________________
तं कच्छवरिंगियं जाण ॥ १५८ ॥ उहितनिवेसिंतो उव्वत्तइ मच्छउव्व जलमज्झे । वंदिउकामो वऽन्नं झसो व परियत्तएँ तुरियं ॥ १५९ ॥ अप्पपरपत्तिएणं मणप्पेओसो य वेइयाणगं । तं पुण जाणूवरि १ जाणुहिहाओ २ जाणुषाहिं ३ वा ॥ १६०॥ कुणइ करे जाणुं वा एगयरं ठवइ करजुयलमज्झे ४। उच्छंगे करइ करे ५ भयं तु निजूहणाईयं ॥१६१॥ भयइ व भयिस्सइत्ति य इअ वंदइ होरयं निवेसंतो"। एमेव य मित्तीएँ गारव सिक्खाविणीओऽहं ॥ १६२॥ नाणाइतिगं मोत्तुं कारणमिहलोयसाहयं होइ। पूयागारवहेऊं नाणग्गहणेवि एमेव ॥१६३॥ हाउं परस्स दिहिं वंदंते तेणियं हवइ एयं । तेणोविव अप्पाणं गृहइ ओभावणा माँ मे॥१६४॥ आहारस्स उ काले नीहारस्सावि होइ पंडिणीयं । रोसेण धमघमंतो जं वंदइ रु₹मेयं तु ॥ १६५ ॥ नवि कुप्पसि न पसीयसि कट्टसिवो चेव तज्जियं एयं । सीसंगुलिमाईहि य तजेइ गुरुं पणिवेयंतो ॥ १६६ ॥ वीसंभट्ठाणमिणं सम्भावजढे सढं भवइ एयं । कवडंति कइयवंति य सढयावि य हुंति एगट्ठीं ॥१६७ ॥ गणिवायगजिजत्ति हीलिङ किं तुमे पणमिऊणे?। दरवंदियंमिवि कहं करेइ पलिउंधियं एवं ॥ १६८ ॥ अंतरिओ तमसे वा न वंदई वंदई उ दीसंतो । एवं दिट्ठमविट्ठ सिंग पुण मुद्धपसेिहिं ॥१६९॥ करमिव मन्नइ दितो वंदणयं आरहंतियंकरोत्ति । लोइयकराउ मुक्का न मच्चिमोवंतणकरस्स॥ १७०॥ आलिद्धमणालिंद रयहरणसिरेहि होडचउभंगो। वयणक्खरेहि ऊणं जहन्नकालेवि सेसेहिं ॥ १७१ ॥ दाऊण वंदणं मत्थएण वंदामि चूलिया एसां। मूयव्व सहरहिओ जं वंदह मूयगं तं तु ॥ १७२॥ ढड्डरसरेण जो पुण सुत्तं घोसेइ ढड्डरं तमिह । घुडलिं व गिहिऊणं रयहरणं होइ चुडैलिं तु ।। १७३ ॥ पडिक्कमणे सज्झाए काउस्सग्गेऽवराह
पाहुणए । आलोयणसंवरणे उत्तमढे य वंदणयं ॥ १७४॥ 'आयरकरण'मिति आदर:-सम्भ्रमस्तत्करणमादृतं आर्षत्वादाढा तद्विपरीतं-तद्रहितमनाहतं भवति १, जात्यादिमदस्तब्धेन क्रियमाणं वन्दनकमपि स्तब्धं, स्तब्धश्च द्रव्यतो भावतश्च भवति, तत्र चतुर्भङ्गिका, यथा-द्रव्यतः स्तब्धो न भावतः भावतः स्तब्धो न द्रव्यतः अपरो द्रव्यतोऽपि भावतोऽपि च चतुर्थो न द्रव्यतो न भावतः, तत्र द्रव्यतो वातादिपरिगृहीतं कस्यापि शरीरं न नमति भावतस्तु अस्तब्ध एवेत्याद्यो भङ्गः, द्वितीये तु भावः-चित्ताध्यवसायलक्षणः स्तब्धः शरीरं त्वस्तब्धमिति, तृतीये तु द्वयमपि स्तब्धं, चतुर्थे तु द्वयमपि न स्तब्धं, अयं च शुद्धो भङ्गः, शेषभङ्गकेष्वपि भावतः स्तब्धोऽशुद्ध एव, द्रव्यतस्तु भजनीयः-शुद्धोऽशुद्धश्च, तत्र उदरपृष्ठशूलव्यथादिबाधितोऽवनामं कर्तुमशक्तः कारणतः स्तब्धोऽपि शुद्धो, निष्कारणस्त्वशुद्धः, अत एवाह-दबओ भइओ'त्ति द्रव्यतो भाज्यो-भजनीयो, न दुष्ट एव, भावतस्तु स्तब्धो दुष्ट एवेति तात्पर्यम् २॥ १५५ ॥ तृतीयदोषमाह-'पविद्धमणवया"ति प्रविद्धं नाम यदुपचाररहितं, एतदेव व्याचष्टे-यद्वन्दनकं गुरुभ्योऽर्पयन्-ददत् अनियनितो भवति, अनवस्थित इत्यर्थः, अनवस्थितत्वेन च यत्र वा तत्र वा स्थाने प्रथमप्रवेशादिलक्षणेऽसमाप्तमपि वन्दनकमुज्झित्वा नश्यति, क इव यथा किमुज्झतीत्याह-कियकिचोवक्खरं चेव'त्ति, एतदुक्तं भवति-केनचिद् भाटकिना कुतश्चिन्नगरानगरान्तरेऽवस्कर-भाण्डमुपनीतं, अवस्करस्वामिना च स भाटकी भणित:प्रतीक्षस्व किश्चित्कालं, यावदस्यावस्करस्यावतारणाय स्थानं किचिदन्वेषयामि कुत्रापीति, स प्राह-मयाऽस्मिन्नेव नगरे समानेतव्यमिदमित्येवोतं, अतः कृतकृत्यत्वान्नातः प्रतीक्षेऽहमित्युक्त्वाऽस्थाने एव तद्भाण्डमुज्झित्वा गच्छति, एवं साधुरप्यस्थाने एव वन्दनकं परित्यज्य नश्यतीत्येतावताउंशेन दृष्टान्त इति गाथार्थः ३ ॥ १५६ ॥ चतुर्य दोषमाह-'संपिडिए वत्ति यत्र सम्पिण्डिताने एकत्र मिलितानाचार्यादीनेकवन्दनकैनैव वन्दते न पृथक् २ तत्परिपिण्डितं वन्दनकमुच्यते, अथवा वचनानि-सूत्रोचारणरूपाणि करणानि-करचरणादीनि सम्पिण्डितानि-अव्यवच्छिन्नानि वचनकरणानि यस्य स तथा, ऊर्वोरुपरि हस्तौ परिस्थाप्य संपिण्डितकरचरणोऽव्यक्तसूत्रोवारणपुरस्सरं यद्वन्दते तत्परिपिण्डितमिति भावः ४, पचमं दोषमाह-'टोलोव्व'त्ति अवष्वष्कणं पश्चाद्गमनममिष्वष्कणं-अमिमुखगमनं ते अवष्वष्कणामिष्वष्कणे टोलोन्व-तिवदुत्यूवमानः करोति यत्र तट्टोलगतिवन्दनकमित्यर्थः ५ ॥ १५७ ॥ षष्ठं दोषमाह'उवगरणे'त्ति यत्राङ्कशेन गजमिव शिष्यः सूरिमूर्ध्वस्थितं शयितं प्रयोजनान्तरव्यनं वोपगरणे-चोलपट्टककल्पादौ हस्ते वाऽवज्ञया समाकृष्य वन्दनकदानार्थमासने उपवेशयति तदङ्कशवन्दनकमुच्यते, न हि श्रीपूज्याः कदाचनाप्युपकरणाद्याकर्षणमईन्यविनयत्वात्, किन्तु प्रणामं कृत्वा कृतालिपुटैर्विनयपूर्वकमिदमभिधीयते-उपविशन्तु भगवन्तो येन वन्दनकं प्रयच्छामीत्यतो दोषदुष्टमिदमिति, आवश्यकवृत्तौ तु रजोहरणमङ्कुशवत् करद्वयेन गृहीत्वा यद्वन्द्यते तदंकुशमिति व्याख्यातं, अन्ये तु अशाक्रान्तस्य हस्तिन इव शिरोऽवनमनोनमने कुर्वाणस्य यद्वन्दनं तदङ्कशमित्याहुः, एतच द्वयमपि सूत्रानुयायि न भवति, तत्त्वं पुनर्बहुभुता जानन्ति ६, सप्तमं दोषमाह-'ठिउविठ्ठरीति स्थितस्योर्ध्वस्थामेन 'तितीसन्नयरा' इत्यादिसूत्रमुचारयतः उपविष्टस्य-आसीनस्य "अहो कार्य काय' इत्यादि सूत्रं भणतः कच्छपस्येव-जलचरजीवविशेषस्येव रिङ्गणं-अप्रतोऽभिमुखं पश्चादमिमुखं च यत् किचिचलनं तच यत्र करोति शिष्यतत्क
.24