________________
..........
अधिकारः) व्याख्या-विवरण-विवेचनसमन्विता
७१ यथोक्तदोषानुपपत्तिरेव । एतदप्यसारम्, (५२) इत्थमपि कल्पनायां तदवस्तुत्वप्रसङ्गात् । तथाहि-यदि पार्थिवद्रव्यसत्त्वमेव अबादिद्रव्यासत्त्वम्, एवं तर्हि यथा तत् पार्थिवद्रव्यत्वेन सत्, एवमबादिद्रव्यत्वेनापि स्यात्, तत्सत्त्वाव्यतिरिक्तत्वात् तदितरासत्त्वस्य ।
................ व्याख्या ................ एतदप्यसारम् । कुत इत्याह-इत्थमपीत्यादि । एवमपि कल्पनायां क्रियमाणायां तदवस्तुत्वप्रसङ्गात् तस्य-अधिकृतस्य वस्तुनः-घटादिरूपस्य अवस्तुत्वप्रसङ्गात् । एतदेवाह तथाहीत्यादिना । तथाहि यदि पार्थिवद्रव्यसत्त्वमेव अबादिद्रव्यासत्त्वं सत्त्वमेवासत्त्वमित्युभयमप्याश्रित्य, अन्यथैवमभिधानं न युज्यत इत्यभिप्रेतां परविवक्षामनादृत्य तावदेवमाह-एवं तर्हि यथा तत् पार्थिवद्रव्यत्वेन सत् घटादिरूपं वस्तु, एवमबादिद्रव्यत्वेनापि स्यात् सदेव । कुत
..... मनेतिरश्मि * થાય (અસત્ત્વનું અસ્તિત્વ જ ન હોવાથી અસત્ત્વશબ્દ, કોઈનો વાચક નથી અને તો તેવા શબ્દનો પ્રયોગ નિરર્થક જ થાય...) માટે તમારી એ વાત તો માનવા જેવી જ નથી, એટલે એને અવગણીને ग्रंथ।२ उत्तर सापेछ...
(૫૨) જો વસ્તુના સ્વદ્રવ્યાદિથી સત્ત્વને જ પરદ્રવ્યાદિથી અસત્ત્વ માની લેવામાં આવે, તો વસ્તુનો જ અભાવ થશે. તે આ રીતે -
(૧) ઘડાનું પાર્થિવદ્રવ્યત્વેન જે સત્ત્વ છે, તેને જ જો જલાદિત્યન અસત્ત્વ કહેવાય, તો પાર્થિવદ્રવ્યનું સત્ત્વ અને જળાદિદ્રવ્યનું અસત્ત્વ બંને એક થઈ જવાથી – (A) અસત્ત્વ પણ સત્ત્વરૂપ अनशे, मने (B) सत्व ५९ असत्प३५ जनशे, तेथी तो - (A) ५डो भ. पार्थिवद्रव्य३५ सत् छ,
................ विवरणम् ____33. सत्त्वमेवासत्त्वमित्युभयमप्याश्रित्यान्यथैवमभिधानं न युज्यते इत्यभिप्रेतां परविवक्षामनादृत्य तावदेवमाहेति । पार्थिवद्रव्यसत्त्वमेवाबादिद्रव्यासत्त्वमित्यनेन वाक्येन सत्त्वमेवंरूपो य: परमतानुवादः क्रियते सूत्रकारेण स उभयमपि सत्त्वमसत्त्वं च वास्तवमाश्रित्यात्रैव विपक्षे बाधकमाह-अन्यथा वास्तवद्धयानाश्रयणे एवं सत्त्वमेवासत्त्वमनेनोल्लेखेनाभिधानं-भाषणं परस्य न युज्यते इति-अस्मात् कारणात् अभिप्रेतां सम्मतां परविवक्षां परमार्थत: सत्त्वाद् व्यतिरिक्तं न किञ्चिदसत्त्वं वचनभेदेऽपि समस्तीत्येवंलक्षणाम् अनादृत्यपरिहृत्य, तावदिति प्रक्रमार्थः । एवं वक्ष्यमाणं दूषणमाह-इदमिहाकूतं वास्तवयोरेव सत्त्वासत्त्वयोः सत्त्वमेवासत्त्वमिति शब्दार्थविदः परस्य वक्तुं युक्तम्, न पुनरन्यथा, निरर्थकस्य कस्यचिच्छब्दस्य लोके प्रयोगाभावात् इत्यभिप्रायमङ्गीकृत्य उक्तलक्षणपरविवक्षानादरणेन वक्ष्यमाणं दूषणं प्रस्तूयत इति ।।
१. 'तदत्त्वस्य' इति क-पाठः । २. 'सत्त्वमेव रूपो' इति च-पाठः । ३. 'परमानानुवादः' इति क-पाठः । ४. 'बाधकमित्याह' इति क-पाठः। ५. अभिप्रेतां समतां परविवक्षायां परमार्थतः व्यति० इति ख-पाठः। ६. 'इहाकृतं' इति क-पाठः । ७. 'परस्य च युक्तम्' इति क-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org