Page #1
--------------------------------------------------------------------------
________________
नन्दनवन कल्पतराः २१
दक्षिणायनम् - वि.सं. २०६४
सङ्कलनम् कीर्तित्रयी
| शासनसम्राड्-विशेषः-२
शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये।। कल्पतरुनन्दनवन-सत्कोऽयं नन्दतात् सुचिरम् ॥
For Private &Personal-Usarily
www.lainelibrary.org
Page #2
--------------------------------------------------------------------------
________________
नन्दनवनकल्पतरुः २१
दक्षिणायनम् - वि.सं. २०६४
सङ्कलनम् कीर्तित्रयी
carpi मुनिश्री सभ्य सागरक म.
शासनसम्राजामिह समुदाये मेरुपर्वतीपम्ये । कल्पतरुर्नन्दनवन - सत्कोऽयं नन्दतात् सुचिरम् ॥
शासनसम्राड्-विशेष:- २
1524
Page #3
--------------------------------------------------------------------------
________________
नन्दनवनकल्पतरुः ॥ एकविंशी शाखा ॥ (संस्कृतभाषामयं अयन-पत्रम् ॥)
सङ्कलनम् : कीर्तित्रयी ॥
प्रकाशनम् : श्रीजैनग्रन्थप्रकाशनसमितिः, खंभात ॥
वि.सं. २०६३, ई.सं. २००८
मूल्यम् : रू. १००/
प्राप्तिस्थानम् :
श्रीविजयनेमिसूरीश्वरजी स्वाध्याय मंदिर १२, भगतबाग, शेठ आणंदजी कल्याणजीनी पेढी समीप, पालडी, अमदावाद - 380007 दूरभाष : 26622465
सम्पर्कसूत्रम् :
"विजयशीलचन्द्रसूरिः" Clo. Atul H. Kapadia A-9, Jagruti Flats, Behind Mahavir Tower, Paldi, Ahmedabad-380007 दूरभाष : 26574981 M. 9979852135
मुद्रणम् : 'क्रिष्ना ग्राफिक्स'
नारणपुरा गाम, अमदावाद ॥ दूरभाष : 079 - 27494393
Page #4
--------------------------------------------------------------------------
________________
प्रास्ताविकम्
गुरवो बहवः सन्ति शिष्यहितापहारिणः । व विरलाः सन्ति शिष्याणां हितकारिणः ॥
गुरूणामेव साम्राज्यं प्रभावश्च दरीदृश्येते । अत्याधुनिके पश्चिमे
जगत्यपि धर्मगुरूणामेव प्रभुत्वमद्याऽपि । एते हि सर्वमपि जगत् स्वमतीयं कर्तुं | समुत्सुकाः सर्वत्र देशेषु विशेषतश्चाऽविकसितार्धविकसितेषु आफ्रिकीयादिदेशेषु | स्वधर्मस्य प्रचार-प्रसारार्थं सेवामिषेण धर्मप्रसारसंस्था : (Mission) स्थापितवन्त: | सन्त: साम-दानादिप्रकारैर्जनान् स्वमतानुयायिनः कुर्वन्तितराम् ।
अन्यत्र तु केचन धर्मगुरवो धर्मरक्षार्थं (जेहाद ) धर्मप्रसारार्थं चाऽबुधान् युवजनान् उन्मादिनः कुर्वाणाः सर्वत्राऽऽतङ्कं प्रसारयन्ति । (सद्य एवाऽस्माभिरस्याऽऽतङ्कस्याऽनुभूतिः प्राप्तैवाऽत्र ।)
अस्माकमार्यदेशेऽपि तथाकथिता गुरवः श्रद्धालूनन्धश्रद्धालूँश्च जनान् भ्रान्तान् कुर्वन्तः स्वार्थं च साधयन्तो दृश्यन्त एव ।
यद्यप्येते सर्वेऽपि गुरवो 'वयं जनताहितार्थमेव सर्वं कुर्म' इति ब्रुवाणा | मन्यमानाश्च भवन्ति, स्वहितमनवबुध्यमाना जनाश्चाऽपि एते एवाऽस्माकं हित| काङ्क्षिणो हितकारिणश्चेति मन्वानास्तैरुक्तं सर्वमपि प्रमाणतया स्वीकृत्य तदनुरूप| मेवाऽऽचरणं कुर्वन्ति तथाऽपि वस्तुतस्तु तेषामहितमेव भवति ।
एवं सत्यपि केचनाऽत्यल्पसङ्ख्याकास्तादृशा अपि गुरवो भवन्ति ये स्व- परभेदमजानाना 'वसुधैव कुटुम्बक' मिति च मन्वानाः सदैव स्वपरहितार्थमेव प्रवर्तन्ते, जनानपि च तदर्थमेव प्रेरयन्ति प्रवर्तयन्ति च ।
तादृशां गुरूणां सत्त्वादेव जनानां धर्मश्रद्धा परहितबुद्धिश्चाऽद्यपर्यन्तमपि तथैवाऽवस्थिताऽस्ति ।
शामेवाऽस्माकं परमगुरूणां पूज्यशासनसम्राजामाचार्य भगवतां श्रीविजयने मिसूरीश्वराणामाचार्यपदारोहणशतीवर्षमिदं निमित्तीकृत्यैषा शाख शासनसम्राड्विशेषः - २ इति विशेषाङ्कतया प्रकाशिताऽस्ति । सद्गुरूणां गुणगानेन स्वजन्म कृतार्थं कुर्याम इति ।
श्रावणशुक्ला पञ्चमी, २०६४ अहमदाबादनगरम्
3
कीर्तित्रयी
Page #5
