________________
॥ १७५ ॥ दसणनाणुस्सग्गो सुयदेवयखेत्तदेवयाणं च । पुत्तियवंदण थुइतिय सक्कथय थोत दे
वसियं ॥१७६॥ 'चिइवंदणे'त्यादि, त्रसस्थावरजन्तुरहिते प्रेक्षितप्रमार्जिते स्थण्डिले ईर्यापथिकी प्रतिक्रम्य प्रथमं चैत्यवन्दनं विधेयं, तदनु आचार्यादीनां क्षमाश्रमणानि दत्त्वा भूमिनिहितशिराः सकलदेवसिकातिचाराणां मिध्यादुष्कृतं दत्त्वा सामायिकपूर्वकं 'इच्छामि ठाइडं काउस्सग्गं' इत्यादिसूत्रं भणित्वा देवसिकातिचारचिन्तनार्थ कायोत्सर्ग करोति, कायोत्सर्गे च बहुव्यापाराः साधवो यावदेकगुणान् देवसिकातिचारांश्चिन्तयन्ति तावदल्पहिण्डनको गुरुर्द्विगुणं चिन्तयति, ततो गुरुणोत्सारिते कायोत्सर्गे साधव उत्सारयन्ति, ततः पारयित्वा 'लोगस्सुजोयगरे' इत्यादि भणित्वा उपविश्य 'पोत्तियपडिलेह'त्ति पोतिकाया-मुखपोत्तिकायाः प्रतिलेख:-प्रतिलेखनं, प्रथमैकवचनस्य प्राकृतत्वाल्लोपो यथायथं द्रष्टव्यः, तदनु 'वंदण'त्ति वन्दनकं दातव्यं, 'आलोए'त्ति तत आलोचनं कार्य, कायोत्सर्गचिन्तितातिचारांश्च गुरोः कथयति, तदनूपविश्य 'सुत्तंति सामायिकादिसूत्रं भणति साधुः स्वकीयं, श्रावकस्तु स्वकीयं, यावद् 'वंदामि जिणे चउवीसं' इति, 'वंदण'त्ति तदनु वन्दनकं ददाति, 'खामण'त्ति तदनु क्षामणकं कुरुते गुर्वादीनां, तत्र चायं विधिः-गुरुमादिं कृत्वा ज्येष्ठानुक्रमेण सर्वान् क्षामयति, आचीर्ण तु यदि पञ्चकादिर्गणो भवति तदा त्रितयं क्षमयति, अथ पञ्चकमध्ये तदा ज्येष्ठमेवैकमिति, एवं प्राभातिकप्रतिक्रमणादिष्वपि, तदनु 'वंदणय'त्ति वन्दनकं ददाति, चः समुच्चये, इदं च वन्दनकमल्लियावणवंदणयमित्युच्यते, आचार्यादीनामाश्रयणायेत्यर्थः 'चरित्तउस्सग्गो'त्ति तद्नु चारित्रविशुद्ध्यर्थ कायोत्सर्गः कार्यः, तत्रोद्योतकरद्वयं चिन्तनीयम् ॥ १७५ ॥ 'दंसणे'त्यादि, ततो दर्शनशुद्धिनिमित्तमुत्सर्गः, तत्रैकोद्योतकरचिन्तनं, तदनु ज्ञानशुद्धिनिमित्तमुत्सर्गः 'सयदेवयखेत्तदेवयाणं च'त्ति तदनु श्रुतसमृद्धिनिमित्तं श्रुतदेवतायाः कायोत्सर्गमेकनमस्कारचिन्तनं च कृत्वा तदीयां स्तुतिं ददाति अन्येन दीयमानां शृणोति वा, ततः सर्वविघ्ननिर्दलननिमित्तं क्षेत्रदेवतायाः कायोत्सर्गः कार्यः एकनमस्कारचिन्तनं कृत्वा तदीयां स्तुति दाति परेण दीयमानां वा. शृणोति चः समुच्चये, तद्नु नमस्कारमभिधायोपविश्य 'पुत्तिय'त्ति मुखपोत्तिकायाः प्रत्युपेक्षणं, तदनु 'वंदण'त्ति मङ्गलादिनिमित्तं वन्दनकं देयं, तदनु 'इच्छामो अणुसहि' इति भणित्वा उपविश्य गुरुभिरेकस्यां स्तुतौ भणितायां 'थुइतिय'त्ति प्रवर्धमानं स्तुतित्रयं प्रवर्धमानस्वरेण भणनीयं, तदनु 'सक्कथयति शक्रस्तवो भणनीयः 'थोत्तं'ति तदनु स्तोत्रं भणनीयं, तदनु दिवसातिचारविशुद्धये कायोत्सर्गः करणीयः लोगस्योद्योतकरचतुष्टयं च चिन्तनीयं, इदं च गाथायामभणितमपि विज्ञेयं, 'देवसियंति इदं सन्ध्यायां दैवसिकं प्रतिक्रमणं विज्ञेयम् ॥ १७६ ॥ अथ प्राभातिकप्रतिक्रमणमभिधीयते, तत्राह
