________________
काकर्तरिकाघर्घरिकादीनि तेषामर्पणं विक्रयणं वा उपचाराचौरप्रयोगः ततो जातश्चौरप्रयोगजोडतीचारः, प्राकृतत्वाश्च नपुंसकत्वं, अत्र यद्यपि चौर्य न करोमि न कारयामीत्येवंप्रतिपन्नस्य व्रतस्य चौरप्रयोगो व्रतभङ्ग एव तथापि किमधुना यूयं निर्व्यापारास्तिष्ठथ ? यदि भवतां भोजनादिकं नास्ति तदाऽहं तद्ददामि भवदानीतमोषस्य वा यदि विक्रायको न विद्यते तदाऽहं तं विक्रेष्ये इत्येवंविधवचनैश्चौरान् व्यापारयतः स्वयं च चौर्यव्यापारं परिहरतो व्रतसापेक्षस्यासावतीचार इति द्वितीयः २, तथा मीयतेऽनेनेति मानं - कुडवपलहस्तादि तुला तु प्रसिद्धैव मानं च तुला च मानतुले कूटे च ते मानतुले च कूटमानतुले तयोः करणं-हीनेन मानेन ददाति अधिकेन मानेन च गृह्णाति एवं तुलयाऽपीति तृतीयः ३, तथा रिपोः - द्विषः सम्बन्धिनि राज्ये - नियमिते भूमिभागे कटके वा व्यवहारो-व्यवस्थातिक्रमेण व्यवहरणं, इह च यद्यपि स्वस्वामिनाऽननुज्ञातस्य परकटकादिप्रवेशस्य "सामिजीवादत्तं तित्थयरेणं तहेव य गुरूहिं । एयस्स उ जाऽविरई अदिन्नदाणे सरूवं तं ॥ १ ॥” [ स्वाम्यदत्तं जीवादत्तं तीर्थकरेण तथैव गुरुभिरदत्तं । एतस्माद् याऽविरतिः अद्तादानस्यैतत् स्वरूपं ॥ १ ॥ ] इत्यदत्तादानलक्षणयोगेन विरुद्धराज्यव्यवहारकारिणां च चौर्यदण्डयोगेनादत्तादानत्रतभङ्ग एव तथापि विद्वेषिनृपतिभूमौ मया वाणिज्यमेव क्रियते न चौर्यमिति भावनया व्रतसापेक्षत्वाल्लोके च चौरोऽयमिति व्यपदेशाभावादतीचारतेति चतुर्थः ४, तथा सदृशयुतिः - सदृशानां वस्तूनां युति:- मिश्रीकरणं यथा व्रीहिषु पलञ्जिकान् घृते वसादि तैले मूत्रादि सिकतादि अच्छधवलपण्डिकायां जात्यसुवर्गरूप्ययोर्युक्तिसुवर्णरूप्ये मिश्रयित्वा व्यवहरतीति पञ्चमः अत्र च कूटमानतुलादिव्यवहारः सदृशयुतिश्व परव्यंसनेन परधनग्रहणरूपत्वाद्भङ्ग एव केवलं खात्रखननादिकमेव चौर्य प्रतिषिद्धं मया वणिक्कलैव कृतेति भावनया व्रतरक्षणोद्यतःवादुतीचारता ५, इति तृतीयत्रतेऽतीचाराः || २७६ ॥ इदानीं चतुर्थव्रताती चारानाह - 'भुंज ई 'त्यादि, इत्वरमल्पमुच्यते, ततः इत्वरं - अल्पं परिग्रहो यस्याः सा इत्वरपरिग्रहा, इत्वरकालं परिप्रहो यस्याः सा तथा कालशब्दलोपोऽत्र दृश्य:, अथवा इत्वरी - प्रतिपुरुषमयनशीला वेश्येत्यर्थः परिगृह्यत इति परिग्रहा - कश्चित्कालं भांटीप्रदानादिना संगृहीता इत्वरी चासौ परिप्रहा च सा तथा पुंवद्भावश्चात्र कार्यः, तां यद्भुङ्क्ते-सेवते गृहीतचतुर्थत्रतः सोऽतीचारः, इयमत्र भावना - भाटीप्रदानादित्वरकालं स्वीकारेण स्वकलत्रीकृतस्य वेश्यां सेवमानस्य स्वमतिकल्पनया स्वदारत्वेन व्रतसापेक्ष चित्तत्वान्न भङ्गः अल्पकालं परिग्रहाच वस्तुतोऽन्यकलत्रत्वाद्भङ्ग इति भङ्गाभङ्गरूपत्वादित्वरंपरिग्रहां सेवमानस्य प्रथमोऽतीचारः १, तथा अपरिगृहीता-अगृहीतान्यसत्कभाटि र्वेश्या प्रोषितभर्तृका स्वैरिणी कुलाङ्गना वाऽनाथा तां 'धियं'ति स्त्रियं स्थितां वा, एवंविधां सतीं यो भुङ्क्ते सोऽतीवार इति सण्टङ्कः, अयं चानाभोगादिना अतिक्रमादिना वा अतीचारः २, एतौ च द्वावप्यतीचारौ स्वदारसन्तोषिण एव न तु परदारवर्जकस्य इत्वरपरिमहाया वेश्यात्वेन अपरिगृहीतायास्त्वनाथतयैव