________________
४०
अनेकान्तजयपताका
(प्रथमः सामान्यं वर्तते । (२४) ततश्च न विषं विषमेव, मोदकाद्यभिन्नसामान्याव्यतिरेकात् । नापि मोदको मोदक एव, विषाभिन्नसामान्याभेदात् । किं तर्हि ? उभयमप्युभयरूपम् । ततश्च विषार्थी विषे प्रवर्तेत मोदके च, एवं मोदकार्थ्यपि मोदके प्रवर्तेत विषे च । (२५) लोकश्च विषार्थी विष एव प्रवर्तते, न मोदके, मोदकार्थ्यपि मोदक एव, न विषे, इत्यस्य नियमस्योच्छेदः स्यात् । तथा विषे भक्षिते मोदकोऽपि भक्षितः स्यात्, मोदके
.................. व्याख्या ....... तथाहीत्यादि । तथाहीत्युपदर्शने । विष-मोदक-क्षीर-कर्कादिव्यक्तिभ्यः । कर्क:-अश्वविशेषः । 'आदि'शब्दाद् गजादिव्यक्तिग्रहः, अभिन्नम्-अव्यतिरिक्तम् अनानास्वभावम्अचित्रस्वभावम् एकं सामान्यं वर्तते । यदि नामैवं ततः किमित्याह-ततश्च न विषं विषमेव एकान्ततः, मोदकाद्यभिन्नसामान्याव्यतिरेकात् कारणाद् विषस्य । नापि मोदको मोदक एव नियतरूपेण, विषाभिन्नसामान्याभेदात् मोदकस्य । किं तर्हि ? उभयमपि-विषमोदकलक्षणम् उभयरूपं-शबलम्, इतरेतराभिन्नसामान्याभेदेन विषमोदकरूपमित्यर्थः । ततश्च विषार्थी जनः विषे प्रवर्तेत मोदके च, तत्त्वत उभयोस्तुल्यत्वात् । एवं मोदकार्थ्यपि मोदके प्रवर्तेत विषे च । भावना पूर्ववत् । न चैतदेवमित्याह-लोकश्च विषार्थी विष एव प्रवर्तते नियमेन, न मोदके । मोदकार्थ्यपि मोदक एव प्रवर्तते, न विषे । इति-एवमस्य नियमस्य प्रवृत्ति
..... मनेतिरश्मि ...... (A) विश्वमा सामान्य मात्र गेछ, (B) सामान्यनो स्वभावयित्र नथी, मे ४ छ भने (C) सामान्य ते विष, भ६४, क्षी२, ४ (घोडानी विशेष-स३६ घोड.) वगेरे तमाम पार्थोनी साथे लायेद छ, मभिन्न छ.
તેથી, વિષ તે માત્ર વિષ જ નહીં રહે, કારણ કે મોદકાદિથી અભિન્ન એવા સામાન્યની સાથે તેનો અભેદ હોવાથી, તે મોદકાદિરૂપ પણ બની જશે. તેમ, મોદક પણ માત્ર મોદક જ નહીં રહે, કારણ કે વિષાદિથી અભિન્ન એવા સામાન્યની સાથે તેનો અભેદ હોવાથી, તે વિષાદિરૂપ પણ બની ४शे.
(२४) साम, विष ते विष-भो६६ 6भय३५ भने भो ते भो६४-विष उमय३५ थ६४शे, અને તેથી તો વિષનો ઇચ્છુક વ્યક્તિ - વિષ-મોદક બંને તુલ્ય હોવાથી - વિષ-મોદક બંને વિશે પ્રવૃત્તિ કરશે અને મોદકનો ઇચ્છુક વ્યક્તિ - મોદક-વિષ બંને તુલ્ય હોવાથી - મોદક-વિષ બંને વિશે પ્રવૃત્તિ ७२शे...
(२५) ५९, तभ तो मेहेपाय छे ,विषा व्यक्ति विष अंगे ४ प्रवर्ते छ, मोह અંગે નહીં અને મોદકાર્થી વ્યક્તિ મોદક અંગે જ પ્રવર્તે છે, વિષ અંગે નહીં. જો વસ્તુને સામાન્યરૂપ પણ માનશો તો - સામાન્યતયા બધા પદાર્થો એક થઈ જતાં - લોકપ્રસિદ્ધ પ્રતિનિયત વ્યવહારનો ઉચ્છેદ થઈ જશે.
१. 'प्रवर्तते' इति क-पाठः। २. 'तथाहीत्युपप्रदर्शने' इति घ-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org