Book Title: Anekantjaipataka Part 01
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 363
________________ परिशिष्ट - २ अनेकान्तजयपताका स्मिन् परसंज्ञा परबुद्धिर्भवति । स्वपरविभागाच्च कारणात् स्वपरयोर्यथाक्रमं परिग्रहोऽभिष्वङ्गः, द्वेषः परित्यागस्तौ भवतः । अनयोरनुनयप्रतिषेधयोः सम्प्रतिबद्धाः सर्वे दोषा रागमात्सर्येादयः प्रजायन्ते ॥१/२१९-२२०-२२१॥ पृ. १११ पं. ६ य एव तर्हि कृतकः स एवानित्यः, भेदाभावात् प्रतिज्ञार्थैकदेशो हेतुः स्यात् । नैष दोषः । यस्मात् सर्वे भावाः स्वभावेन स्वस्वभावव्यवस्थितेः । स्वभावपरभावाभ्यां यस्माद् व्यावृत्तिभागिनः ॥३/४०॥ तस्माद् यतो यतोऽर्थानां व्यावृत्तिस्तन्निबन्धनाः । जातिभेदाः प्रकल्प्यन्ते तद्विशेषावगाहिनः ॥३/४१॥ (स्वो०) सर्व एव हि भावाः स्वरूपव्यवस्थितयः । ते नात्मानं परेण मिश्रयन्ति, तस्मादपरत्वप्रसङ्गात् । यद्येषामभिन्नमात्मभूतं रूपम्, न तत्तेषाम्, तदानीं तेषामभावात् । तदैव हि स्यात्, तस्यैव भावात् तद्व्यतिरिक्तस्यान्यस्याभावात् तस्यैव च पुनर्भेदविरोधात् । तच्चात्मनि व्यवस्थितममिश्रमेव । अर्थान्तरमयनैकसंबन्धेऽपि न तत्तेषां सामान्यम्, अतद्रूपत्वात्, द्वित्वादिसंयोग-कार्य-द्रव्येष्वपि प्रसङ्गात् । न हि संबन्धिनाऽप्यन्येनान्ये समाना नाम तद्वन्तो नाम स्युः । भूतवत् कण्ठे गुणेन । नाभिन्नप्रत्ययविषया भूतवत् । तदात्मानमेव हि बुद्धिः संसृजन्ती सामान्यविषया प्रतिभासते नैकसंबन्धिनाविति, भूतवत् । तद्दशिन्याः सा भ्रान्तिरिति चेत्, तदर्शनीति कुतः ? निर्बीजभ्रान्त्ययोगादिति चेत्, त एव तदेककार्या बीजम्, संख्या-संयोगकार्यद्रव्यादिमत्सु भूतादिष्वभावात् च । तन्न, तत्र सामान्यबुद्धौ निवेशाभावात् सामान्यमन्यत् । सति वा तस्यापि स्वात्मनि व्यवस्थानादमिश्रणमेवान्येन । तस्मादिमे भावाः स्वजातीयाभिमतादन्यस्माच्च व्यतिरिक्ताः, स्वभावेनैकरूपत्वात् । यतो यतो भिन्नास्तद्भेदप्रत्यायनाय कृतसन्निवेशैः शब्दैः, ततस्ततो भेदमुपादाय स्वभावाभेदेऽप्यनैकधर्माणः प्रतीयन्ते । तेऽपि शब्दाः सर्वभेदानाक्षेपेऽप्येकभेदचोदनात् तत्स्वलक्षणनिष्ठा एव भवन्ति । तदेकस्मादपि तस्य भेदोऽस्तीति । तस्मादेकस्य भावस्य यावन्ति पररूपाणि तावत्यस्तदपेक्षया व्यावृत्तयः, तदसंभविकार्यकारणस्य तद्भेदात् । यावत्यश्च तद्व्यावृत्तयः तावत्यश्च श्रुतयोऽतत्कार्यकारणपरिहारेण व्यवहारार्थाः । यथा प्रयत्नानन्तरीयकः शब्दः श्रावण इत्यतत्कारणकार्यपरिहारार्थम् । तस्मात् Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370