________________
जिनाभिहितम् ॥ १॥ एकस्मिन्नप्यर्थे संदिग्धे प्रत्ययोऽर्हति हि नष्टः । मिथ्या च दर्शनं तत् स चादिहेतुर्भवगतीनाम् ॥२॥" इत्यर्थः १, काका-अन्यान्यदर्शनग्रहः, सापि सर्व विषया देशविषया च,तत्र सर्व विषया सर्वपाखण्डिधर्माकावारूपा, यथा परिव्राजकभौतिकब्राह्मणादयोऽपि विषयसुखजुषोऽपि परलोकसुखेन युज्यन्त इति साधीयानेव तदीयोऽपि धर्मः, देशकाङ्क्षा त्वेकादिदर्शनविषया, यथा सुगतेन भगवता भिक्षणामक्लेशकारी धर्म उपदिष्टः स्नानानपानाच्छादनशयनादिषु सुखानुभवद्वारेण, यदाह-"मृद्वी शय्या प्रातरुत्थाय पेया, भक्तं मध्ये पानकं चापराहे । द्राक्षा खण्डं शर्करा चार्धरात्रे, मोक्षश्चान्ते शाक्यसिंहेन दृष्टः ॥ १ ॥” इति, एतदपि घटमानकमेव, एवं च काङ्गापि परमार्थतो भगवदर्हत्प्रणीतागमानाश्वासरूपा सम्यक्त्वं दूषयतीत्यतीचारः २, विचिकित्सा-फलं प्रति सन्देहः, स च सत्यपि प्रमाणयुक्त्यागमोपपन्ने सर्वज्ञधर्मेऽस्य दुष्करतरस्य महतस्तपःकेशस्य मया विधीयमानस्य सिकताकणकवलनवनिरास्वादस्यायत्यां फलसम्पत् काचिद्भविष्यति उत क्लेशमात्रमेवेदं निर्जराफलविकलमिति, द्विधाऽपि हि क्रिया वीक्ष्यन्ते सफला अफलाश्च कृषीवलादीनां अत इयमपि क्रिया तथा सम्भाव्यते, न वेवं चिन्तयति, यथा-"पुवपुरिसा जहोदियमग्गचरा घडइ तेसि फलजोगो । अम्हेसु य धिइसंघयणविरहओ न तहमेसि फलं ॥ १॥"[पूर्वपुरुषा यथोदितमार्गचराः घटते तेषां फलयोगः अस्मासु च धृतिसंहननविरहतो न तथैषां फलं ॥१॥] इति, एषाऽपि विचिकित्सा क्रियमाणा भगवद्वचनानाश्वासरूपत्वेन सम्यक्त्वस्य दूषकत्वादतीचारः, न चेयं शङ्कातो न भिद्यते इति वाच्यं, यतः शङ्का सकलासकलपदार्थभाक्त्वेन द्रव्यगुणविषया इयं तु क्रियाफलविषयेति भेदः, भवतु वा एवं शङ्का, विचिकित्सा त्वन्यथा एव व्याख्यायते-विचिकित्सा-निन्दा, सा च सदाचारसाधुविषया, यथाऽस्लानेन प्रस्वेदजलक्लिन्नमलत्वाद् दुर्गन्धिवपुष एते महानुभावाः, को दोषः स्याद् यदि प्रासुकजलेनाङ्गप्रक्षालनं कुरिनिति, एवंरूपाऽपि विचिकित्सा विधीयमाना भगवद्धर्मानाश्वासरूपत्वात् सम्यक्त्वं दूषयतीत्यतीचारः, तथा 'अन्यतीर्थिकप्रशंसा' अन्यतीर्थिकाः-सौगतभौतिकादयः तेषां प्रशंसा-अहो एतेषां राजपूज्यत्वमहो एतेषां सर्वजनमान्यत्वमहोऽदूष्यवैदुष्यादिगुणसमृद्धिः एवमादि, तेषां प्रशंसा प्रतायमानाऽचिन्त्यचिन्तामणिकल्पं सम्यक्त्वं दूषयतीत्यतीचारः, तथा 'परतीथिकोपसेवनं परतीर्थिकैः सह एकत्र संवासात् परस्परालापादिजनितः परिचयः, तदपि सम्यक्त्वं दूषयतीत्यती
