________________
ततः क्रोधादिवशत इत्यत्रापि दृश्यं, अत्र चावश्यकचूर्णादिभणितो विधिरयं-बन्धो द्विपदानां चतुष्पदानां वा स्यात् , सोऽपि सार्थकोऽनर्थको वा स्यात् , तत्रानर्थकस्तावद्विधातुं न युज्यते, सार्थकः पुनरयं द्विविधः-सापेक्षो निरपेक्षश्च, तत्र सापेक्षो यो दामग्रन्थिना शिथिलेन यश्च प्रदीपनादिषु मोचयितुं छेत्तुं वा शक्यते, निरपेक्षः पुनर्यन्निश्चलमत्यर्थं च बद्ध्यते, एवं तावच्चतुष्पदानां बन्धः, द्विपदानामपि दासदासीचौरपाठादिप्रमत्तपुत्रादीनां यदि बन्धस्तदा सविक्रमणा एव ते बन्धनीया रक्षणीयाश्च यथा ज्वलनभयादिषु न विनश्यन्ति, तथा द्विपदचतुष्पदाः श्रावकेण त एव सङ्ग्रहितव्या ये अबद्धा एवासत इति, तथा छविच्छेदोऽपि तथैव, नवरं निरपेक्षो हस्तपादकर्णनासिकादि यन्निर्दयं छिनत्ति, सापेक्षः पुनर्यद्गण्डं वाऽरुर्वा छिंद्याद्वा दहेद्वेति, तथाऽधिकभारोऽपि नारोपयितव्यः, प्रथममेव हि या द्विपदादिवाहनेन जीविका सा श्रावकेण मोक्तव्या, अथासावन्या न भवेत् तदा द्विपदो यं भारं स्वयमुत्क्षिपत्यवतारयति च एतावान् वाह्यते, चतुष्पदस्य तु यथोचितभारः किंचिदूनः क्रियते, हलशकटादिषु पुनरुचितवेलायामसौ मुच्यत इति, तथा वधोऽपि प्रहाररूपस्तथैव, नवरं निरपेक्षप्रहारो निर्दयताडना, सापेक्षः पुनरेवं-यथा श्रावकेणादित एव भीतपर्षदा भवितव्यं, यदि पुनः कोऽपि न करोति विनयं तदा तं मर्माणि मुक्त्वा लतया दवरकेण वा सकृद् द्विर्वा ताडयेदिति, तथा अन्नपानादिनिषेधः कस्यापि न करणीयः, तीक्ष्णबुभुक्षो ह्येवं नियेतापि, अतः स्वभोजनवेलायां ज्वरितादीन् विमुच्य नियमत एवान्यान् विधृतान् भोजयित्वा स्वयं भुजीत, अन्नादिनिरोधोऽपि सार्थकानर्थकादिभेदो बंधवद् द्रष्टव्यः, नवरं सापेक्षो रोगचिकित्सार्थ स्यात् , अपराधकारिणं च वाचैव वदे-अद्य ते भोजनादि न दास्यत इति, शान्तिनिमित्तं चोपवासादि कारयेत् , किंबहुना?, मूलगुणस्याहिंसालक्षणस्यातीचारा यथा न भवन्ति तथा यतितव्यं । ननु हिंसैव श्रावकेण प्रत्याख्याता ततो बन्धादिकरणेऽपि न कश्चिद् दोषः, हिंसाविरतेरखण्डितत्वात् , अथ बन्धादयोऽपि प्रत्याख्यातास्तदा तत्करणे व्रतमन एव भवेत् , विरतेः खण्डनात् , अपरं च-बन्धादीनां प्रत्याख्येयत्वे विवक्षितव्रतेयत्ता विशीर्यते प्रतिव्रतमतीचारवतानामाधिक्यादिति, एवं च न बन्धादीनामतीचारतेति ब्रूमः, सत्यं, हिंसैव प्रत्याख्याता न बन्धादयः, केवलं तत्प्रत्याख्यानेऽर्थतस्तेऽपि प्रत्याख्याता द्रष्टव्याः, हिंसोपायत्वात्तेषां, न च बन्धादिकरणेऽपि च व्रतभङ्गः किंवतीचार एव, कथं ?, इह द्विविधं व्रतं-अंतर्वृत्त्या बहिर्वृत्त्या च, तत्र मारयामीति विकल्पाभावेन यदा कोपाद्यावेशात् परप्राणप्रहाणमविगणयन् वन्धादौ प्रवर्तते न च परो विपद्यते तदा निर्दयताविरत्यनपेक्षप्रवृत्तत्वेनाऽऽन्तरवृत्त्या व्रतस्य भङ्गो हिंसाया अभावाच्च बहिर्वृत्त्या पालनमिति, देशस्य भजनात् देशस्य च पालनादतीचारव्यपदेशः प्रवर्तते, यदाहुः-"न मारयामीति कृतव्रतस्य, विनैव मृत्यु क इहातिचारः? । निगद्यते यः कुपितो वधादीन , करोत्यसौ स्यान्नियमेऽनपेक्षः ।। १ ।। मृत्योरभावानियमोऽस्ति तस्य, कोपाहयाहीनतया तु भग्नः । देशस्य भङ्गादनुपालनाच, पूज्या अतीचारमुदाहरन्ति ॥ २॥" यञ्चोक्तं 'व्रतेयत्ता विशीर्यते' इति, तदयुक्तं, विशुद्धाहिंसासद्भावे हि बन्धादीनामभाव एव, ततः स्थितमेतद्-बन्धादयोऽतीचारा एव, बन्धादिग्रहणस्योपलक्षणत्वान्मत्रतनप्रयोगादयोऽन्येऽप्यतीचारतया विज्ञेया इति ।। द्वितीयव्रतातीचारानाह-'सहसे'त्यादि, सहसा-अनालोच्य कलङ्कनं-कलङ्कस्य करणमभ्याख्यानमसद्दोषस्यारोपणमितियावत् चौरस्त्वं पारदारिकस्त्वमित्यादि प्रथमोऽतीचारः, ननु सहसा कलङ्कनमसदोषाभिधानरूपत्वेन प्रत्याख्यातत्वाद्भङ्ग एव न त्वतीचार इति, सत्यं, किन्तु यदा परोपघातकमनाभोगादिनाऽभिधत्ते तदा सकेशाभावेन व्रतसाक्षेपत्वान्न भङ्गः परोपघातहेतुत्वाच्च भङ्ग इति भङ्गाभङ्गरूपोऽतीचारः, यदा तु तीव्रसङ्केशादभ्याख्याति तदा भङ्ग एव व्रतनिरपेक्षत्वादिति, तथा रहः-एकान्तस्तत्र भवं रहस्य-राजादिकार्यसम्बद्धं यदन्यस्मै न कथ्यते तस्य दूषणं-अनधिकृतेनैवाकारेङ्गितादिमिर्ज्ञात्वा अन्यस्मै प्रकाशनं रहस्यदूषणं, यथा रहसि मत्रयमाणान् कांश्चिदवलोक्य गृहीतमृषाव्रतः कश्चिद्वदति-एते हि राजापकारादिकारकमिदमिदं च मत्रयन्ते, यद्वा रहस्यदूषणं-पैशून्यं, यथा द्वयोः प्रीतो सत्यामेकस्याकारादिनोपलभ्याभिप्रायमितरस्य तथा कथयति यथा प्रीतिस्तयोः प्रणश्यति इति द्वितीयोऽतीचारः, तथा दाराणां-कलत्राणामुपलक्षणत्वान्मित्रादीनां च मनो-मत्रणं तस्य भेदः-प्रकाशनं दारमत्रभेदः, अस्य चानुवादरूपत्वेन सत्यत्वाद्यद्यपि नातीचारत्वं घटते तथापि विश्रब्धभाषितार्थप्रकटनजनितलज्जादितः कलत्रमित्रादेमरणादिसम्भवेन परमार्थतोऽस्यासत्यत्वात्कथञ्चिद्भङ्गरूपत्वेनातीचारतव, रहस्यदूषणे हि रहस्यमाकारादिना विज्ञायानधिकृत एव प्रकाशयति इह तु मयितैव स्वयं मन्त्रं भिनत्तीत्यनयोभेदः, इति तृतीयोऽतीचारः, तथा कूटस्य-असद्भूतस्य लेखो-लेखनं कूटलेखस्तस्य करणं, एतच्च यद्यपि कायेनासत्यां वाचं न वदामीत्यस्य न वादयामीत्यस्य वा व्रतस्य भङ्ग एव तथापि सहसाकारानाभोगादिनाऽतिक्रमादिना वाऽतीचारः, अथवा सत्यमित्यसत्यभणनं मया प्रत्याख्यातं इदं तु लेखनमिति भावनया व्रतसव्यपेक्षस्यातीचार एवेति चतुर्थोऽतीचारः, मृषा-अलीकं तस्योपदेशो मृषोपदेशः, इदं च 'एवं च एवं च ब्रूहि त्वं एवं च एवं च अभिदध्याः कुलगृहेष्वि'त्यादिकमसत्याभिधानशिक्षाप्रदानमित्यर्थः, इह व्रतसंरक्षणबुद्ध्या परवृत्तान्तकथनद्वारेण मृषोपदेशं यच्छतः पञ्चमोऽतीचारः, व्रतसव्यपेक्षत्वेन मृषावादे परप्रवर्तनेन च भनाभग्नरूपत्वादस्य उपलक्षणत्वानिकृतिप्रधानशास्त्राध्यापनमप्यतीचारः, इति मृषादोषाः-द्वितीयव्रतातीचारा: ॥ २७५ ॥ अथ तृतीयव्रतातीचारानाह--'चोराणी'त्यादि, चौरैरानीतं-आहृतं चौरानीतं कनकवसनादि, अत्र च सूत्रे आदानपदाध्याहारात्तस्यादानं-मूल्येन मुधिकया वा ग्रहणं, चौरानीतं हि काणक्रयेण मुधिकया वा प्रच्छन्नं गृहन चौर एव भवति, ततश्च चौर्यकरणाद् व्रतभङ्गः, वाणिज्यमेव मया विधीयते न साक्षाचौरिकेत्यध्यवसायेन व्रतसापेक्षत्वाच्च न भङ्ग इति भङ्गाभङ्गरूपः प्रथमोऽतीचारः, तथा चौराणां प्रयोजनं व्यापारणं चौरप्रयोग:-हरत यूयमिति हरणक्रियायां प्रेरणा, अथवा चौराणां प्रयोगा:-उपकरणानि कुशि
48