--------------------------------------------------------------------------
________________
वाचकानां प्रतिभावः
नमो नमः श्रीगुरुनेमिसूरये ॥ | सानुवन्दनं निवेद्यते विजयहेमचन्द्रसूरिणा नन्दनवनकल्पतरोविषयकः हर्षोद्गार: अनवद्यविद्याविद्योतितान्त:करणं श्रीविजयशीलचन्द्रसूरिवरं प्रति
नन्दनवनकल्पतरोः विंशतितम: शासनसम्राविशेषः सम्प्राप्तः, तं दृष्ट्वा पठित्वा च परमाह्लादः सञ्जातः । अनेन विशेषाङ्केन
- पूज्यतमपादपङ्केरुहेभ्य: न्यायव्याकरणादिसकलशास्त्रपारावारपारङ्गतेभ्यः सूरिचक्रचक्रवतिभ्यः शासनसम्राटपरमगुरुभगवद्भयः तेषां सूरिपदारोहणशताब्दीवर्षे सुयोग्या तथा च तेषां विरलाप्रतिमव्यक्तित्वानुरूपाऽञ्जलिः प्रदत्ताऽस्ति ।
विशेषाङ्केऽस्मिन्ननेकानि भक्तिभावसम्भृतानि विशदवैदुष्यपरिचायकानि प्राचीनार्वाचीनानि अत्यद्भुतानि स्तुतिस्तोत्राणि एतादृशानि समाविष्टानि सन्ति यानि भूयो भूयो वाचनाय पठनाय गानाय च चेतः समुल्लसत्येव।
लेखा अपि सर्वे प्रशस्ततरा एव विद्यन्ते, तथाऽपि तेषु 'चित्रमयविजयनेमिसूरि'-शीर्षक: मुनिश्रीरत्नकीर्तिविजयलिखितः सचित्रः लेखः भृशं गौरवास्पदं प्रतिभाति, एतद्वाचनेन पूज्यपादपरमगुरुभगवतां समस्तमपि जीवनं वर्णिकारूपेण ज्ञातं भवति ।
विद्वत्सत्तमाचार्यश्रीविजयशीलचन्द्रसूरिविरचितगुर्जरभाषामयगुरुगुणसकीर्तनरूपाष्टप्रकारीपूजामनुसृत्य काव्यविरचनविशिष्टशक्तिसम्पन्नेन मुनिश्रीकल्याणकीर्तिविजयेन संस्कृतभाषामयं तत्समपद्यमनूदितं गुरुगुणसङ्कीर्तनं प्रभूतमाह्लादजनकं विद्यते ।
श्रीअमृतपटेलाभिधविद्वन्महाशयेन लिखितः 'शासनसम्राट.... एकं लघुकवनम्' नामकः लेखोऽपि सुष्ठुतरः हृदयङ्गमश्चाऽस्ति, एतद्वाचनेन वाचकस्य हृदये पूज्यपादशासनसम्राड्गुरुभगवतामुपर्यपूर्वआदरभावोऽवश्यमुत्पन्नो भविष्यत्येव ।
तथा च श्रीकीर्तित्रयीमुनिवरैः पृथग्रूपेण विद्वच्चेतश्चमत्कृतिजनकाः लिखिताः अपि समीचीनाः सन्ति । किन्तु बलात् चित्ताकर्षणं करोति बाल्यात्तसंयमेन शास्त्राभ्यासपरिकर्मितमतिना मुनिश्रीत्रैलोक्यमण्डनविजयेन लिखितः शासनसम्राट श्रीपरमगुरुभगवच्छिष्यप्रशिष्यसमुदायवर्तिकतिचिद्विविधशास्त्रनिष्णातानेकविशिष्टग्रन्थरचनाकारकानां तत्तत्सूरीश्वराणां गुणवर्णनात्मकः लेखः । इतिं विधाय भूयो भूयोऽनुमोदनां विरम्यते ।।
Page #6
--------------------------------------------------------------------------
________________
स्वस्ति दृष्ट्वा नन्दनकल्पवृक्षमतुलं नन्दामि हृद्यप्रभं विज्ञं संशयकल्मषापहरणं सन्तोषसन्तानदम् । श्रीमत्पार्थिवमौलिरत्नविलसत्पादस्य नेमिप्रभोर्माहात्म्येन सुवासितं सितयशोहंसालिकीर्णाम्बरम् ॥ पण्डितैः पूजितं लेखनै राजितं भ्राजितं चित्रणैर्वीजितं सज्जनैः । नन्दनालङ्कृति कल्पकं सत्कृति वीक्षमाणो नरो निर्भरं मोदते ॥ कीर्तित्रयी यस्य मूलं स व्याप्नोति जगत्त्रयीम् ।
श्रीनन्दनकल्पतरुः सर्वाभीष्टफलप्रदः ।। एच्. वि. नागराजराव् 90, 9th Cross, Navilu Raste, Kuvempunagars
वाचकानां प्रतिभावः
MYSORE
वाचकानां प्रतिभावः परमादरणीयाः श्रीविजयशीलचन्द्रसूरिवर्याः । सादरं प्रणतयः ।
ह्यः 'नन्दनवनकल्पतरुः २०' प्राप्तः । शुभ्राणि स्निग्धानि सुन्दराणि च पत्राणि ! दोषरहितं मुद्रणकार्यम् !! सचित्रा च गुरुवरगाथा !!! अहो रमणीयता अस्य विशेषाङ्कस्य ।
मम सद्भाग्यं यत् ईदृविधानामुदात्तचरितानां श्रीविजयनेमिसूरीश्वराणां जीवनकथासरितावगाहनम् अनायासमेव सञ्जातम् ।
भवतां सर्वेषां निर्व्याजस्नेहभाजनतां गतोऽस्मि इत्यनुभूय सुतरां प्रसन्नता सञ्जायते मे मनसि ।
अनिल र. द्विवेदी ३०३-ऋषि एपार्टमेन्ट्स, २, आनन्द कोलोनी, जामनगरम्-३६१००८
Page #7
--------------------------------------------------------------------------
________________
पृष्ठम्
4 4 .
