________________
च लोकदशकरूपायां क्षिप्तायां सार्धे द्वे शते, ततो भवतो नमस्कारस्य चाष्टौच्छ्रासस्य चिन्तने द्वौ श्लोकौ मिलिताश्च द्वे शते द्विपञ्चाशदधिके भवत इति ॥ १८४ ॥ ननु कस्मिन् कायोत्सर्गे कियन्तः पादा भवन्तीत्याह - 'सायसय 'मित्यादि, 'साये' त्यत्रानुस्वारलोपः प्राकृतत्वात्कृतः, ततः सायं सन्ध्यायां प्रतिक्रमणे शतं पादानां तत्र श्लोकस्य चतुष्पादरूपत्वात् पञ्चविंशतिश्लो. कानां चतुर्भिर्गुणने शतं पादानां भवति, 'गोसे'ति प्राभातिकोद्योतकरद्वयेऽर्ध शतस्य भवति, पादानां पञ्चाशदित्यर्थः, 'तिन्नेव सय'त्तिपाक्षिक प्रतिक्रमणकायोत्सर्गे द्वादशोद्योतकराणां शतत्रयं पादानां भवति, द्वादशानां पञ्चविंशत्या गुणने शतत्रयसम्भवादिति, पंच य चाम्मासे'त्ति चातुर्मासिकप्रतिक्रमणोद्योतकरविंशतौ चिन्त्यमानायां पञ्च शतानि पादानां भवन्ति, विंशतेः पञ्चविंशत्या गुणने पश्चशतसम्भवादिति, 'वरिसे' त्ति वार्षिकप्रतिक्रमणोत्सर्गोद्योतकरचत्वारिंशतो नमस्कारस्य च चिन्तने अष्टोत्तरसहस्रं पादानां भवति, चत्वारिंशतः पश्वविंशत्या गुणने सहस्रसम्भवात्, नमस्कारस्य चाष्टपादरूपत्वाच्चेति, पदशब्देन चात्र पाद एव ज्ञातव्यः, प्राकृतत्वेन ह्रस्वकरणात्, यद्वा पादस्यैवायं पदशब्दः पर्यायो ज्ञेय इति ॥ १८५ ॥ ननु कुत्र प्रतिक्रमणे कियन्ति क्षमणकानि भवन्तीत्याह - 'देव सिये 'त्यादि, इह दैवसिकग्रहणेन रात्रिकपाक्षिकयोरपि ग्रहणं, तुल्यवक्तव्यत्वात्, ततो दैवसिकरात्रिकपाक्षिकेषु चातुर्मासिके सांवत्सरिके च पर्वणि 'प्रतिक्रमणमध्ये' प्रतिक्रमणे क्रियमाणे 'मुनयः' साधवः क्षम्यन्ते, तत्र त्रयः पञ्च सप्त च ' क्रमात् यथासङ्ख्येनेत्यर्थः, अयमभिप्रायःदैवसिकरात्रिकयोस्त्रयः साधवः क्षाम्यन्ते, पाक्षिकेऽपि त्रयः, यदुक्तमावश्यकचूर्णौ पाक्षिकप्रतिक्रमणप्रस्तावे - ' एवं जहन्नेणं तिन्नि, उक्कोसेणं सव्वेवि'त्ति [ एवं जघन्येन त्रयः उत्कृष्टतः सर्वेऽपि ] चातुर्मासिके पश्च सांवत्सरिके च सप्तेति, वृद्धसामाचारी तु दैवसिकरात्रिकयोस्त्रयः पाक्षिके पञ्च चातुर्मासिकसांवत्सरिकयोस्तु सप्त, यदुक्तं पाक्षिकवृत्तौ सम्बुद्धक्षमणप्रस्तावे - ' एवं जहनेणं तिन्नि वा पथ्य वा चाउम्मासिए संवच्छरिए य सत्त उक्कोसेणं तिसुावे ठाणेसु सव्वे खामितित्ति' [ एवं जघन्येन त्रयो वा पश्च वा चातुर्मासिके सांवत्सरिके च सप्त उत्कर्षेण त्रिष्वपि स्थानेषु सर्वे क्षाम्यन्ते ] ॥ १८६ ॥ इति तृतीयं प्रतिक्रमणद्वारं ।
