Book Title: Anekantjaipataka Part 01
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 365
________________ परिशिष्ट - २ अनेकान्तजयपताका OM केवलं न भवति, व्यवहर्त्तव्यैकरूपत्वात् तस्य । तत्र च भेदाभेदविकल्पानवतारः । भावे ह्येष विकल्पः स्याद् विधेर्वस्त्वनुरोधतः ॥३/२७९॥ भावोऽवश्यं भवन्तमपेक्षते । स च स्वभाव एव, निःस्वभावस्य क्वचिद्व्यापारे समावेशाभावात् । व्यापार इति हि तथाभूतस्वभावोत्पत्तिः । सा निःस्वभावस्य कथं स्यात् ? कथमिदानीं भवत्यभावः शशविषाणमित्यादिव्यवहारः ? न वै शशविषाणं किञ्चिद्भवतीत्युच्यतेऽपि त्वेवमस्य न भवतीति भावप्रतिषेध एव क्रियते । अपि च व्यवहर्तारः एतदेवं व्यापारवदिव समारोप्यादर्शयन्ति प्रकरणेन केनचित् । न तु तथा । सर्वार्थविवेचनं हि तत्र तत्त्वम् । न कस्यचित् समावेशः । न खल्वेवं विनाशः, वस्तुनि तदभावात् । असावपि यदि वक्तृभिरेवं ख्याप्यते न तु स्वयं तथा, तदा न भवतीतीष्टमेतत् । तस्मात् स्वयं भवन् स्वभावो विकल्पं नातिवर्त्तते तत्त्वमन्यत्वमिति ॥३/२७९॥ __ (म०) हि यस्माद् भावे विकल्प एष भेदाभेदात्मकः स्यात्, विधेर्वस्त्वनुरोधतः । नाशस्तु प्रसज्यप्रतिषेधरूपो निःस्वभावत्वाद् भेदाभेदविकल्पाक्षमः । यदि च प्रसज्यप्रतिषेधेऽपि वस्त्वन्तरविधिः, तदा पर्युदासान्न भिद्येत । उभयत्रापि विधेः प्राधान्यात् । पर्युदासो वा न सिध्येत्, एकनिवृत्तावपरविधाने स स्यात्, निवृत्त्यसिद्धौ तु कथं युक्तः ? ॥३/२७९।। % % यदार्जवादुक्तमयुक्तमन्यैस्तदन्यथाकारमकारि शिष्यैः । न विप्लवोऽयं तव शासनेऽभूदहो अधृष्या तव शासनश्रीः ॥ - अयोगव्यवच्छेदवात्रिंशिका। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 363 364 365 366 367 368 369 370