अनुक्रमः -- * कृतिः
कर्ता शासनसम्राड्विशेषः
श्रीविजयनेम्यभ्युदयमहाकाव्यम्- भूमिका विजयशीलचन्द्रसूरिः श्रीविजयनेम्यभ्युदयमहाकाव्यम्
आचार्यश्रीविजयउदयसूरिः श्रीमदाचार्यवर्यविजयनेमिसूरीश्वरगुर्वष्टकम् विजयनेमिसूरीश्वरशिष्यः
पं.श्रीप्रतापविजयः गुरुस्तुत्यष्टकम्
विजयशीलचन्द्रसूरिः परमगुर्वष्टकम्
विजयशीलचन्द्रसूरिः अज्ञातकर्तृकं श्रीनेमिसूरीश्वरस्तुत्यष्टकम् सद्धर्मदं विजयनेमिमहं प्रणौमि !!
प्रा. अभिराजराजेन्द्र मिश्रः विजयनन्दनसूरिप्रशस्तिः
स्व. कविभालचन्द्रः पूज्यपादशासनसम्राट श्रीपरमगुरुभगवतां प्रथमं दर्शनम् आ. विजयहेमचन्द्रसूरिः (देवशिशुः) सर्वं सत्त्वे प्रतिष्ठितम्
मुनिरत्त्रकीर्तिविजयः वचनसिद्धिः
मुनिधर्मकीर्तिविजयः भज जिनराजम्
मुनिकल्याणकीर्तिविजयः सरस्वत्या वन्दनम्
डॉ. आचार्यरामकिशोर मिश्रः गलज्जलिकाः (३)
प्रा. अभिराजराजेन्द्रमिश्रः पत्रम्
मुनिधर्मकीर्तिविजयः स्मरणम्
मुनिधर्मकीर्तिविजयः अनुवादः सौन्दर्यस्य नवं द्वारम्
मुनिरत्नकीर्तिविजयः कथा कथात्रयी
मुनिकल्याणकीर्तिविजयः स आसीन्मम तातपादः
प्रा. अभिराजराजेन्द्रमिश्रः कण्ठाभूषणम्
डॉ. आचार्यरामकिशोरमिश्रः मर्म-नर्म
कीर्तित्रयी प्राकृतविभागः पा अपाझुडम् - प्राकृतप्राभृतम्
अरैयर् श्रीरामशर्मा कहा पाइयविन्नाणकहा
आचार्यविजयकस्तूरसूरिः
१०३
०. or
१३६
Page #8
--------------------------------------------------------------------------
________________
BAHRHAAHHAASTAGAHANGARALARDARAHIA
ര
SUVIGTGTGALILELEGNO PEUGPGPS VENDING NEW
Yodybdybayan
Propelekestelele
शासनसम्राड्-विशेषः - २ PAULUSLARARAPHRACARTHRALI CHATRAPARIRANGACARARHRHEIT HEDDADIGDHUNINGDE DA VIDA DIVIDUAL O
Page #9
--------------------------------------------------------------------------
________________
श्रीविजयनेम्यभ्युदयमहाकाव्यम् भूमिका
विजयशीलचन्द्रसूरिः । __ जैनधर्मः परिपूर्णः प्रकृतिरक्षापरायणो धर्मः । जिन-दैवता जना जैनाः । जिनश्च र
राग-द्वेष-मोहजेता यः कश्चिदपि भवति सः । अहिंसा अस्य धर्मस्य मौल: सिद्धान्तः । तो नैकोऽपि जीवो हन्तव्य: उपद्रोतव्यः; मनसाऽपि न, वाचाऽपि न, कायेनाऽपि न, ॐ MAA इत्येतत्तस्य हार्दम् । 'सर्वेऽपि जीवा जीवितुमिच्छन्ति, न मर्तुम्', अतो यत्र चेतना ( 'विद्यते, तस्य रक्षा करणीया, हिंसा नैव कर्तव्या- इति जैनानां मतम् ।
जैनसिद्धान्तः पृथिव्यां, जले, अग्नौ, वायौ, वनस्पतिषु चाऽपि चैतन्यस्य सत्तां स्वीकरोति । अतो न तेषां तत्त्वानामकारणमुपयोगः, तदर्थं तेषां वधश्च करणीयत्वेन ते स्वीकुर्वते । प्रकृतिश्च एभिरेव पदार्थैर्व्याप्तेति जगत्प्रसिद्धम् । अत एषां जीवानां यदा रक्षा क्रियते, तदा स्वयमेव पृथ्वी-पर्वत-मृत्तिकादीनां धातूनां च, नदी-समुद्रादिरूपाणां जलाशयानां, वनस्पतिसमूहस्य वृक्षादीनां वनानां चैतदाश्रितानां जलचर-नभश्चरस्थलचरादिजीवसृष्टेश्च रक्षणं स्यादेव । फलत: प्रकृतेः पर्यावरणस्य च रक्षया जगतः सौस्थ्यं स्वत एव वर्तते सर्वदा ।।
जैनवर्गेण यदा जीवदया स्वीकृता उपदिष्टा च, तदा तेन प्रकतेः सन्तुलनमपि परोक्षरूपेण स्वीकृतमेव । अत एव कथ्यते-जैनधर्मः सम्पूर्णतया प्रकृतिरक्षको धर्मः, अत एव विश्वधर्मत्वपदार्पणयोग्योऽपि सः ।। __एतादृशधर्मस्य साम्प्रतीनः प्रवर्तकः श्रमणो भगवान् महावीरः । तेनोपज्ञो मार्गोऽयं तदीयसुशिष्यपरम्परयाऽद्यावधि निराबाधं प्रवर्तितः । 'हिंसा, परपीडनं चाऽधर्मः, अहिंसा, दया, करुणा चैव धर्मः' इत्यात्मकोऽयं जिनमार्गोऽद्यापि विश्वे पोस्फुरीति, इत्यत्र विषये जैनगुरुपरम्पराया एव पुरुषार्थः । यदि संसारत्यागि-वैराग्यरसिक-गुरुपरम्परा न स्यात्, तदा जगति सम्प्रति अहिंसामार्गस्य गन्धोऽपि नैव स्यात् ।
