SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ 'ढड्डरति ते रजोहरण अत उभयस्थानान मोचनवन्दनकमिति २६ ॥ १७०॥ सप्तविंशं दोषमाह-आलिट्ठमणालिट्ठमिति आश्लिष्टमनाश्लिष्टं चेति पदद्वयमाश्रित्य रजोहरणशिरसोर्विषये चतुर्भङ्गिका भवति, सा च 'अहो काय काय' इत्याद्यावर्तकाले सम्भवति, यथा रजोहरणं कराभ्यामाश्लिष्यति शिरश्चेयेकः १ रजोहरणं श्लिष्यति न शिर इति द्वितीयः २ शिरः श्लिष्यति न रजोहरणमिति तृतीयः ३, न रजोहरणं न शिरश्च श्लिष्यतीति चतुर्थो भङ्ग ४ इति, अत्राऽऽद्यो भङ्गः शुद्धः, शेषभङ्गत्रये आश्लिष्टानाश्लिष्टदोषदुष्टं प्रकृतवन्दनकमवतरतीति २७। अष्टाविंशं दोषमाह'वयणक्खरेहिंति वचनं-वाक्यं क्रियान्ताक्षरसमूहात्मकं तेन अक्षरैर्वा एकद्व्यादिमिहीनं न्यूनमुच्यते, यदिवा 'जहन्नकाले व सेसेहिं"ति यदि पुनः कश्चिदत्युत्सुकः प्रमादितया जघन्येनैव-स्वल्पेनैव कालेन वन्दनकं समापयति तदा आस्तां वचनाक्षरैः शेषैरप्यवनामादिभिरावश्यकैन्यूनं भवतीत्यर्थः २८ ॥ १७१ ।। एकोनत्रिंशं दोषमाह-'दाऊणं'ति दत्त्वा वन्दनकं पश्चान्महता शब्देन 'मस्तकेनाहं वन्दे' इति यत्र वदति तदुत्तरचूडमिति २९ । त्रिंशत्तमं दोषमाह-'मूओव्व'त्ति आलापकाननुच्चारयन् यद् वन्दते तन्मूकमिति ३० ॥ १७२ ॥ एकत्रिंशं दोषमाह-'ढव'ति ढडरेण-महता शब्देनोच्चारयन्नालापकान् यद्वन्दते ढडुरं तदिहेति ३१ । द्वात्रिंशं दोषमाह-'चुडुलियव्व'त्ति उल्कामिव-अलातमिव पर्यन्ते रजोहरणं गृहीत्वा भ्रमयन् यत्र वन्दते तचुडुलिकमिति द्वात्रिंशद्दोषाः ३२ ॥ १७३ ॥ तथा प्रत्यहं नियतान्यनियतानि च वन्दनकानि भवन्ति, अत उभयस्थाननिदर्शनायाह-'पडिकमणे'त्ति, प्रतीपं क्रमणं प्रतिक्रमणं, अपराधस्थानेभ्यो गुणस्थानेषु निवर्तनमित्यर्थः तस्मिन् सामान्यतो वन्दनकं भवति १, तथा स्वाध्याये वाचनादिलक्षणे २, तथा कायोत्सर्गों यः किल विकृतिपरिभोगाय आचाम्लादिविसर्जनार्थ क्रियते ३, तथाऽपराधे-गुरुविनयोलञ्चनरूपे यतो वन्दनकं दत्त्वा तं क्षमयति ४, तथा प्राघूर्णके समागते सति वन्दनकं भवति, अयमों-ज्येष्ठस्य प्राघूर्णकस्य समागतस्य लघवो वन्दनकं ददति, लघुनाऽपि प्राघूर्णकेन समागतेन वन्दनकं ज्येष्ठस्य दातव्यं, अत्र चायं विधिः-संभोइयग्नसंभोइया य दुविहा हवंति पाहुणया । संभोए आयरियं आपुच्छित्ता उ वंदंति ॥१॥ इयरे पुण आयरियं वंदित्ता संदिसावित्रं तह य । पच्छा वंदेइ जई गयमोहो अहव वंदावे ॥ २॥ इति । [ सांभोगिका अन्यसांभोगिकाश्च द्विविधा भवन्ति प्राघूर्णकाः । सांभोगिकेषु भाचार्यमापृच्छयैव वन्दते ॥ १ ॥ इतरे पुनराचार्य वन्दित्वा संदिश्य तथा च पश्चाद् वन्दते यतीन् गतमोहः अथवा वन्दयेत् ॥२॥] ५, तथाऽऽलोचनायां-अपराधे सति विहारगमने च दीयमानायां वन्दनकं भवति, वन्दनकं दत्त्वा गुरूणामालोचना दीयते इत्यर्थः ६, तथा बहुभिराकारैर्गृहीतस्यैकाशनादिप्रत्याख्यानस्य भोजनानन्तरमाकारसङ्केपणस्वरूपं संवरणं अथवा कृतनमस्कारसहितादिप्रत्याख्यानस्यापि पुनरजीर्णादिकारणतोऽभक्तार्थ गृहृतः संवरणं तस्मिन्नपि वन्दनकं दत्त्वा यत् क्रियते इति ७, तथा उक्तमार्थे-अनशनसंल्लेखनायां वन्दनकं भवतीति एवं नियतानियतस्थानानि वन्दनकानि सामान्येन दर्शितानि ॥ १७४ ॥ इति वन्दनकद्वारं 'पडिक्कमणति तृतीयद्वारमधुना तत्र 'प्रतिक्रमण मिति प्रतीत्ययमुपसर्गः प्रतीपे प्रातिकूल्ये च वर्तते 'क्रमु पादविक्षेपे' इत्यस्य भावे ल्युटप्रत्ययान्तस्य प्रतीपं प्रतिकूलं वा क्रमणं प्रतिक्रमणं, ततोऽयमर्थः-शुभयोगेभ्योऽशुभयोगान्तरं क्रान्तस्य शुभेष्वेव योगेषु क्रमणात्प्रतीपं क्रमणं, यदाह-"स्वस्थानाद्यत्परं स्थानं, प्रमादस्य वशाद्गतः । तत्रैव क्रमणं भूयः, प्रतिक्रमणमुच्यते ॥ १ ॥” प्रतिकूलं वा गमनं प्रतिक्रमणं, यदाहुः-"क्षायोपशमिकादावादौदयिकवशं गतः। तत्रापि च स एवार्थः, प्रतिकूलगमात् स्मृतः ॥१॥" वीप्सार्थे वा प्रतिशब्दः प्रति प्रति क्रमणं प्रतिक्रमणं, उक्तं च-"प्रति प्रति प्रवर्तनं वा शुभेषु योगेषु मोक्षफलदेषु । निःशल्यस्य यतेर्यत्तद्वा ज्ञेयं प्रतिक्रमणम् ॥ १॥" तच्चातीतानागतवर्तमानकालत्रयविषयं, ननु अतीतकालविषयमेव प्रतिक्रमणं युक्तं, यत उक्तम्-"अईयं पडिकमामि पडुपन्नं संवरेमि अणागयं पचक्खामी"ति [भतीतं प्रतिक्राम्यामि प्रत्युत्पन्न संघृणोमि अनागतं प्रत्याख्यामि ] तत्कथं त्रिकालविषयता प्रतिपाद्यते ?, तत्रोच्यते, भत्र प्रतिक्रमणशब्दोऽशुभयोगनिवृत्तिमात्रार्थः, यदुक्तम्-"मिच्छत्तपडिक्कमणं तहेव अस्संजमे य पडिक्कमणं । कसायाण पडिक्कमणं जोगाण य अप्पसत्थाणं ॥ १॥ [मिथ्यात्वप्रतिक्रमणं तथैवासंयमस्य प्रतिक्रमणं । कषायाणां प्रतिक्रमणं योगानां चाप्रशस्तानाम् ॥ १॥] ततश्च निन्दाद्वारेणाशुभयोगनिवृत्तिरूपमतीतविषयं प्रतिक्रमणं प्रत्युत्पन्नविषयमपि संवरद्वारेणाशुभयोगानामनागतमपि प्रत्याख्यानद्वारेणेति न कश्चिदोषः, तच्च देवसिकादिभेदात्पञ्चविधं भवति, दिवसस्यान्ते दैवसिकं रात्रेरन्ते रात्रिकं पक्षस्यान्ते पाक्षिकं चतुर्णा मासानामन्ते चातुर्मासिकं संवत्सरस्यान्ते सांवत्सरिक, व्युत्पत्तिस्तु दिवसे भवमितीकणि दैवसिकमित्यादि, तत्पुनरपि द्विधा ध्रुवमध्रुवं च, तत्र ध्रुवं भरतैरावतेषु प्रथमचरमतीर्थकरतीर्थेषु अपराधो भवतु मा वा उभयकालं प्रतिक्रमणं, अध्रुवं पुनर्मध्यमतीर्थकरतीर्थेषु महाविदेहेषु च, तेषां हि कारणजात एव समुत्पन्ने प्रतिक्रमणं, नान्यथा, यदाहुः-'सपडिक्कमणो धम्मो. पुरिमस्स य पच्छिमस्स य जिणस्स । मन्झिमगाण जिणाणं कारणजाए पडिक्कमणं ॥ १॥[सप्रतिक्रमणो धर्मः पूर्वस्य च पश्चिमस्य च जिनस्य । मध्यगानां जिनानां कारणजाते प्रतिक्रमणं ॥१॥] प्रतिक्रमणविधिश्चायं-“पञ्चविहायारविसुद्धिहेउमिह साहु सावगो वाऽवि । पडिक्कमणं सह गुरुणा गुरुविरहे विधाचारविशुद्धिहेतोरिह साधुः श्रावको वाऽपि । प्रतिक्रमणं सह गुरुणा गुरुविरहे करोत्येकोऽपि ॥१॥] तत्राह-दैवसिकप्रतिक्रमणविधिः चिइवंदण उस्सग्गो पोत्तियपडिलेह वंदणालोए । सुत्तं बंदण खामण वंदणय चरित्तउस्सग्गो 26
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy