________________
च्छपरिङ्गितं जानीहि ७॥१५८॥ अष्टमं दोषमाह-'उट्टितनिवेसिंतो'त्ति उत्तिष्ठन्निविशमानो वा जलमध्ये मत्स्य इव उद्वर्तते-उद्वेल्लति यत्र तन्मत्स्योद्वत्तं अथवा एकमाचार्यादिकं वन्दित्वा तत्समीप एवापरं वन्दनाई कञ्चन वन्दितुमिच्छंस्तत्समीपं जिगमिषुरुपविष्ट एव झप इव-मत्स्य इव त्वरितमङ्गं परावृत्य यद्गच्छति तन्मत्स्योद्वृत्तं, इत्थं च यदङ्गपरावर्तनं तज्झषावर्तमित्यमिधीयते ८ ॥ १५९ ॥ नवममाह-'अप्पपरपच्चएणंति मनसः प्रद्वेषोऽनेकनिमित्तो भवति, स च सर्वोऽप्यात्मप्रत्ययेन परप्रत्ययेन वा स्यात् , तत्राऽऽत्मप्रत्ययेन यदा शिष्य एव गुरुणा किञ्चित्परुषमभिहितो भवतीति, परप्रत्ययेन तु यदा तस्यैव शिष्यस्य सम्बन्धिनः सुहृदादेः सम्मुखं सूरिणा किमप्यप्रियमुक्तं भवतीत्येवंप्रकारैरपरैरपि स्वपरप्रत्ययैः कारणान्तरैर्मनःप्रद्वेषो भवति यत्र तन्मनःप्रद्विष्टमुच्यते, 'अप्पपरपत्तिएणं'ति यदा पाठस्तदा आत्माऽप्रीतिकेन पराऽप्रीतिकेन च मनःप्रदुष्टं भवति, भावना पूर्ववत् ९ । दशमं दोषमाह-वेइयांपणगंति' जानुनोरुपरि हस्तौ निवेश्य अधो वा पार्श्वयोर्वा उत्सङ्गे वा एकं वा जानुं दक्षिणं वा वामं वा करद्वयान्तः कृत्वा यत्र वन्दनकं विधत्ते तद्वेदिकापञ्चकदोषदुष्टवन्दनकमिति १०॥ १६० ॥ एकादशं दोषमाह-भयंति निजहणाईय'ति-नियूहनं गच्छानिष्काशनं तदादिकं यद्भयं तेन यद्वन्दते तद्भयवन्दनकमाख्यायते इति यथासम्भवं साध्याहारा सर्वत्र व्याख्या कर्तव्या, सूचामात्रत्वात् सूत्रस्येति ११॥१६१।। द्वादशं दोषमाह-'भयइ व भइस्सइ वत्ति' भर्तव्यं, भो आचार्य भवन्तं वन्दमाना वयं तिष्ठाम इत्येवं निहोरकं निवेशयन् वन्दते, किमर्थ ?-भजते वा मां भजनं वा मे करिष्यतीतिहेतोः, किमुक्तं भवति ?-एष तावद्भजते-अनुवर्तते मां सेवायां पतितो वर्तते ममेत्यर्थः, अग्रे च मम भजनं करिष्यत्यसौ, ततश्चाहमपि वन्दनकसत्कं निहोरकं निवेशयामीत्यभिप्रायेण वा यत्र वन्दते तद्भजमानवन्दनकममिधीयते इति १२ । त्रयोदशं दोषमाह-'एवमेवेति मित्तीए'त्ति एवमेवेति कोऽर्थः ?-यथा निहोरकदोषादिदुष्टं वन्दते तथा मैत्र्याऽपि-मैत्रीमाश्रित्य कश्चिद्वन्दते, आचार्येण सह मैत्री-प्रीतिमिच्छन् वन्दत इत्यर्थः, तदिदं मैत्रीवन्दनकमुच्यते १३ । चतुर्दशं दोषमाह-गारव सिक्खाविणीओऽहंति 'गारव'त्ति गौरवनिमित्तं वन्दनकमिति, कथं ?, तदित्याह-'सिक्खाविणीओऽहं'ति शिक्षा-वन्दनकप्रदानादिसामाचारीविषया तस्यां विनीतः-कुशलोऽहमित्यवगच्छंत्वमी सर्वेऽपि साधव इत्यभिप्रायवान् यथावदावाचाराधयन् यत्र वन्दते तद्गौरववन्दनकमित्यर्थः १४॥ १६२॥ इदानीं पञ्चदशं दोषमाह-कारणलक्षणदोषमभिधित्सुः कारणस्यैव तावल्लक्षणमाह-'नाणाइतियं ति ज्ञानदर्शनचारित्रत्रयं मुक्त्वा यत्किमप्यन्यदिहलोकसाधकं वस्त्रकम्बलादि वन्दनकदानात्साधुरमिलषति तत्कारणं भवतीति प्रतिपत्तव्यं तस्माद्वन्दनकं कारणवन्दनकमिति । ननु ज्ञानादिग्रहणार्थ यदा वन्दते तदा किमेकान्तेनैव कारणं न भवतीत्याह-'पूये'त्यादि, यदि पूजाशयेन गौरवाशयेन वा ज्ञानादिग्रहणेऽपि वन्दते तदा तदपि कारणवन्दनकं भवतीति, अत्र च 'नाणग्गहणेऽवित्ति उपलक्षणत्वाद्दर्शनचारित्रग्रहणेऽपीति १५ ॥ १६३ ॥ षोडशं दोषमाह-'हाउं परस्से ति परस्य-आत्मव्यतिरिक्तस्य साधुश्रावकादेदृष्टिं हित्वा-वञ्चयित्वा वन्दमाने सति शिष्ये स्तैन्यवन्दनकं भवति, एतदेवोत्तरार्धन स्पष्टतरं व्याचष्टे-स्तेन इव-तस्कर इवान्यसाध्वाधन्तर्धानेनात्मानं गृहयति-स्थगयति, कस्मादित्याह-'ओभावणा मा में त्ति नन्वसावप्यतिविद्वान् किमन्येषां वन्दनकं प्रयच्छतीत्येवंरूपाऽपभ्राजना मम मा भूदित्यर्थः १६ ॥१६४॥ सप्तदशं दोषमाह-'आहारस्स उ' इत्यादि, आहारस्य नीहारस्य वा-उच्चारादेः काले वन्दमानस्य भवति प्रत्यनीकवन्दनकमिति १७ । अष्टादशं दोषमाह--'रोसेण'त्ति रोषेण केनापि स्वविकल्पजनितेन 'धमधर्मितो'त्ति जाज्वल्यमानो यद् वन्दते तद् रुष्टवन्दनकमिति १८॥ १६५॥ एकोनविंशं दोषमाह'नवि कुप्पसी'ति काष्ठघटितशिवदेवताविशेष इवावन्द्यमानो न कुप्यसि, तथा वन्द्यमानोऽप्यविशेषज्ञतया न प्रसीदसीत्येवं तर्जयन्निर्मसंयन् यद् वन्दते तत्तर्जितमुच्यते, यदिवा 'लोकमध्ये वन्दनकं मां दापयन् त्वं तिष्ठसि सूरे! परं ज्ञास्यते तवैकाकिन' इत्यमिप्रायवान् यदा शीर्षेणाकुल्या वा प्रदेशिनीलक्षणया आदिशब्दाद् ध्रप्रभृतिभिर्गुरुं प्रणिपतन्-वन्दमानस्तर्जयति तदा तर्जितं भवतीति १९ ॥ १६६ ॥ विंशतितमं दोषमाह-वीसंभट्ठाण'मिति विश्रम्भ:-विश्वासस्तस्य स्थानमिदं वन्दनकं, एतस्मिन् यथावदीयमाने भावकादयो विश्वसन्तीत्यभिप्रायेणेव 'सम्भावजड़े'त्ति सद्भावरहिते अन्तर्वासनाशून्ये वन्दमाने सति शिष्ये शठमेतद्वन्दनकं भवतीति शठशब्दमेव पर्यायशब्दाचष्टे कपटमिति कैतवमिति च शठताऽपि चेति भवन्त्येकार्थाः २० ॥१६७॥ एकविंशतितमं दोषमाह'गणिवायग'त्ति गणिन् ! वाचक! ज्येष्ठार्य ! किं त्वया वन्दितेनेत्यादि सोत्प्रासं हीलयित्वा यत्र वन्दते तद् हीलितक्न्दनकमुच्यते २१ । द्वाविंशं दोषमाह-दरवंदियअमिति ईषद् वन्दितेऽपि देशादिका विकथा यत्र करोति तद्विपरीकुचितमिति २२ ॥ १६८॥ त्रयोविंशं दोषमाह-'अंतरिउ'त्ति बहुषु वन्दमानेषु साध्वादिना केनचिदन्तरितस्तमसि वा सान्धकारे प्रदेशे व्यवस्थितो मौनं विधाय उपविश्य वा आस्ते न तु वन्दते दृश्यमाणस्तु वन्दते, एतद् दृष्टादृष्टं वन्दनकमभिधीयते २३ । चतुर्विशं दोषमाह-'सिंगं पुण मुद्धपासेहिं ति मूर्धशब्देनेह ललाटमुच्यते तस्य पाश्वौं-वामदक्षिणभागौ ताभ्यां यद्ददाति वन्दनं तत् शृङ्गमुच्यते, इदमुक्तं भवति'अहो कायं काय' इत्यावर्तान् कुर्वन कराभ्यां न ललाटस्य मध्यदेशं स्पृशति, किन्तु ललाटस्य वामपार्श्व दक्षिणपार्श्व वा स्पृशतीति, कचित् 'सिंगं पुण कुंभपासेहिंति पाठो दृश्यते, तत्रापि कुम्भशब्देन ललाटमेव भण्यत इति, शेषं पूर्ववदिति २४ ॥१६९॥ इदानीं पञ्चविंशं गाथायाः पूर्वार्धन करनामक दोषं उत्तरार्धेन तु मोचनलक्षणं षड़िशं दोषमाह-करमिवेति करमिव-राजदेयभागमिव मन्यते ददद्वन्दनकं आईतः करवन्दनक मिति २५ । गृहीतव्रताश्च वयं लौकिककरान्मुक्तास्तावत् न मुच्यामहे तु वन्दनककरस्याईतस्येति
25