Book Title: Anekantjaipataka Part 01
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________
परिशिष्ट - २
अनेकान्तजयपताका
परिशिष्ट - २)
अनेकान्तजयपताकाऽन्तर्गतानां
प्रमाणवार्तिकश्लोकानां स्वोपज्ञव्याख्यायाः - मनोरथनन्दिकृतवृत्त्याश्च समुपन्यासः ॥ पृ. ४४, पं. १
प्रलपन्ति प्रतिक्षिप्तं तदप्येकान्तसम्भवात् ।
(स्वो०) यदयमहीकः-स्यादुष्ट्रो दधि स्यान्नेति किमप्यश्लीलमयुक्तमहेयोपादेयमपरिनिष्ठानादाकुलं प्रलपति, तदप्यनेन निरस्तं स्वभावेनैकान्तभेदात् ।
तदन्वये वा सर्वस्योभयरूपत्वे तद्विशेषनिराकृतेः ॥१८२॥ चोदितो दधि खादेति किमुष्टं नाभिधावति । (३/१८३ पूर्वार्ध)
(स्वो०) तथा पुष्ट्रोऽपि स्याद् दधि, नापि स एवोष्ट्रो येनान्योऽपि स्यादुष्ट्रः । तथा दध्यपि स्यादुष्ट्रः नापि तदेव दधि येनान्यदपि स्याद् दधि । तदनयोरेकस्यापि कस्यचित्तद्रूपाभावस्याभावात्, स्वरूपस्य वा तद्भाविनः स्वनियतस्याभावात् न कश्चिद्विशेष इति दधि खादेति चोदित उष्ट्रमपि खादेत ।।
(म०) एतेन सांख्यमतनिराकरणेनैवाहीका दिगम्बरा यत् स्यादुष्ट्रो दधि वस्तुत्वात्, न वा स्यादुष्ट्रो विशेषरूपतया इति किमप्ययुक्ततया हेयोपादेयविषयापरिनिष्ठानादाकुलं प्रलपन्ति तदपि प्रतिक्षिप्तम्, एकान्तस्य भेदस्य सम्भवात् ।
(म०) आकुलत्वमेवाख्यातुमाह-सर्वस्य वस्तुन उभयरूपत्वे स्वपररूपत्वे सति तद्विशेषस्य दध्येव दधि नोष्ट्रः, उष्ट्र एवोष्ट्रो न दधीत्यस्य भेदस्य निराकृतेः, दधि खादेति चोदितो नियोज्यः किमुष्टुं प्रति नाभिधावति ।
पृ. ४६, पं. १
अथास्त्यतिशयः कश्चिद् येन भेदेन वर्तते ॥३/१८३॥ स एव दधि सोऽन्यत्र नास्तीत्यनुभयं परम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370