________________
दीनां तरूणामकुरा अनन्तकायिकाः ॥ २४१ ॥ अनंतकायपरिज्ञानार्थ लक्षणयुक्तिमाह-'गूढसिरे'त्यादि, गूढानि-प्रकटवृत्त्या अज्ञायमानानि सिरा:-सन्धयः पर्वाणि च यस्य पत्रकाण्डनालशाखादेस्तत्तथा, तथा यस्य भज्यमानस्य-शाखादेखोट्यमानस्य पत्रादेः समः-अदन्तुरो भङ्ग:-छेदो भवति तत्समभङ्गं, तथा छिद्यमानस्यैव न विद्यन्ते हीरका:-तन्तुलक्षणा मध्ये यस्य तदहीरकं, तथा छित्त्वा गृहादावानीतं शुष्कताद्यवस्थाप्राप्तमपि जलादिसामग्री प्राप्य गडूच्यादिवत् पुनरपि यत्प्ररोहति तच्छिन्नरुहं, तदेतैर्लक्षणैः साधारणं शरीरं ज्ञेयं, अनन्तकायिकमित्यर्थः । एतल्लक्षणव्यतिरिक्तं च प्रत्येकशरीरमिति ॥२४२॥ पुनरनन्तकायिकस्य लक्षणान्तरमाह-'चकं वे'त्यादि, चक्रमिव-अदन्तुरतया कुम्भकारचक्राकारमेकान्तेन समं भङ्गस्थानं यस्य भज्यमानस्य मूलस्कन्धत्वक्शाखापत्रपुष्पादेः भवति तं मूलादिकमनन्तजीवं विजानीहीति सम्बन्धः. तथा प्रन्थिः-पर्व सामान्यतो भङ्गस्थानं वा स यस्य चूर्णघनो भवति, कोऽर्थः ?यस्य भज्यमानस्य ग्रन्थेः शुभ्रो घनश्चर्णो उड्डीयमानो दृश्यते स वनस्पतिरनन्तजीवानां साधारणमेकं शरीरमित्यर्थः, कथं पुनरसौ समं भज्यत इत्यत्र दृष्टान्तमाह-पृथ्वीसदृशभेदं, अत्र पृथ्वी-केदाराद्यपरिवर्तिनी शुष्ककोप्पटिका श्लक्ष्णखटिकानिर्मितवर्तिका वा गृह्यते, यथा तस्या भज्यमानायाः समः-अदन्तुरो भेदो भवति एवं वनस्पतिरपि चक्राकारं समं यो भज्यत इति भावः ॥२४३॥ पुनर्लक्षणान्तरमनन्तकायिकस्याह-'गूढसिरेत्यादि, यत्पत्रं सक्षीरं निःक्षीरं वा गूढसिराक-अलक्ष्यमाणसिराविशेषं भवति, यदपि च 'प्रतापसन्धि' प्रकृष्टस्तापः-उष्मा येषु एवंविधाः सन्धयो यस्य तत्प्रतापसन्धि 'पण?संधि'त्ति पाठे तु प्रणष्टसन्धि-सर्वथाऽनुपलक्ष्यमाणपत्रार्धद्वयसन्धि यत् अनन्तजीवं तद्विजानीहीति ॥ २४४ ॥ इदानीं वर्जनीयवस्तून्याह
पंचुम्बरि चउविगई हिम विस करगे य सव्वमट्टी य । रयणीभोयणगं चिय बहुवीय अणंतसंघाँणं ॥ २४५ ॥ घोलवडा वायंगणे अमुणिअनामाणि फुल्लफलयाँणि । तुच्छफैलं चलि
यरसं वजह वजाणि बावीसं ॥ २४६॥ 'पंचंबरी'त्यादि, पञ्चानामुदुम्बराणां समाहारः पञ्चोदुम्बरी-वटपिप्पल्योदुम्बरप्लक्षकाकोदुम्बरीफलरूपा समयप्र काकारसूक्ष्मबहुजीवभृतत्वाद्वर्जनीया, तथा चतस्रो विकृतयो-मद्यमांसमधुनवनीतरूपा वाः, सद्य एव तत्र तद्वर्णानेकजीवसम्मूछैनात्, तथा हिमं शुद्धासङ्ख्याप्कायरूपत्वात् , तथा विषं मत्रोपहतवीर्यमपि उदरान्तर्वर्तिगण्डोलकादिजीवविघातहेतुत्वात् मरणसमये महामोहोत्पादकत्वाच, तथा करका अप्यसङ्ख्याप्कायिकत्वात् , तथा सर्वापि मृत्तिका