________________
११०
अनेकान्तजयपताका
(प्रथमः सत् परद्रव्यादिरूपेण चासदित्युक्तम् । ततश्च तद् यत एव सत्, अत एवासत्, परद्रव्यादिरूपासत्त्वे सति स्वद्रव्यादिरूपेण सत्त्वात् । यत एव चासत्, अत एव सत्, स्वद्रव्यादिरूपसत्त्वे सति परद्रव्यादिरूपेणासत्त्वात् । अत एव चैकत्र सदसत्त्वयोर्विरोधोऽपि न सम्भवति, भिन्ननिमित्तत्वात्, स्वद्रव्यपरद्रव्यादीनां सदसद्धेतुत्वात्, अनुभवसिद्धत्वाच्च । तथाहि-स्वपररूपानुवृत्तव्यावृत्तरूपमेव तद् वस्त्वनुभूयते ॥
.................. व्याख्या ............. ततश्चेत्यादि । ततश्च तत्-वस्तु यत एव सत्, अत एवासत् । कुत इत्याह-परद्रव्यादिरूपासत्त्वे सति तदनात्मकत्वेन स्वद्रव्यादिरूपेण सत्त्वात् । तथा यत एव चासत्, अत एव सत्, तदिति प्रक्रमः । युक्तिमाह-स्वद्रव्यादिरूपसत्त्वे सति भावात्मकत्वेन परद्रव्यादिरूपेणासत्त्वात् । अत एवेत्यादि । अत एव च कारणात् एकत्र-वस्तुनि सदसत्त्वयोर्विरोधोऽपि न सम्भवति, भिन्ननिमित्तत्वात् कारणात् स्वद्रव्यपरद्रव्यादीनाम् । किमित्याह-सदसद्धेतुत्वात्, स्वद्रव्यादयः सत्त्वकल्पनाया निमित्तम्, परद्रव्यादयश्च असत्त्वकल्पनाया इति । तथा अनुभवसिद्धत्वाच्च एकत्र सदसत्त्वयोविरोधोऽपि न सम्भवति । एतद्भावनायाह-तथाहीत्यादि । तथाहि स्वपररूपाभ्यां यथासङ्ख्यं अव्यावृत्तव्यावृत्तरूपमेव तद् वस्त्वनुभूयते । अनुभवे च ........................................ मनेतिरश्मि ...................................... અસત્ છે, માટે જ - તે વસ્તુ પરરૂપ ન હોવાથી - સ્વદ્રવ્યાદિની અપેક્ષાએં સત્ છે અને જે કારણથી વસ્તુ અસત્ છે, તે જ કારણથી વસ્તુ સત્ છે, કારણ કે વસ્તુ સ્વદ્રવ્યાદિની અપેક્ષાએ સત્ છે, માટે જ – તે વસ્તુ માત્ર પોતાનાં સ્વરૂપે જ હોવાથી – પરદ્રવ્યાદિની અપેક્ષાએ અસત્ છે.
સત્ત્વનું નિમિત્ત સ્વદ્રવ્યાદિ અને અસત્ત્વનું નિમિત્ત પરદ્રવ્યાદિ, આમ સત્ત્વ-અસત્ત્વ બંનેનું નિમિત્ત જુદું જુદું હોવાથી, એક જ ઘટાદિ વસ્તુમાં સત્ત્વ-અસત્ત્વ બંને ધર્મો માનવામાં કોઈ વિરોધ નથી. હા, એક જ નિમિત્તને આશ્રયીને સત્ત્વ-અસત્ત્વ બંને ન ઘટે, પણ પ્રસ્તુતમાં તો બંનેનું નિમિત્ત ४६-४६ डोवाथी, बने धर्मो मविरोध५ो घटी थशे.
જેમ ઘટાદિ વસ્તુની સત્ત્વરૂપતા-નીલરૂપતા-રક્તરૂપતા કે જ્ઞાનની સત્ત્વાકાર-નીલાકારહર્ષાદિઆકાર વગેરેરૂપે અનેકરૂપતા હોવામાં કોઈ વિરોધ નથી, તેમ સ્વદ્રવ્યથી સત્ અને પરદ્રવ્યથી ..................................* विवरणम् ..................
___73. अनुभवे च सद्धोधाद्यनेकरूपतायामिव को विरोध ? इति । अनुभवे च स्वयमेव संवेद्यमानतायां पुन: सद्बोधाद्यनेकरूपतायामिव सदादिरूपतायां-बोधादिरुपतायां च को विरोध: ? न कश्चिदित्यर्थः । तत्र सदादिरूपता सत्त्व-नीलत्व-रक्तत्वादिरुपा घटादेरर्थस्य, बोधादिरूपता च बोध-हर्ष-विषाददैन्यादिरूपा ज्ञानगता ।।
................................*
१. प्रेक्ष्यतां ६५तमं पृष्ठम्। २. 'कल्पनानिमित्तम्' इति क-ङ-पाठः। ३-४. 'स द्वेधाद्यनेक०' इत्युभयत्र क५. '-वेधादि०' इति क-पाठः ।
पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org