एतस्यां परम्परायां श्रीसुधर्मस्वामिभगवत आरभ्य सङ्ख्यातीता गुरवः-आचार्याः श्रमणाश्च सञ्जाताः, यैर्मार्गनिर्वाहो मार्गाविच्छेदश्च नितरां विहितः । एतस्यामेव धर्मपरम्परायां विंशतितमे शतके समजनि जैनाचार्यः श्रीविजयनेमिसूरीश्वरः । जैनशासन-साम्राज्ये स
शासनसम्राड्-विशेषः
Page #10
--------------------------------------------------------------------------
________________
S सम्राडिव व्यराजत, तस्य बिरुदमपि "शासनसम्राट्' इत्यासीत् । जैनश्रमणसङ्के ।
श्रमणानां नैके गणा आसन्; तेषु विशालकायस्य विपुलमहिम्नश्च तपागच्छेत्याख्यस्य - गणस्य स गच्छपतिरभूत् । सर्वदर्शनविशारदः, नव्य-प्राच्यन्यायग्रन्थाभ्यासी, व्याकरण- 4
काव्य-साहित्यशास्त्रवेत्ता, नैकग्रन्थप्रणेता, जैनागमज्ञः, व्याख्यातृवाचस्पतिरासीत् सः। 23 र, तस्य द्वे लाक्षणिकते अनन्यसामान्ये अवर्तेताम् । एकं नैष्ठिकं ब्रह्मचर्यम् । अपरा
परिणामगामिनी दूरदर्शिता । अनेकेषां जैन-पुरातन-तीर्थस्थानानां पुनरुद्धारः पुनःप्रतिष्ठा मेच तेन सूरिवरेण कृता । तस्मिन् कार्ये तेन प्राणान्तकारिण उपद्रवा अपि नैकशः सोढाः। पाप जीवदयायाः कार्याणि बहुशः कृतवान् सः । विद्वत्प्रकाण्डानि चारित्रगुणसम्पन्नानि
शिष्यरत्नान्यपि निर्मितवान् सः । भारतदेशे विद्यमाना अनेके भूपालास्तस्य गुणरागिणो भक्ता आसन् । जैनसङ्घस्य समर्थो महानायकः स आसीत् । महाकाव्यस्य कस्याऽपि नायकत्वं निर्वोढुं स नितान्तं क्षम आसीदिति तस्य समग्रजीवनमवलोक्याऽभ्यस्य च निश्चीयते निर्विवादम् ।
तस्य सूरिवरस्य प्रधानशिष्य आसीत् श्रीविजयोदयसूरिनामा आचार्यः । चारित्रपवित्रगात्रो विद्वन्मतल्लिका सकलशास्त्रपारदृश्वा स सूरिरत्यन्तं गुरुभक्तिपरायणो गुर्वाज्ञानिष्ठश्च सत्पुरुष आसीत् । तेनाऽपि विविधा ग्रन्था विरचिता एव ।
तस्यैका रचनाऽद्यावधि अज्ञाताऽप्रसिद्धा च वर्तते । सा रचना एकं महाकाव्यम् । नामतः "नेम्यभ्युदयमहाकाव्यम्" अपूर्णं सप्तसर्गमात्रमवाप्यते तत् । किन्तु यावन्मात्रमुपलभ्यते तत्, तत्राऽपि महाकाव्यस्य सर्वाणि लक्षणानि दृश्यन्ते, कर्तुः प्रतिभोन्मेषोऽपि सुतरां प्रकटीभवति । स्वकीयगुरुवर्यश्रीविजयनेमिसूरीश्वरं विषयीकृत्य रिरचयिषितस्य महाकाव्यस्याऽस्य यावन्मात्रोंऽश उपलब्धस्तावानत्र प्रकाश्यते, यं दृष्ट्वा वैराग्यरसिक-जैनमुनिरपि कीदृशं रसप्रचुरमलङ्कृतिमधुरं प्रासादिकं च काव्यं रचयितुमलम्भवतीति विद्वांसो ज्ञास्यन्ते । सम्पादकीया मर्यादा तूपेक्षा एवेति विज्ञप्तिः।
किञ्चाऽस्य काव्यस्येकैव लिखिता प्रतिः प्राप्यते, सा च केनचिद् गृहस्थलेखकेन लिखिताऽस्ति । अतश्च तत्र काश्चिद् लेखनक्षतयोऽपि सम्भवन्ति । अस्माभिस्ता अशोधयित्वैव यथातथमिदं प्रकाशितमस्तीति विद्वद्भिर्मर्षणीयम् ।।
-
-
शासनसम्राड्-विशेषः
Page #11
--------------------------------------------------------------------------
________________
जितनी श्रीमशास्लुहरकेशमायाamare
भीमभयम्य मामघरगुकास्यप मोतियानपिधिप्रणेता अदभुगना " गिरोस् । विहाय नेम्युदयाहाकाव्यम् ।। चरितार .. मन:प्रथमः।।