दुर्दुरादिपञ्चेन्द्रियप्राण्युत्पत्तिनिमित्तत्वात् , सर्वग्रहणं खटिकादितद्भेदपरिग्रहार्थ, तद्भक्षणस्यापि आमाश्रयादिदोषजनकत्वात् , तथा रजनीभोजनं बहुविधजीवसम्पातसम्भवेन इहलौकिकपारलौकिकदोषदुष्टत्वात् , तथा बहुबीजं-पम्पोटकादि प्रतिबीजं जीवोपमर्दसम्भवात् , तथा अनन्तानि-अनन्तकायिकानि अनन्तजन्तुसन्ताननिर्घातननिमित्तत्वात् , तथा सन्धानं-अस्त्यानकं बिल्वकादीनां जीवसंसक्तिहेतुत्वात् ॥ २४५॥ तथा 'घोलवडे'त्यादि, घोलवटकानि उपलक्षणत्वादामगोरससम्पृक्तद्विदलानि च केवलिगम्यसूक्ष्मजीवसंसक्तिसम्भवात् , तथा वृन्ताकानि निद्राबाहुल्यमदनोद्दीपनादिदोषदुष्टत्वात् , तथा स्वयं परेण वा येषां नाम न ज्ञायते तान्यज्ञातनामानि पुष्पाणि फलानि, अज्ञानतो निषिद्धफलप्रवृत्तौ व्रतभङ्गसम्भवात्, विषफलेषु प्रवृत्तौ जीवितविनाशात् , तथा तुच्छम्-असारं फलं-मधूकबिल्वादेः उपलक्षणत्वाञ्च पुष्पमरणिशिग्रुमधुकादेः पत्रं प्रावृषि तण्डुलिकादेः बहुजीवसम्मिश्रत्वात् , यद्वा तुच्छफलम्-अर्धनिष्पन्नकोमलचवलकशिम्बादिकं, तद्भक्षणे हि तथाविधा तृप्तिरपि नोपजायते, दोषाश्च बहवः सम्भवन्ति, तथा चलितरसं-कुथितान्नं, उपलक्षणत्वात् पुष्पितौदनादि, दिनद्वयातीतं च दधि वर्जनीयं, जीवसंसक्त्या प्राणातिपातादिलक्षणदोषसंभवात्, एतानि द्वाविंशतिसङ्ख्यानि वर्जनीयानि वस्तूनि कृपापरीतचेतसः सन्तो हे भव्यजना ! वर्जयत-परिहरतेति ॥ २४६ ॥ इदानीं 'उस्सग्गो'त्ति पञ्चमं द्वारमाह
घोडग लयो य खम्भे कुंडे माले य सबैरि वहुनियले । लंधुत्तर थणे उड्डी संजय खेलिणे य वायसै कविढे १४ ॥ २४७ ॥ सीसोकंपिये मूई अंगुलिभमुंहा य वारुंजी पेहीं । एए काउस्सग्गे हवंति दोसा इगुणवीसं ॥ २४८ ॥ आसोव्व विसमपायं आउटावित्तु ठाइ उस्सग्गे। कंपइ काउस्सग्गे लयब्व खरपवणेसंगणं ॥ २४९ ॥ खंभे वा कुडे वा अवठंभिय कुणइ काउसग्गं तु । माले य उत्तमंगं अवठंभिय कुणइ उस्सेंग्गं ॥२५०॥ सबरी वसणविरहिया करेहि सागारिअं जह ठएइ। ठइऊण गुज्झदेसं करेहि इअ कुणइ उस्सैग्गं ॥ २५१ ॥ अवणामिउत्तमंगो काउस्सग्गं जहा कुलवहुन्छ । नियलियआ विव चरणे वित्थारिय अहव मेलविङ ॥ २५२॥ काऊण चोलपढे अविहीए नाहिमंडलस्सुवरि । हेट्ठा य जाणुमेत्तं चिट्ठइ लंबुत्तरुस्सग्गं ॥ २५३ ॥ पच्छाइऊण य थणे चोलगपट्टेण ठाइ उस्सग्गं । दसाइरक्खणट्ठा अहवाऽणाभोगेदोसेणं ॥ २५४ ॥ मेलित्तु पण्हियाओ चलणे वित्थारिऊण बाहिरओ। काउस्सग्गं एसो बाहिरउड्डी मुणेयव्वो ॥ २५५ ॥ अंगुठे मेलविउ वित्थारिय पण्हिआउ बाहिति । काउस्सग्गं एसो भणिओ अभिरुद्धित्ति ॥ ॥२५६ ॥ कप्पं वा पहें वा पाउणि संजइब्व उस्सग्गं । ठाइ य खलिणं व जहा रयहरणं अग्गओ
39