________________
अनेकान्तजयपताका
परिशिष्ट - २ स्वभावाभेदेऽपि येन धर्मेण नाम्ना यो विशेषो भेदः प्रतीयते न स शक्योऽन्येन प्रत्याययितुमिति नैकार्थाः सर्वशब्दाः ।
तन्न प्रतिज्ञार्थंकदेशो हेतुरिति ॥३/४०-४२।।
(म०) यदि य एव कृतकः स एवानित्यः भेदाभावात्, तदा प्रतिज्ञार्थैकदेशो हेतुः स्यादित्याह-सर्वे भावाः स्वभावेन स्वस्वभावव्यवस्थितेः आत्मात्मीयरूपव्यवस्थितत्वात् । स्वभावपरभावाभ्यां सजातीयाद् विजातीयाच्च व्यावृत्तिभागिनो यस्मान्न केनचिन्मिश्राः तस्माद् यतो यतोऽस्वरूपादर्थात् व्यावृत्तिरर्थानां तन्निबन्धनाः तत्तद्व्यावृत्तिनिमित्ता जातिभेदास्तद्विशेषावगाहिनः तत्स्वलक्षणाश्रयाः कल्प्यन्ते शब्दैः स्ववाच्यतया ॥३/४०-४१॥
पृ. १८६, पं. २
(स्वो०) नन्वत्र न तस्य किञ्चिद् भवति न भवत्येव केवलम् । इत्युक्तम् ।
न ह्ययं विनाशोऽन्यो वा कश्चिद्भावस्य भवतीत्याह । किं तर्हि स एव भावो न भवति । यदि हि कस्यचिद्भावं ब्रूयान्न भावोऽनेन निवर्तितः स्यात् । तथा च भावनिवृत्तौ प्रस्तुतायामप्रस्तुतमेवोक्तं स्यात् । न हि कस्यचिद्भावेन भावो न भूतो नाम । तदा न भूतो यदि स्वयं न भवेत् । न भवतीति च प्रसज्यप्रतिषेध एष न पर्युदासः । अन्यथेहापि कस्यचिद्भावे न प्रतिषेधपर्युदासयो रूपभेदः स्यात् । उभयत्रापि विधेः प्राधान्यात् । एवं चाप्रतिषेधात् कस्यचित् पर्युदासोऽपि क्वचिन्न स्यात् । यदि हि किंचिन्निवर्तेत यदा तद्व्यतिरेकि संस्पृश्येत तत्पर्युदासेन । तच्च नास्ति, सर्वत्र निवृत्तिर्भवतीत्युक्ते कस्यचिद्भावस्यैव प्रतीतेः । तथाऽनेनार्थान्तरभाव एवोक्तः स्यात् । न तयोः परस्परं विवेकः । अविवेके च पर्युदासः तदेवं व्यतिरेकाऽभावादन्वयोऽपि न स्यात्, तस्यैकस्वभावस्थितिलक्षणत्वात् । तत्स्थितिश्च तदन्यव्यतिरेके सति स्यात् । स च नास्तीत्यप्रवृत्तिनिवृत्तिकं जगत् स्यात् । तस्माद्यस्य नाशो भवतीत्युच्यते स स्वयमेव न भवतीत्युक्तं स्यात् । न वै घोषसाम्याद्विषयान्तरदृष्टो विधिः सर्वत्र योजनामर्हति । न हि गर्दभ इति नामकरणाद्वालेयधर्मा मनुष्येऽपि योज्याः । तथा न चैत्रस्य पुत्रो भवतीत्यत्र दृष्टो विधिविनाशेऽपि, विरोधात् । एवं चाभिधानेऽपि प्रयोजनमावेदितमेव ।
अतो (म०) अत्राह-न तस्य भावस्य किञ्चिद् विनाशोऽन्यो वा भवति । किं तर्हि स एव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org