मालाचरण समरिन सिन्ति लक्ष्मस्थिकण विलम्बालभासा यो पातयन्त्रबदलावितकमा
मिनिलंबनाmaudiar तमासमा मादविभुमार प्रागल्यमोनुमतले स्वयमेव शानिये शान्तक ममानविशुधमनिम् ॥ गतिंतनोतुलनासतिनोनुनलाय यस्याशिधानमपिशानिया प्रशिद्धम्।। योमारनेमि गमनाइलनकहे त्याचा विवाहसमा प्रशस्सनेनिन्। भताभयनरमनन्यतयेरमानेकुबोधमिरातबारा 30. मोनित्यमर्चित शामरनाथवाः य-सामविपुलकीर्तिमलिपार्थः ।। राश्वहिलामातनिधासवनाशपाय भगा-nnाग-लोपा राम्यागोस्वचलमि६रयांकान्या शरा-मजयन रिमाधिपा। यःशवारकमनोगतमंशयापनमामिहनामनिस्तावित तीश्वरानपिनमाम्यपरानामांस्तान मेयरमा गुणविसारस्तानः॥ नायतमामुहितार्तिनिपीडताना रनारकाशिनताद रोतमा.... साक्षात्प्रमोस्न पुरस्य पदार्यशोमतदमापुरमित गमयोयाले । मेतामानिभनिकामरान श्रीगौतमादिगमगायकवरिया।
काकी सगा औभारतीयधपू यसमाजमली। मामानिनेकवचनोल्ससदात्मभामोत्पादमिति प्रलयता नीशा तेसोनियाजगो
. ....... सत्त्वंपविघ्नपरलीवितायेगे मेरमानित गतिक पलभाति॥ सानामितोगुणगणःस्वभावदोषामं पूनागत्यपदभोगतेसमस्तः।। सरीनमानिनितवाभाविधानडेकान्तिमिसंगसुनितशिलगमज्ञान पोन्यायदीयवचनामृतमधाच्या भयो भवन्ति भावना यह कामम्। ' शतांशुहीममलयाचसोम्मकाति नौमीहरधिधितयं गुरुगन्निबुद्धिम् १॥
विजयनेम्यभ्युदयमहाकाव्यस्य रचयितृभिः श्रीविजयोदयसूरीश्वरैः प्रथमालेख्यतया स्वयं लिखितस्य पत्रस्य प्रतिकृतिरियम्।
शासनसम्राड्-विशेषः
Page #12
--------------------------------------------------------------------------
________________
श्रीशङ्खेश्वरपार्श्वनाथाय नमः ॥
श्रीविजयने म्यभ्युदयमहाकाव्यम् ॥
रचयिता : आचार्य श्रीविजयउदयसूरिः
प्रथमः सर्गः ॥
नमोऽनन्तबोधाय विलीनाशेषकर्मणे । अबाध्यागमबीजाय मङ्गलायाऽर्हतेऽभितः ॥ १ ॥ (उपजातिश्छन्दः)
प्रभासमानोऽपि विभासमानो, योऽज्ञैरनाप्योऽपि बुधैरवाप्यः ।
अनाथनाथोऽपि स आदिनाथो, जीयाद् विभुः सिद्धमितप्रतिष्ठः ॥ १ ॥ यद्वर्णनेऽनन्वय इत्यलङ्क्रिया, भूतार्थतैवाऽद्भुतशब्दसंस्क्रिया ।
शासनसम्राड्- विशेषः
स्वकर्त्रसामर्थ्यप्रकाशनं गुणः, समेऽपि ते सन्तु जिना हितप्रदाः ॥ २ ॥ अनन्वयेनैव यमामनन्ति, स्तुवन्ति गायन्ति यमादिभाजः । नामाऽऽकृतिभ्यां स द्धद् विभेदं समो जिनो भिन्दतु विघ्नवल्लीम् ॥ ३ ॥ व्यक्त्या विभिन्नत्वमुपागतं यज्ज्ञानादिशक्त्या समभावमाप्तम् । तद् द्रव्यभावानुगतं समस्तं, ज्योतिर्जिनाख्यं हरतादधानि ॥ ४ ॥ पायादपायाद् भवसम्भ्रमोत्थात्, तीर्थङ्करः षोडशशान्तिनाथः । यन्नाममन्त्रस्मरणप्रभावात्, सिध्यन्ति सर्वाणि समीहितानि ॥ ५ ॥ चीरः स वोsव्याद् नियतेर्नियोगाद्, बम्भ्रम्यमाणान् भववारिराशौ । योऽशेषभावारिविधूननेन, लब्धप्रतिष्ठोऽमलसिद्धिसौधे ॥ ६ ॥ श्रीमज्जगन्नाथमुखोद्गतां यः, प्राप्याऽनवद्यां त्रिपदीं विशिष्टाम् । सूत्राण्यकार्षीदमितार्थभाञ्जि, स गौतमः पातु गणाधिनाथः ॥ ७ ॥ सा चाक् त्रिपद्या जगतीमशेषां, स्वानन्यया व्याप्नुवती निजां च । ज्ञप्तिं तथैवाऽऽदधती नयाढ्या, स्याद्वादभव्या जयताज्जिनानाम् ॥ ८॥ भीत्येव येषां गुरुराश्रितो द्यां नाऽद्यापि भूमौ स्वपदं दधाति । ते सिद्धसेनार्कमुखा यतीन्द्रा, जयन्ति शास्त्रग्रथनप्रवीणाः ॥ ९ ॥
Page #13
--------------------------------------------------------------------------
