Book Title: Anekantjaipataka Part 01
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________
परिशिष्ट - २
अनेकान्तजयपताका
भावेषु क्रियते, न धर्मिणः । तन्निषेधे तद्विषयशब्दप्रवृत्त्यभावात् । अनिर्दिष्टविषयस्य नञोऽप्रयोगात् । सोऽपि तर्हि देशादिप्रतिषेधः कथम् ? यस्मात्तत्रापि न देशादीनां प्रतिषेधो नाप्यर्थस्य ।
संबन्धो निषिध्यत इति चेत्, ननु तनिषेधेऽपि तुल्यो दोषोऽनिषेधाद् असति शब्दाप्रवृत्तिरित्यादि । असतो वास्य निषेधे तद्वद्धर्मिणोऽपि निषेधः । न वै संबन्धस्य नास्तीति निषेधः । किं तर्हि ? नेह घटो नेदानीं नैवमित्युक्तो नानेन संबंधोऽस्ति, नैतद्धर्मा वेति प्रतीतिः। तथा च संबन्धो निषिद्धो भवति । तथापि कथं निषेधो यावदस्य संबन्धो धर्मो वा नास्तीति मतिर्न भवति । न चास्याः कथंचिद्भावे संभवः, अभावेषु तथा भावात् । तस्मात् संबन्धाभावप्रतीतेः नायमिहेत्याद्या प्रतीतिः स्यात् । तदभावे न स्यात् । प्रतीतौ वा तदभावस्य यथाप्रतीतिमतस्तत्प्रभवाः शब्दाः केन निवार्यन्ते ? स एव हि शब्दानां न विषयो यो न वितर्काणाम् । ते चेत् प्रवृत्ताः को वचनस्य निषेद्धा? .
न ह्यवाच्यमर्थं बुद्धयः समीहन्ते । संबन्धस्य तु स्वरूपेणानभिधानमुक्तम्,अभिधाने संबन्धित्वेन बुद्धावुपस्थानात् यथाभिप्रायमप्रतीतिः । तदयं प्रतीयमानोऽपि संबंधिरूप एवेति स्वरूपेण नाभिधीयते । तस्मान्नाभाववत् संबन्धेऽपि प्रसङ्गः ।
अपि चायमभावमभिधेयं ब्रुवाणं प्रति प्रतिविदधन्नब्रुवाणः कथं प्रतिविदध्यात् ? वचने चास्य कथमभावोऽनुक्तः ? अथाभावमेव नेच्छेत् तेनावचनम् । तदेवेदानी कथमभावो नास्तीति ? यत् पुनरेतद् अर्थनिषेधेऽनर्थकशब्दाप्रयोगात् निविषयस्य नोऽप्रयोगः इत्यत्रोत्तरं वक्ष्यते । तस्मात् सन्त्यभावेऽपि शब्दाः ।
(म०) किञ्च-सर्वेषां भावानां सर्वात्मत्वे च भिन्नौ धीध्वनी न स्याताम् । एकविषयत्वात् । तयोधीव॑न्योरभेदात् भेदसंहारवादस्यासम्भवः स्यात् । उष्ट्राद् भिन्नं दधि इति भेदव्यवहारः, दध्येवोष्ट्रः इति च तदात्मतोपसंहारव्यवहारश्च बुद्धिशब्दयोरभेदान्न स्यात् । न हि बुद्धिशब्दयोर्भेदव्यवहारो युक्तः, तन्निबन्धनत्वात् तस्य । तदभावेऽपि भावे चातिप्रसङ्गात् । भेदप्रतीत्योर्भावात् तादात्म्योपसंहारश्च कथम्, तदधीनत्वात् तस्य ।
(स्वो०) तेषु कथं स्वभावभेद इति ? तत्रापि - - रूपाभावादभावस्य शब्दा रूपाभिघायिनः ॥३/१८५॥
(स्वो०) वस्तुवृत्तीनां शब्दानां किं रूपमभिधेयमाहोस्विद्भेद इति शङ्काऽपि स्यात् । अभावस्तु विवेकलक्षण एव, निमित्तीकर्तव्यस्य कस्यचिद्रूपस्याभावात् । तद्भावेऽभावायोगात्, तद्भावलक्षणत्वाद् भावस्य । तस्मादयमेव स मुख्यो विवेकः । तस्य तथाख्यायिनः शब्दाः किं विवेकविषया इत्यस्थानमेवैतदाशङ्कायाः ।
तस्मात् सिद्धमेतत्-सर्वे शब्दाः विवेकविषयाः विकल्पकल्पाश्च । एते एकवस्तुप्रतिशरणा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370