चतुर्थे प्रत्याख्यानद्वारमिदानीं तत्र च प्रतीति-अविरतिस्वरूपप्रभृतिप्रतिकूलतया आमर्यादया आकारकरणस्वरूपया आख्यानं-कथनं प्रत्याख्यानं, तद् द्वेधा - मूलगुणरूपमुत्तरगुणरूपं च मूलगुणा यतीनां पञ्च महाव्रतानि श्रावकाणामनुव्रतानि, उत्तरगुणास्तु यतीनां पिण्डविशुद्ध्यादयः श्रावकाणां तु गुणव्रतशिक्षाव्रतानि, मूलगुणानां हि प्रत्याख्यानत्वं हिंसादिनिवृत्तिरूपत्वात्, उत्तरगुणानां तु पिण्डविशुद्धयादीनां दिग्वतादीनां च प्रतिपक्षनिवृत्तिरूपत्वात्, तत्र च स्वयं प्रत्याख्यानकाले विनयपुरस्सरं सम्यगुपयुक्तः श्रीगुरुवचनमनूच्चरन् प्रत्याख्यानं कुरुते, तत्र च प्रत्याख्याने चतुर्भङ्गी, यथा-स्वयं प्रत्याख्यानस्वरूपं जानन् ज्ञस्यैव गुरोः पार्श्वे करोतीति प्रथमो भङ्गः, गुरोर्शस्य स्वयमजानन् करोतीति द्वितीयः, शिष्यस्य ज्ञत्वे गुरोरज्ञत्वे तृतीयः, गुरोरक्षत्वे शिष्यस्य चाज्ञत्वे चतुर्थः, न चेदं स्वमनीषिकयैवोच्यते, सिद्धान्तेऽभिहितत्वात् यदाह - " जाणगो जाणगसगासे अजाणगो जाणगसगासे जाणगो अजाणगसगासे अजाणगो अजाणगसगासे ” [ज्ञो ज्ञसकाशे अज्ञो इसकाशे ज्ञोऽज्ञसकाशे अज्ञोऽज्ञसकाशे ॥ इत्यादि, तत्र प्रथमो भङ्गः शुद्धः, द्वयोरपि ज्ञायकत्वात्, द्वितीयोऽपि शुद्धो यदा गुरुर्जानानः स्वयमजानानं शिष्यं सङ्क्षेपतो बोधयित्वा प्रत्याख्यानं कारयति अन्यथा त्वशुद्ध एक, तृतीयोऽप्यशुद्धः, परमेषोऽपि तथाविधगुरोरप्राप्तौ गुरोर्बहुमानात् गुरोः सम्बन्धिनं पितृपितृव्यमातृमातुलकभ्रातृशिष्यादिकमज्ञमपि साक्षिणं कृत्वा यदा प्रत्याख्याति तदा शुद्धः, चतुर्थश्वाशुद्ध एवेति, तत्रोत्तरगुणप्रत्याख्यानं प्रतिदिनोपयोगित्वेन तावद् भण्यते तच्च दशधा, तदाह
भावि अईयं कोडी सहियं च नियंटियं च सागारं । विगयागारं परिमाणवं निश्वसेसममयं ॥ १८७ ॥ साकेयं च तहऽद्धीं पञ्चक्खाणं च दसमयं । संकेयं अट्ठहा होइ, अद्धायं दसहा भवे ॥ १८८ ॥ होही पोसवणा तत्थ य न तवो हवेज्ज काउं मे । गुरुगणगिलाणसिक्खगतवस्सिकज्जाउलत्तेण ॥ १८९ ॥ इअ चिंतिअ पुव्वं जो कुणइ तवं तं अणागयं विंति । तमईकंतं तेणेव हेउणा तवइ जं उहुं ॥ १९० ॥ गोसे अग्भत्तङ्कं जो काउं तं कुणइ बीयगोसेऽवि । इय कोडीदुगमिलणे कोडी सहियं तु नामेणं ॥ १९९ ॥ हद्वेण गिलाणेण व अमुगतवो अमुगदिणंमि नियमेणं । काव्वोत्ति नियंटियपञ्चक्खाणं जिणा बिंति ॥ ९९२ ॥ चउदसपुव्विसु जिणकप्पिएस पढमंभि श्वेव संघयणे । एयं वोच्छिन्नं चिय् थेरावि तया करेसी य ॥ १९३ ॥ महतरयागाराई आगारेहिं
यं तु साँगारं । आगारविरहियं पुण भणियमणागारनामंति ॥ १९४ ॥ किंतु अणाभोगो इह सहसागारो अ दुन्नि भणिअव्वा । जेण तिणाइ खिविज्जा मुहंमि निवडिज्ज वा कहवि ।। १९५ ।। इय कयआगारदुगंपि सेसआगाररहिअमणागारं । दुभिक्खवित्तिकंतारगाढरोगाइए कुज्जा ॥ १९६ ॥ दत्तीहि व कवलेहिव घरेहिं भिक्खाहिं अहव दव्वेहिं । जो भत्तपरिचायं करेह परिमाणकँडमेयं ॥ १९७ ॥ सव्वं असणं सव्वं च पाणगं खाइमंपि सव्वंपि । वोसिरह साइमंपि हु सव्वं जं निरर्वसेसं तं ॥ १९८ ॥ केयं गिर्हति सह तेण जे उ तेसिमिमं तु साकेयं । अहवा केयं
29