परदारत्वाभावात् शेषास्त्वतीचारा द्वयोरपीति हरिभद्रसूरिमतं एतदेव च सूत्रानुपाति, यदाह -- "सदार संतोसस्स इमे पंच अइयारा जाणियव्वा न समायरियव्व"त्ति, अन्ये त्वाहुः - इत्वरपरिग्रहासेवनं स्वदारसन्तोषिणोऽतीचारो यथा पूर्व व्याख्यातस्तथैव, अपरिग्रहासेवनं तु परदारवर्जिनोऽतीचारः, अपरिग्रहा हि वेश्या, यदा च तां गृहीतान्यसत्कभाटिकामभिगच्छति तदा परदारगमनदोषसम्भवात् कथश्वित्परदारत्वाच भङ्गत्वेन वेश्यात्वाच्चाभङ्गत्वेन भङ्गाभङ्गरूपोऽतीचारः इति द्वितीयः, परे पुनरन्यथा प्राहुर्यथा – “परदारवज्जिणो पंच होति तिनि उ सदारसंतुट्ठे । इत्थीए तिन्नि पंच व भङ्गविगप्पेहिं अइयारा ॥ १ ॥ इयमत्र भावना - इत्वरकालं या परेण भाय्यादिना परिगृहीता वेश्या तां गच्छतः परदारवर्जिणो भङ्गः, कथंचित्परदारत्वात्तस्याः, लोके तु परदारश्वारूढेर्न भङ्ग इति भङ्गाभङ्गरूपोऽतीचारः, अपरिगृहीतायामनाथकुलाङ्गनायां यद्गमनं परदारवर्जिनः सोऽप्यतीचारः तत्कल्पनया परस्य भर्तुरभावेनापरदारत्वादभङ्गः लोके च परदारतया रूढेर्भङ्ग इति पूर्ववदतीचारः, शेषास्तु त्रयोऽतीचारा द्वयोरपि भवेयुः, स्त्रियास्तु स्वपुरुषसन्तोषपरपुरुषवर्जनयोर्न भेदः, स्वपुरुषव्यतिरेकेणान्येषां परपुरुषत्वात्, अन्यविवाहनादयस्तु त्रयः स्वदारसन्तोषिण इव स्वपुरुषविषयाः स्युरिति, पञ्च वा, कथं ?, आयस्तावद्यदा स्वकीयपतिर्वारकदिने सपल्या परिगृहीतो भवति तदा सपत्नीवारकं विलुप्य परिभुजानाया अतीचारः द्वितीयस्तु अतिक्रमादिना परपुरुषममिसरन्त्या अतीचारः, ब्रह्मचारिण्या वा स्वपतिमतिक्रमादिना अभिसरन्त्या अतीचारः, शेषास्त्रयः स्त्रियाः पूर्ववदिति । तथा कामे- मदने तीव्रो - गाढोऽभिलाषः - परित्यक्तान्य सकलव्यापारस्य तदेकाध्यवसायता, रमणीमुखकमलकक्षोपस्थान्तरेष्ववितृप्ततया प्रक्षिप्य प्रजननं महतीं वेलां यावन्निश्चलो मृत इवास्ते चटक इव चटकायां मुहुर्मुहुः कामिन्यामारोतीति तृतीयः ३, तथा अनङ्गः - कामः, स च पुंसः स्त्रीपुंनपुंसकसेवनेच्छा हस्तकर्मादीच्छा वा वेदोदयात् तथा स्त्रियोऽपि पुरुषनपुंसकस्त्रीसेवनेच्छा हस्तकर्मादीच्छा वा नपुंसकस्यापि नपुंसकपुरुषस्त्रीसेवनेच्छा हस्तकर्मादीच्छा वा तेन तस्मिन् वा क्रीडा-रमणमनङ्गक्रीडा स्वलिङ्गेन कृतकृत्योऽपि योषितामवाच्यदेशं भूयो भूयः कुष्णाति केशाकर्षणप्रहारदानदन्तनखकदर्थनादिप्रकारैश्च मोहनीय कर्माशात्तथा क्रीडति यथा प्रबलो रागः समुज्जृम्भते, अथवा अङ्गं - देहावयवो मैथुनापेक्षया योनिर्मेहनं वा तद्व्यतिरिक्तान्यनङ्गानि - कुचकक्षोवदनादीनि तेषु क्रीडा, इह च श्रावको ऽत्यन्तपापभीरुतया ब्रह्मचर्य चिकीर्षुरपि यदा वेदोदयासहिष्णुतया तत्कर्तु न शक्नोति तदा यापनामात्रार्थं स्वदारसन्तोषादि प्रतिपद्यते, मैथुनमात्रेणैव च यापनायां सम्भवन्त्यां कामतीत्रामिलाषानङ्गक्रीडे अर्थतः प्रतिषिद्धे, तत्सेवने च न कश्चिद् गुणः प्रत्युत राजयक्ष्मादयो दोषा एव भवन्ति, एवं प्रतिषिद्धाचरणाद्भङ्गः निजनियमाबाधनाञ्चाभङ्ग इत्येतावतीचारौ, अन्ये त्वन्यथाऽतीचारद्वयमपि भावयन्ति स हि स्वदारसंतोषी निधुवनमेव मया प्रत्याख्यातमिति स्वकल्पनया वेश्यादौ तत्परिहरति, ना
49