________________
नव्योक्तिसंसूत्रणसूत्रधारा-श्चिरन्तनोक्त्यादरबद्धचित्ताः । श्रीमद्यशोवाचकपुङ्गवाद्या, जयन्त्यनेकान्तकृतान्तचान्ताः ॥ १० ॥ अणुत्वसीमानमुपागतेऽपि, गुणे परस्योच्चतरत्वमुच्चैः । यैर्वर्ण्यते संसदि सज्जनानां, ते सज्जनाः कस्य न वर्णनीयाः ? ॥ ११ ॥ दोषाकरस्याऽतिजडत्वभाजो-ऽप्यनल्पपक्षक्षयलम्पटस्य । प्रस्य पूर्णोदयतोऽप्यवस्था, निजां जहत्यर्णववन्न सन्तः ॥ १२ ॥ दोषानणूनप्यचलोच्चतां ये, नयन्ति निःशेषगुणापलापात् । पापकारव्यसनादरा वै, ते दुर्जनाः सन्ति न किं कियन्तः ? ॥ १३ ॥ अनाहतस्वान्यविभेदलेश-स्तिरस्कृताशेषफलाभिलाषः । एकान्तदोषादृतचित्तवृत्ति-योगीव मान्योऽत्र खलो जनानाम् ॥ १४ ॥ परोपकारव्यसनो यथैकः, परापकारैकरतस्तथाऽन्यः । आदौ स्वन्त्वाऽऽदिममेव कुर्वन्, खलः स्वकार्ये न कथं विशिष्ट: ? ॥१५॥ दोषप्रकाशोन्मुखतो भियेव, यस्मादशिक्षोपनतं जनानाम् । समीक्ष्यकारित्वमतीव सूक्ष्मे, कार्येऽपि मान्यः स खलो हितेच्छुः ॥ १६ ॥ तत्कर्मनैपुण्यबलात् तदैक्यं, गतोऽपि यत्काव्यकलानवाप्तेः । काव्यो ह्रियाऽधोभुवने प्रविष्टः, स कालिदासो न कथं प्रशस्यः ? ॥ १७ ॥ वेदान्तशास्त्रादिरहस्यवित्त्वं, यत्काव्यमावेदयति स्वकर्तुः । स काव्यमर्मजगणैरुपास्यः, स्वकर्मसिद्ध्यै भवभूतिरेकः ॥ १८ ॥ यत्काव्यमाधुर्यरसस्य लेशं, स्वस्मिन्नदृष्ट्वैव सुधाऽऽप्तलज्जा। गता सुदूरं कलिकालसर्व-ज़ो हेमचन्द्रः स न कस्य सेव्यः ? ॥ १९ ॥ यस्याऽऽप्तमूर्तिर्यश एव साक्षात्, सा मञ्जरी सत्तिलका चकास्ति । स सुप्रसिद्धो धनपालनामा, भोजाप्तमानः स्मरणीय एव ॥ २० ॥ सूरोऽपि गोभिर्भजते प्रवृद्धो, यं यत्र गोभिजडताऽपनेया । माघः कथङ्कारमसौ न वो-अनवद्यमार्गाश्रयतत्परेण ॥ २१ ॥ यत्काव्यमर्थावगतिप्रकारैः, सन्नीतिमध्यापयतीव भाति । स भारविः किं न गुरोरनूनं, वाग्वैभवं स्वीयमुदाजहार ॥ २२ ॥ सरस्वती यत्कविताविताने, सञ्चारिणी सर्वत एव भाति । अनल्पकल्पोचितकल्पनायां, श्रीहर्ष एकः स पटुर्बभूव ॥ २३ ॥
शासनसम्राड्-विशेषः
Page #14
--------------------------------------------------------------------------
________________
निपीय यत्काव्यरसं कवीन्द्रा, मुधा सुधावस्थितिमामनन्ति ।
बाणः स वाणीपरिणाम एव प्राप्तावतारी बल ( ? बलि ?) भिद्गुरुर्वा ॥ २४ ॥ बृहत्कथाम्भोधिविधानतो यः, कासारतामन्यकथासु चक्रे ।
वैयासकी गामपि सारशून्यां, यथार्थनामा स गुणाढ्य एकः ॥ २५ ॥ सत्सन्निधानेन विशिष्टता स्यादेतद् यथार्थं यदि वाऽयथार्थम् । एतत्परीक्षा मम चेतसि स्यात् स्मृत्या यतोऽमी कलिताः प्रसङ्गाः ॥ २६ ॥ श्रीनेमिसूरेः क्व तता गुणाली ?, क्व मन्थरा मे प्रतिभा वराकी ? तथाऽपि तद्वर्णनसाहसिक्यं, तनोति चित्रं किमु नो ममेदम् ? ॥ २७ ॥ तथाहि जम्बूपपदेऽन्तरीपे, द्वीपावतंसत्वमुपागतेऽस्मिन् ।
आर्यप्रचारे भरतेऽस्त्यवामे, सौराष्ट्रदेशो जनताप्रसिद्धः ॥ युग्मम् ॥ ॥ २८ ॥ यद्दर्शनं भव्यजनैकलभ्यं, यस्मिन् गता सिद्धिमनन्तजीवाः । यत्र त्रयोविंशतिराप्तमुख्या-स्तीर्थङ्कराः सङ्गतिमाश्रयन्ति ॥ २९ ॥ सिद्धाचलः सोऽपि यदीयपाद-लिप्तातिसान्निध्यमुपैति नित्यम् । स तीर्थराजास्पदतां दधानः, श्लाघास्पदं कस्य न जायतेऽत्र ? | युग्मम्। ॥३०॥ स सोमनाथः परतैर्थिकानां, तीर्थाधिराजत्वमवाप यत्र । स 'काठियावाड' पदप्रसिद्धो, लोके सदाचारशुभप्रचारः ॥ ३१ ॥ यद्देशविस्तारघटाऽनवाप्तेः, सुराधिराजो विषये स्वकीये । देशाभिधानं परिहृत्य बुद्धया, पुराभिधानं प्रकटीचकार ॥ ३२ ॥ धेनूर्घटोनीरमृतानि कामं, नित्यं क्षरन्तीवलोक्य यत्र । स्वकामधेनुत्वविलोपभीत्या, नूनं श्रिता कामगवी विदेशम् ॥ ३३ ॥ 'सुतां जितां कामदुघा (घां) विषण्णां क्षीराम्बुधिर्यत्र विलोक्य गोभि: । गास्ता विजेतुं बहुधा विचक्रे, स्वमेव मन्ये महिषीस्वरूपैः ॥ ३४ ॥ स्वादिष्टतापात्रतयाऽतिशेते, गोधूमकान्नं किमु बर्जरी तो ? । यत्राऽतिशेते विषयान्तरोत्थं, गोधूमकाद्यन्नमनन्यजाति ॥ ३५ ॥ साधर्म्यवात्सल्यपरास्तु यत्र, मिष्टान्नपानाद्युपभोगदक्षाः । अन्योऽन्यमैक्यादुपभुञ्जतेऽर्थान्, जनाः स्वधर्माचरणप्रवीणाः ॥ ३६ ॥ यत्राऽऽततक्षेत्रगतारघट्टाः, पान्थान् तृषार्त्तानतितापतप्तान् ।
आहूय शब्दैः श्रुतिमोददक्षै- द्रक् पाययन्ते स्वमृतानि कामम् ॥ ३७ ॥
शासनसम्राड् - विशेष:
७
Page #15
--------------------------------------------------------------------------
________________
。
दुर्भिक्षनामाऽपि न जानते वै यत्राऽरघट्टैः कृषिकर्मदक्षाः । विशिष्टविज्ञानकलासु दक्षा, धर्मैकलीनाः कृतिनोऽपि यत्र ॥ ३८ ॥ तस्मिन् पुराणां तिलकायमाना, पुरी प्रसिद्धा मधुपुर्यभिख्या । ख्यातिं गता या महुवेति लोके, कश्मीरदेशभ्रमकारिणी च ॥ ३९ ॥ ममोपमित्या परिखाप्रशंसां, समाद्रियन्तेऽन्यपुरीषु विज्ञाः ।
तत्किं स्वयं तां न लभे समुद्र, इतीव यस्याः परिखा बभूव ॥ ४० ॥ अन्योऽन्यसंसक्त सुधावदात- प्रासादपङ्क्त्याऽपथदुष्प्रवेशा । प्राकारतः कुण्डलनां न सेहे, याऽनर्थताभ्रान्तिकरीं निजस्य ॥ ४१ ॥ श्रीमन्महावीरविभोः स्वकाल-निर्मापिता मूर्तिरतीव भव्या ।
यस्यां विभाति स्फटिकावदाता, तीर्थोत्तमत्वं प्रतिपादयन्ती ॥ ४२ ॥ यां धर्मभूमिं सुकृतैकलभ्या-मनल्पसद्भोगविधानदक्षाम् । स्वतोऽधिकां वीक्ष्य पुरी बलारे - रात्मन्यवज्ञां किमु नो विधत्ते ? ॥ ४३ ॥ सौभाग्यलक्ष्मीमवलोक्य यस्याः, किं नाडलका स्वां विजितामचैति ? । भोगावती सा तत एव नूनं, पातालवासं वरमभ्युपैति ॥ ४४ ॥ लङ्काऽप्यलङ्कामपि वीक्ष्य लक्ष्मीं, यस्याः समुद्रान्तरिता निजस्य । अगम्यतां कामयते सदैव, विभूतिविख्यात्यवनप्रगल्भाम् ॥ ४५ ॥ आलम्बशून्ये व्रजतः सदैव, रवेः क्षणावस्थितिशर्महेतोः । अत्युन्नता यत्र धूतावचूला, प्रासादमाला धवला विभाति ॥ ४६ ॥ नाऽस्यां प्रवेशोऽभिशिवः सुखाय, पाटच्चराद्यास्तदितोऽतिदूरम् । यातेति सञ्ज्ञां पटकम्पनेन, कुर्वन्ति यस्यां ननु वैजयन्त्यः ॥ ४७ ॥ यन्नालिकेरद्रुवनं विशालं, शक्यं परिच्छेत्तुमियत्तया नो । तन्नालिकेरप्रथितान्तरीप-शङ्कां विधत्ते पथिकस्य यस्याम् ॥ ४८ ॥ नूनं तदीयानि फलानि लक्ष्मी - मधुर्यलुब्धा स्पृहयोपभुङ्क्ते । लोके ततः श्रीफलताप्रसिद्धि - र्निर्णीतिरित्थं पथिकस्य यस्याम् ॥ ४९ ॥ स्वाभिन्नपङ्क्तौ विनिवेशितानि, मूलानि यस्यां पनसादिकानाम् । मानोन्नतान्यप्युपमेयभावं, किं नारिकेलगुफलैर्न यान्ति ? ॥ ५० ॥ अनल्पमूल्येष्वपि तेषु यस्यां पणाणकादि द्वितयादि मूल्यम् । अतिप्रभूतत्वमुपैति तत्र, निमित्तभावं न जनाविवेकः ॥ ५१ ॥
८
शासनसम्राड्- विशेष:
Page #16
--------------------------------------------------------------------------
