________________
अधिकारः) व्याख्या-विवरण-विवेचनसमन्विता
२२३
-ON नामृत्स्वभावेभ्यो व्यावृत्तस्तेनैव मृत्स्वभावेभ्योऽपि, हन्त तर्हि यथैवामृत्स्वभावभावैकान्तविभिन्नावभासहेतुः, तथाव्यावृत्तेः, एवं मृत्स्वभावापेक्षयाऽपि स्यात्, तदत्यन्तविलक्षणबुद्धिजननस्वभावव्यावृत्त्यन्यथाऽनुपपत्तेः । न च भवति, मृत्स्वभावस्य तत्रानुभूयमानत्वात् । (१६५) प्रतिनियतैकस्वभावानुभवनिबन्धनाभ्युपगमे च पर्यायतः ........................
...... व्याख्या * अनुभवविरुद्धत्वात् कारणात् । एतदेव भावयति तथाहीत्यादिना । तथाहीत्युपदर्शने । यदि स:-कपालपदार्थो येनैव स्वभावेन अमृत्स्वभावेभ्यो व्यावृत्त उदकादिभ्यः तेनैव मृत्स्वभावेभ्योऽपि-मृत्पिण्डादिभ्यः । एतदाशङ्क्याह-हन्त तीति । 'हन्त'शब्दो विवादे तीक्षमायाम् । यथैव-येनैव प्रकारेण अमृत्स्वभावेभ्यो भावेभ्य उदकादिभ्य एकान्तविभिन्नावभासहेतुरसौ । कुत इत्याह-तथा-तेन प्रकारेण व्यावर्त्तमानात्यन्तविलक्षणबुद्धिजननस्वभावलक्षणेन व्यावृत्तेः कारणात्, एवं मृत्स्वभावापेक्षयाऽपि स्यात् तदेकान्तविभिन्नावभासहेतुरेव । कुत इत्याह-तदत्यन्तविलक्षणबुद्धिजननस्वभावव्यावृत्त्यन्यथाऽनुपपत्तेः, व्यावर्त्तमानात्यन्तविलक्षणबुद्धिजननस्वभावेन व्यावृत्तेरन्यथाऽनुपपत्तेरिति । न च भवति तदेकान्तविभिन्नावभासहेतुः । कुत इत्याह-मृत्स्वभावस्य तत्र-कपालपदार्थेऽनुभूयमानत्वात् कारणात् ॥ ___अथ ज्वरादिशमनौषधिनिदर्शनेन प्रतिनियतं मृत्पिण्डादिषु तथैकस्वभावानुभवनिबन्धनं किञ्चिदिष्यत इत्येतदाशङ्क्याह-प्रतिनियतेत्यादि । प्रतिनियतं च तत् एकस्वभावानुभवनिबन्धनं च-तुल्यस्वभावानुभवकारणं चेति विग्रहः, तस्य अभ्युपगमस्तस्मिन् सति पर्यायत:
.............. मनेतिरश्मि ................... ઉત્તરપક્ષ આ કથન પણ અયુક્ત છે, કારણ કે તેમાં અનુભવનો વિરોધ છે. તે આ પ્રમાણે - જેમ કપાલ, અમૃતસ્વભાવી ઉદકાદિથી, વ્યાવર્તમાન એવી અત્યંત વિલક્ષણ બુદ્ધિને ઉત્પન્ન કરવાના વ્યાવૃત્તિના સ્વભાવવાળો હોવાથી, તેનાથી તેનો એકાંતભિન્નપણે અવભાસ થાય છે.
તેમ તેનો મૃસ્વભાવી પિંડાદિથી પણ એકાંતભિન્નપણે અવભાસ થશે, કારણ કે, તેનાથી પણ તે તેવી જ વ્યાવૃત્તિવાળો છે... જો તેવો એકાંતભિન્ન અવભાસ ન થાય, તો તેનાથી તેવી વ્યાવૃત્તિવાળો પણ તેને ન માની શકાય... અને તેવો અવભાસ તો થતો નથી, કારણ કે મૃપિંડમાં રહેલા મૃત્સ્વભાવનો અનુભવ તો કપાલમાં પણ થાય છે જ.
(૧૬૫) પૂર્વપક્ષ જેમ અનેક ઔષધિમાં જ્વરશમનનો એક જ સ્વભાવ હોય છે, તેમ તેવી એક ચોક્કસ વસ્તુ કલ્પીશું કે જે ઘટ-મૃતિંડ વગેરેમાં મૃસ્વભાવરૂપ એક સ્વભાવના અનુભવનું કારણ थाय...
१. "तथाहीत्युपप्रदर्शने' इति क-पाठः। २. 'भावेभ्यो मृत्पिडा०' इति ङ-पाठः। ३. 'व्यावर्त्तमानाऽत्यन्त०' इति पूर्वमुद्रिते पाठः, अत्र तु क-पाठानुसारेण शुद्धिः कृता। ४. 'व्यावर्त्यमानात्यन्त०' इति पूर्वमुद्रिते पाठः, अत्र तु ङपाठानुसारेण शुद्धिः कृता।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org