________________
उत्सर्ग एकैकोद्योतकरचिन्तनं, भुतझानस्य शुद्धिकृते तृतीयः, नवरं-केवलं तत्रेदं वक्ष्यमाणं चिन्तयति तदेवाहं ॥१७९ ॥'तइए निसे'त्यादि, तृतीये उत्सर्गे निशातिचार चिन्तयति, चरिमे कायोत्सर्गे किं तपः करिष्यामीति?, षण्मासान् एकदिनादिहान्या यावत्पौरुषी 'नमोवेति नमस्कारसहितं वा यावञ्चिन्तयेदिति । १८० ॥
ननु देवसिकप्रतिक्रमणे प्रथमोत्सर्गेऽतिचाराश्चिन्त्यन्ते द्वितीयादिकायोत्सर्गेषु च चारित्रादिशुद्धयः क्रियन्ते, प्राभातिकप्रतिक्रमणे च किमिति वैपरीत्येनोत्सर्गकरणमिति, अत्रोच्यते, प्राभातिकप्रतिक्रमणे प्रथमकायोत्सर्गे प्रबुद्धोऽप्यद्यापि निद्राघूर्णमानलोचनः किधिदालस्यवश्यशरीरः सम्यनिशातिचारानशेषानपि स्मरन्न पटूयते, निद्राघूर्णितत्वेन च परस्परं यतीनां संघटनादोषो भवति, उत्सर्गानन्तरं च कृतिकर्मादिकं क्रियमाणं नास्खलितं सम्पद्यते, चारित्रदर्शनशुद्धिविधायिनोः कायोत्सर्गयोः कृतयोनिद्रामुद्रायां च लोचनयोरपगतायामालस्ये च शरीरादपगते सखातपाटवः सुखेनैव सर्वानिशातिचारान् ज्ञानशुद्धिहेतुतृतीयोत्सर्गे स्मरति साधूनां परस्परघट्टनां रक्षति कृतिकर्मादिकं चास्खलितं यथास्थितमनलसः करोतीति प्रथमतः प्राभातिकप्रतिक्रमणे चारित्रशुद्ध्यादिकायोत्सर्गः पश्चादतिचारकायोत्सर्ग इति । यदाहः समयवादिनः- निहामत्तो न सरइ अइयारे कायघटणऽनोन्ने । किहअकरण उस्सगा" ॥१॥[ निद्रावान् न स्मरति अतीचारान् अन्योऽन्यं । कायघट्टना कृत्यकरणदोषा वा ततः प्रभाते आदौ त्रय उत्सर्गाः ॥१॥] इति प्राभातिकप्रतिक्रमणविधिः॥ इदानी पाक्षिकप्रतिक्रमणविधिमाह
मुहपोत्तीवंदणयं संबुद्धाखामणं तहालोए। वंदण पत्तेयं खामणाणि वंदणयसुत्तं च ॥१८१॥ सुत्तं
अन्भुट्ठाणं उस्सग्गो पुत्तिवंदणं तह य । पजंते खामणयं एस विही पक्खिपडिक्कमणे ॥ १८२॥ ' 'मुहपुत्तीवंदणये'त्यादि, तत्र चतुर्दशीपर्वणि देवसिकं प्रतिक्रमणं 'तिविहेण पडिक्कतो वंदामि जिणे चउवीसं' इत्येतदन्तं विभाष 'देवसियं आलोइय पडिकंतं इच्छाकारेण संदिसह भगवन पक्खियमुहपत्ती पडिले हुं ? गुरुणा 'पडिलेह'त्ति. भणिते क्षमाश्रमणं दत्त्वा मुखपोत्तिका प्रत्युपेक्षते, तदनु वन्दनकं ददाति, ततः सम्बुद्धानां-गीतार्थानां पञ्चानां क्षामणकं विधत्ते, तथेति समुपये, तत आलोचनं कुर्वन्ति, तत्र च गुरुश्चतुर्थ दत्ते, चातुर्मासिकसंवत्सरयोश्च षष्ठाष्टमे, ततः पुनर्वन्दनकं, ततः प्रत्येकं यतीनां क्षामणानि कुर्वन्ति, ततः पुनर्वन्दनकं, ततः पाक्षिकसूत्रं त्रिशतं गुरोरादेशादूर्ध्वस्थितो भणत्येकः, शेषाश्चोर्ध्वस्थिता एव विकथादिरहिताः शृण्वन्ति, यदि च बालवृद्धादयो वा तावती वेलामूखंस्थिता न शक्नुवन्ति स्थातुं, तदा क्षमाश्रमणं दत्त्वा गुरूननुज्ञाप्योपविश्य निद्रादिरहिताः प्रवर्धमानशुभभावाः शृण्वन्ति ।। १८१ ॥ सूत्रसमाप्तौ पुनरुपविश्य 'सुत्तति प्रतिक्रमणसूत्रं भणन्ति ततोऽभ्युत्यानं कृत्वा सामायिकादिसूत्रं च भणित्वा द्वादशोद्योतकरचिन्तनमुत्सर्ग करोति, पारयित्वा च 'पोत्तित्ति मुखपोतिकाप्रत्युपेक्षणं, ततो वन्दनकं, तथा चेति समुच्चये, 'पजंते'त्ति वन्दनकपर्यन्ते क्षामणकपञ्चकं कुर्वन्तीति पाक्षिकप्रतिक्रमणविधिः ॥ १८२ ॥ चातुर्मासिके वार्षिकेऽपि च प्रतिक्रमणेऽयमेव विधिः, केवलमत्र सप्त सम्बुद्धक्षामणानि क्रियन्ते, महति च चातुर्मासिके कायोत्सर्गे विंशतिरुद्योतकराश्चिन्त्यन्ते, वार्षिके च चत्वारिंशदेको नमस्कारश्चेति, तदनु पूर्वप्रतिक्रान्तदेवसिकाच्छेषं प्रतिक्रमणं कुर्वन्ति, पाक्षिकादिषु त्रिषु भुतदेवताकायोत्सर्गस्थाने भुवनदेवताकायोत्सर्गः क्रियते ननु दैवसिकप्रतिक्रमणादिषु कियन्तश्चतुर्विंशतिस्तवाश्चिन्त्यन्ते ? तत्राह
चत्तारि दो दुवालेस वीस ,त्ता य हुंति उज्जोया।देसियं रोइय पक्खिय चाउम्भासे य वैरिसे य ॥१८३॥ पणवीस २५ अद्भुतेरस १२३ सलोग पन्नत्तरी ७५ य बोद्धव्वा । सयमेगं पणवीसं १२५ वे बावण्णा य २५२ वरिसंमि ॥ १८४॥ सांय सयं गोसद्धं तिन्नेव सया हवंति पक्खमि । पंच य चांउम्मासे वरिसे अट्ठोत्तरसहस्सा ॥१८५॥ देवर्सियचाउमासियसंवच्छरिएंसु पडिकमणमझे।
मुणिणो खामिज्जति तिन्नि तहा पंच सत्त कमा ॥१८६ ॥ 'चत्तारी'त्यादि चत्वारो द्वौ द्वादश विंशतिश्चत्वारिंशत् चः समुच्चये भवन्त्युद्योता-लोकस्योद्योतकरा देवसिके रात्रिके पाक्षिके चातुमासिके वार्षिके च प्रतिक्रमणे यथासङ्ख्येन चिन्यन्ते 'चंदेसु निम्मलयरा' इत्येतदन्ता इति ॥१८३॥ ननु ज्ञातमिदं देवसिकादिप्रतिक्रमणकायोत्सर्गेष्वेतावन्त एवैतदन्ताश्चिन्त्यंत इति, परमेषु चतुरादिषु 'चंदेसु निम्मलयरा' इत्यन्तेषु लोकस्योद्योतकरेषुचिन्त्यमानेषु कुत्र कियन्तः श्लोका भवन्तीत्याह-'पणवीस' इत्यादि, देवसिकप्रतिक्रमणे लोकस्योद्योतकरचतुष्टये चिन्त्यमाने पञ्चविंशतिः श्लोका भवन्ति, विद्वद्भाषया गाथादयोऽपि श्लोका भण्यन्ते, तत्रैकस्मिन्नुद्योतकरे षट् श्लोकाः, ते च चतुर्गुणाश्चतुर्विशतिः, एकश्च पादश्चतुर्गुण एकः श्लोक इति मिलिताः पञ्चविंशतिः श्लोकाः प्राभातिकप्रतिक्रमणे उद्योतकरद्वये तथैव चिन्त्यमाने द्वादश श्लोकाः श्लोकार्ध च, षट् द्विगुणा द्वादश पादश्च द्विगुणस्तर्ध भवन्त्यतः अर्धत्रयोदशेति, 'सिलोग पन्नत्तरी यत्ति श्लोकानां पञ्चसप्ततिः पाक्षिकप्रतिक्रमणोद्योतेषु द्वादशसु तथैव चिन्यमानेषु, यतो द्वादश षड्गुणा द्विसप्ततिः, पादश्च द्वादशगुणितः श्लोकत्रय, मिलिताश्च पञ्चसप्ततिर्बोद्धव्या । 'सयमेगं पन्नवीसंति चातुर्मासिकप्रतिक्रमणे विंशत्युद्योतकरेषु पञ्चविंशं श्लोकशतं भवति, यतो विंशतिः षनिगुणिता विशं शतं, पादविंशतौ च पञ्च श्लोकाः, मिलिताः पञ्चविंशं शतमिति, 'बे बावन्ना य वरिसंमिति द्वे शते द्विपञ्चाशदधिके श्लोकानां वार्षिकप्रतिक्रमणकायोत्सर्गे चत्वारिंशदुद्योतकराणामष्टोच्छ्वासनमस्कारस्य च चिन्तनेन भवत, चत्वारिंशतः षनिर्गुणने पादचत्वारिंशति
28