मिच्छादुक्कड पणिवायदंडयं काउसग्गतियकरणं । पुत्तिय वंदण आलोय सुत्त वंदणय खामणयं ॥ १७७ ॥ वंदणयं गाहातियपाढो छम्मासियस्स उस्सग्गो। पुत्तिय वंदण नियमो थुइतिय चिइवंदणा राओ ॥१७८ ॥ णवरं पढमो चरणे दंसणसुद्धीय बीय उस्सग्गो । सुअनाणस्स तईओ नवरं चिंतेइ तत्थ इमं ॥ १७९ ॥ तइए निसाइयारं चिंतइ चरिमंमि किं तवं काहं ? । छ
म्मासा एगदिणाह हाणि जा पोरिसि नमो वा ॥१८॥ 'मिच्छादुक्कड पणिवाये'त्यादि, तत्र भूमितलनिवेशितशिरःकमलः सकलनिशातिचाराणां मिध्यादुष्कृतं दत्वा प्रणिपातदण्डकशक्रस्तवमभिधायोत्थाय सामायिकादिसूत्रं भणित्वा चारित्रशुद्धिनिमित्तं कायोत्सर्ग करोति एकोद्योतकरचिन्तनं, कृत्वा पारयित्वा च दर्शनशुद्धिनिमित्तं 'लोगस्सुजोयगरं' भणित्वा पुनः कायोत्सर्ग करोति, तत्राप्येकमुद्योतकरं चिन्तयति, पारयित्वा ज्ञानविशुद्धिनिमित्तं 'पुक्खरवरि'त्ति भणित्वा पुनः कायोत्सर्ग-विधत्ते, तत्र च निशातिचारांश्चिन्तयति इति कायोत्सर्गत्रितयकरणं पारयित्वा सिद्धादिस्तुति पठित्वा उपविश्य 'पुत्तिय'त्ति मुखपोतिका प्रत्युपेक्ष्य वन्दनकमालोचनं च कृत्वा उपविश्य नमस्कारपूर्व सामायिकादिसूत्रं 'वंदामि जिणे चउव्वीसं' इति पर्यन्तं भणित्वा वन्दनकं ददाति, तदनु क्षामणं कुरुते ॥ १७७ ॥ 'वंदणय'मित्यादि, पुनर्वन्दनं 'आयरिय उवज्झाए' इत्यादिगाथात्रिकस्य पाठः, तद्नु पूर्ववत्सामायिकादिसूत्रं भणित्वा पाण्मासिकतपसश्चिन्तनाय कायोत्सर्गः, तत्र च-'येन संयमयोगानां, हानिः काऽपि न जायते । तत्तपः प्रतिपद्येऽहमिति भावितमानसः ॥१॥ श्रीमहावीरतीर्थेऽस्मिन्नपवासतपः किल । षण्मासान यावदादिष्टमुत्कृष्टं गणधारिभिः ॥ २ ॥ ततो जीव! शक्तोऽसि त्वं संयमयोगानाबाधया पाण्मासिकं तपः कर्तुम् ? इति विचिन्त्य न शक्नोमीति परिभावयति, एकदिनहीनान् षण्मासान शक्नोषि कर्तुं ?, एकोनत्रिंशद्दिनानि पञ्चमासांश्चेत्यर्थः, न शक्नोमीति पूर्ववत् , पुनादिदिनहीनान् यावदेकोनत्रिंशदिनहीनान् षण्मासानिति, एवं पञ्च मासान् चतुरस्त्रीन् द्वौ चैकादिदिनहीनांश्च चिन्तयेत् , एकं च मासमेका दिदिनहीनं यावत् त्रयोदशदिनहीनं, ततश्चतुस्त्रिंशद् द्वात्रिंशादिकं द्विकद्विकहान्या चिन्तयेत् यावच्चतुर्थ, तदनु आचाम्लनिर्विकृतिकपूर्वार्द्धएकाशनादिनमस्कारसहितान्तं यावत्कर्तुं शक्नोति तन्मनसि कृत्वा कायोत्सर्ग पारयति, चतुर्विशतिस्तवं च भणित्वा उपविश्य 'पुत्तिय'त्ति मुखपोतिका प्रत्युपेक्षते, 'वंदण'त्ति ततो वन्दनकं दत्ते, 'नियमो'त्ति ततो नियमः-प्रत्याख्यानं, "थुइतिय'त्ति ततः स्तुतित्रितयं प्रवर्धमानाक्षरं गृहगोधिकादिसत्त्वोत्थापनपरिहारायाल्पस्वरेण भणति, 'चिइवंदण'त्ति ततश्चैत्यवन्दनं विधत्ते 'राओ'ति रात्रिप्रतिक्रमणे ॥ १७८ ॥-नवर मित्यादि नवरं केवलं प्रथम उत्सर्गः 'चरणे'ति चारित्रशुद्धिनिमित्तं, दर्शनशुद्धिनिमित्तं च द्वितीय
27