प्रायश्चित्तवर्णने उत्सर्गशब्देन चेष्टामिभवभेदेन द्विविधः कायोत्सर्गों वर्णितो मौनध्यानादिक्रियाव्यतिरिक्तक्रियात्यागमधिकृत्य, अयं तु शरीरोपाधिगणादिवस्तून्यानित्येति स्पष्टो भेदो वा, भतिरिक्तोपधेस्त्यागो द्रव्यावमौदर्य अनेषणीयत्यागो विवेकः कषायत्यागः कषायसंलीनता, भपबिमाराधनायै वा गणादित्यागोऽयं । द्वादश भवन्तीति, अथ वीर्यत्रिकातीचारानाह-तिगं तु विरिअस्स'ति वीर्यस्य त्रिकं पुनर्मनोवाकायाः सूचकत्वात्सूत्रस्य मनोवाक्कायव्यापाराः ते च पापप्रयुक्ताः-पापविषये प्रवृत्ताः सन्तो वीर्यत्रिकातीचारा भवन्तीति । 'पण सम्म'त्ति व्याख्यायते
संका कंखा यतहावितिगिच्छा अन्नतित्थियपसंसा। परतिथिओवसेवणमइयारा पंच सम्मत्ते ॥२७॥ 'संके'त्यादि, शङ्का काङ्क्षा तथा विचिकित्सा अन्यतीर्थिकप्रशंसा परतीर्थिकोपसेवनं च अतीचाराः पञ्च सम्यक्त्वे भवन्तीति । तत्र शङ्का-भगवदर्हत्प्रणीतेषु पदार्थेषु धर्मास्तिकायादिष्वत्यन्तगहनेषु मतिदौर्बल्यात् सम्यगनवधार्यमाणेषु संशयः-किमेवं स्यान्नैवमिति, यदाहुः"संसयकरणं सङ्के"ति, सा च शङ्का द्विविधा-देशशङ्का सर्वशङ्का च, देशशङ्का देशविषया जीवाद्यन्यतमपदार्थैकदेशगोचरेत्यर्थः, यथाऽस्ति जीवः केवलं सर्वगतोऽसर्वगतो वा? सप्रदेशोऽप्रदेशो वेति, सर्वशङ्का सर्वविषया यथाऽस्ति धर्मो नास्ति वेति, इयं च द्विधाऽपि शङ्का भगवदहत्प्रणीतप्रवचनेऽप्रत्ययरूपा सम्यक्त्वं दूषयतीत्यतीचारः, केवलाऽऽगमगम्या अपि हि पदार्था अस्मदादिप्रमाणपरीक्षानिरपेक्षा आप्तप्रणेतकत्वान्न सन्देग्धुं योग्याः, यत्रापि मतिदौर्बल्यादिभिर्मोहवशात् कचन संशयो भवति तत्राप्यप्रतिहतेयमर्गला, यथा-कथइ मइदुब्बल्लेण तविहायरियविरहओ वावि । नेयगहणत्तणेण य नाणावरणोदयेणं च ॥ १॥ हेऊदाहरणासंभवे य सइ सुहुजं न बुज्झेजा। सव्वनुमयमवितहं तहावि तं चिंतए मइमं ॥२॥ अणुवकयपराणुग्गहपरायणा जं जिणा जुगप्पवरा । जिअरागदोसमोहा य नन्नहावाइणो तेणं ॥ ३॥ [कुत्रापि मतिदौर्बल्येन तद्विधाचार्यविरहतो वापि । ज्ञेयगहनत्वेन च ज्ञानावरणोदयेन च॥१॥ हेतूदाहरणासंभवे च सति सुष्टु यन्न बुध्येत । सर्वज्ञमतमवितथं तथापि तच्चिन्तयेत् मतिमान् ॥२॥ अनुपकृतपरानुग्रहपरायणा यत् जिना युगप्रवराः जितरागद्वेषमोहाश्च नान्यथावादिनस्तेन ॥३॥] यथा वा-"सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः । मिथ्यादृष्टिः सूत्रं हि नः प्रमाणं
46