वासे तत्प्रक्रियादर्शनश्रवणाभ्यां दृढसम्यक्त्वस्यापि सम्यक्त्वहासः सम्भाव्यते किमुत मन्दबुद्धेर्नवधर्मस्येति, ननु दर्शनाचारं प्रतिपादयता तद्विपक्षतया दर्शनस्याष्टावतीचाराः प्रतिपादिताः ततस्तत्रापि शङ्काकाङ्क्षाविचिकित्साः अत्रापि चेति कथं न पौनरुक्त्यं ?, तत्र ब्रूमः-पूर्व निःशङ्कितत्वाद्यभावमात्रमतीचारतया प्रत्यपादि इह तु जीवादिविषयशङ्कादिसद्भाव इति न कश्चिद्दोषः, इह चातीचारो व्यवहारनयमताश्रयणेन सत्येव सम्यक्त्वे स्खलनामात्र, निश्चयनयमते तु सम्यक्त्वाभाव एव, तथा चोक्तम्-“एकस्मिन्नप्यर्थे" इत्यादि । अथ 'वयाई'ति वितन्यते, तत्राह
पढमवये अइआरा नरतिरिआणऽन्नपाणवोच्छेओ । बंधो वहो य अइभाररोवणं तह छविच्छेओ ॥ २७४ ।। सहसा कलंकणं १ रहसदूसणं २ दारमंतभेयं च ३ । तह कूडलेहकरणं ४ मुसोवएसो ५ मुसे दोसा ॥ २७५ ॥ चोराणीय १ चोरपयोगजं २ कूडमाणतुलकरणं ३ । रिउरजव्ववहारो ४ सरिसजुई ५ तइयवयदोसा ॥२७६ ॥ भुंजइ इतरपरिग्गह १ मपरिग्गहियं थियं २ चउत्थवए।कामे तिव्वहिलासो ३ अणंगकीला४ परविवाहो५॥२७७॥ जोएइ खेत्तवत्थूणि १रुप्पकणयाइ देइ सयणाणं२धणधन्नाइ परघरे बंधइजा नियमपञ्जंतो३ ॥२७८॥ दुपयाई चउप्पयाइँ
गन्भं गाहेइ ४ कुप्पसंखं च । अप्पधणं बहुमोल्लं ५ करेइ पंचमवए दोसा ॥ २७९ ॥ 'पढमवयेत्यादि, प्रथमव्रते-प्राणातिपातविरमणलक्षणे नरतिरश्चामन्नपानव्यवच्छेदः तथा बन्धस्तथा वधस्तथाऽतिभारारोपणं तथा छविच्छेदः, एते पश्चातीचारा-मालिन्यरूपा भवन्ति, तत्रानपानव्यवच्छेदो-भोजनपानयोनिषेधो द्विपदचतुष्पदानां क्रियमाणोऽतीचारः प्रथमव्रतस्य, ननु यद्येवं ज्वरादिरोगाक्रान्तानां पुत्रादीनां लङ्घनादिविधापने गृहीतहिंसाविरमणव्रतस्यातीचारो भविष्यति, तद्युक्तं,
सूत्राणि भवन्ति ततः क्रोधादिवशत इति सूत्रे अध्याहर्तव्यं, ततः क्रोधादिदूषितमना यद्यन्नादिनिषेधं करोति तदाऽ तीचारः, यदा तु हितबुद्ध्या रोगाद्यभिभूतानां पुत्रादीनामन्नादिनिषेधं करोति तदा नातीचार इति, एवमन्यत्रापि क्रोधादिवशत इति द्रष्टव्यं, न चैतदनार्ष, यतोऽन्यत्राभ्यधायि-"बंधवहछविच्छेयं अइभारं भत्तपाणवोच्छेयं । कोहाइदूसियमणो गोमणुयाईण नो कुणइ ॥१॥" [बन्धवधच्छविच्छेदमतिभारं भक्तपानव्यवच्छेदं क्रोधादिदूषितमनाः गोमनुजादीनां न करोति ।। १॥] इत्यादि, किं बहुना?, यद्रोगाद्यमिभूतानां यच्चापठनादिपराणां पुत्रादीनां यच्च शान्तिकृते उपवासादिकारणं तन्नातीचार इत्यर्थः, तथा बन्धो-रज्ज्वादिना गोमनुष्यादीनां नियत्रणं स्वपुत्रादीनामपि विनयपाहणार्थ क्रियते ततः क्रोधादिवशत इत्यत्रापि सम्बन्धनीयं, अतः प्रबलकषायोदयाद् यो बन्धः सोऽतीचार इति, तथा वधो-लकुटादिना हननं, कषायादेव वध इत्यन्ये, तथा 'अतिभारारोपणं' अतिमात्रस्य-वोदुमशक्यस्य भारस्यारोपणं-गोकरभरासभमनुष्यादीनां स्कन्धे पृष्ठे शिरसि वा वहनायाधिरोपणं, इहापि क्रोधालोभाद्वा यदधिकमारारोपणं सोऽतीचार इति, तथा 'छविच्छेदः' छवि:-त्वक तद्योगाच्छरीरमपि वा छविः तस्याश्छेदो-द्वैधीकरणं, स च पावल्मिकोपहतस्य पुत्रादेरपि क्रियते,
47