________________
रम्भाफलादेरपि मूल्यचर्चा, प्रभूतसम्भूतिकृता तथैव । यत्राऽऽढकादिप्रमितः सुशाकः, पपौकलभ्यो भवति स्वकाले ॥ ५२ ॥ कम्रामृतस्वादुरसानि यत्र, फलानि चूतस्य मनोहराणि । आस्वाद्यमानानि न कस्य भोक्तुः, फलान्तरप्रेम विनाशयन्ति ? ॥ ५३ ॥ समानवृत्तिः पुरुषोत्तमानां, लक्ष्म्यां च वाण्यां च सदैव यस्याम् । विशेषवृत्तिप्रतिपत्तिभाजां, वैकुण्ठवृत्त्याऽपि नदीनयोगः ॥ ५४ ॥ अनादिकालान्मयि सम्प्रवृद्धा, गम्भीरता याऽपहृता भवद्भिः । सा मे प्रदेयेति नरानजसं, याच्वापरो यत्र विभाति सिन्धुः ॥ ५५ ॥ चापल्यदोषो मम पुत्रिकाया-आजन्मतो योऽभवदिन्दिरायाः । तद्धानिरत्रेत्युपजातमोदो, यामम्बुराशिनिकषा चकास्ति ॥ ५६ ॥ या मे सपनी मुखरा प्रगल्भा, साऽप्यत्र वाणी विनयप्रधाना । तच्चञ्चलाऽहं व भवामि पूज्ये-तीवेन्दिरा यत्र न चञ्चलाऽभूत् ॥ ५७ ॥ विपक्षपक्षोन्नतिदीक्षितेऽस्मिन्, कलौ न कार्यो मयका प्रसङ्गः । इतीव यस्यां न कले: प्रवेशं, धर्मोऽनुमेनेऽरखलितप्रभावः ॥ ५८ ॥ सर्वात्मना वृद्धिमुपागतोऽपि, नैक: समर्थोऽभिमतार्थसिद्धौ । इत्याकलय्येव दयादिधर्मो-ऽप्यन्योन्यमैत्री प्रकरोति यस्याम् ॥ ५९ ॥ गृहे गृहे यत्र नयप्रचारः, समानच! मितभङ्गनद्धः । सापेक्षभावेन गलद्विरोधः, स्याद्वादसाम्राज्यमुरीकरोति ॥ ६० ॥ गुणाश्रिताद् द्रव्यत एव कर्म, सामान्यतोऽभ्येति विशेषसङ्गम् । यस्यां सुधीरित्थमुदीक्ष्य तत्रे, वैशेषिके किं न करोत्युपेक्षाम् ? ॥६१ ॥ यां कमरनप्रकरामवाप्य, सर्वसहात्वव्रतपुण्यजाताम् । वसुन्धरा स्वां वसुमत्यभिख्यां, जानाति नोऽन्वर्थवती किमेषा ? ॥ ६२ ॥ एकोऽपि यस्या 'झगडू' प्रथायाः, प्राग्वाटवंशप्रथितोऽलमृद्धः । यः पञ्च रलानि बभार येषा-मेकैकश: कोट्यधिकं च मूल्यम् ॥ ६३ ॥ कुमारपालस्य नृपस्य तीर्थ-यात्राप्रसङ्गेन समागतस्य । सिद्धाचले यश्च चकार चित्रं, माला गृहे रनसमर्पणेन ॥ ६४ ॥ एकं तु तत्रैव वितीर्य चैकं, तत्पत्तनेऽन्यत् गिरिनारतीर्थे । रत्नद्वयं चाऽथ नृपाय प्रादात्, कुमारपालाय य आर्हतायः ॥ ६५ ॥
शासनसम्राड्-विशेषः
Page #17
--------------------------------------------------------------------------
________________
एवंविधा यत्र सहस्रशोऽन्ये, पुरा बभूवुर्जिनधर्मनिष्ठाः । येषां कुले तद्धनलिप्सया किं, जन्माभिवाञ्छा धनदस्य नाऽभूत् ? ॥ ६६ ॥ रथ्यासु यस्याः पतितानि कामं, रनानि वर्षाजलसम्प्रयोगात् । आदाय भूयो जलधिर्जनानां, चिरेण रताकरतामगच्छत् ॥ ६७ ॥ षण्णामृतूनामपि सर्वदैव, यस्यां स्वकोशोपचयप्रवृत्तेः । सर्वर्तुपुष्पोत्थमधुप्रवृत्त्या, नूनं प्रपन्ना मधुपुर्यभिख्या ॥ ६८ ॥ सर्वर्तुसाम्राज्यमवाप्य यस्यां, मधुः सदा सन्निधिमातनोति । तेनैव वा किं मधुपुर्यभिख्या, तद्राजधानीत्वप्रसिद्धिहेतोः ? ॥ ६९ ॥ यस्यां जनानां व्यसनं स्वधर्म-शास्त्रावमर्श मिथ एव भाति । रागः स्वधर्माचरणेऽत्यमों, निर्वाणमार्गप्रतिबन्धकेषु ॥ ७० ॥ सराजकत्वं नगरस्य भूषे-त्यवेत्य या स्वत्वमुरीकरोति । सन्नीतिमार्गकरतस्य नैवं(च), रक्षाकृते भावपुराधिपस्य ॥ ७१ ॥ नृपोऽपि धीमान् यशवन्तसिंहो-डरक्षत् पुरी यामनु तख्तसिंहः । न्यायैकनिष्ठोऽनु च भावसिंहो, वर्णाश्रमाचारविवेकदक्षः ॥ ७२ ॥ तापर्तुकाले निजराजधानी, त्यक्त्वा नूपोऽमात्यनिवेशितार्थः । यामेत्य यां निर्वृतिमाततान, कश्मीरदेशेऽपि न सा सुलभ्या ॥ ७३ ॥. नृलोकपालस्य विलोक्य सौख्यं, यस्यामसामान्यवनीविलासे । शक्तोऽपि किं नन्दनकानने नो, वैरस्यमुद्रां प्रकटीचकार ? ॥ ७४ ॥ तस्यां पुरौ(?) कीर्तिप्रतापभाजां, वणिग्वराणां प्रथितोऽस्ति वंशः । श्रीमालवंशो जिनधर्मभक्ति-विश्रान्तिभूमि: प्रधर्ममुक्तः ॥ ७५ ॥ श्रीनाममाना(ला?)मलनामतोऽस्ति, त्रिधाऽपि वाच्या कमला तु यस्मिन् । धनप्रभूतिर्वरकीर्तिभूतिः, सद्धर्मशोभेति-भिदा चकास्ति ॥ ७६ ॥ न जैनधर्मेतरधर्मचर्चा, कदापि के नाऽपि निभालिताऽस्ति । यस्मिन्नितीमां बिरुदस्य लक्ष्मी, “वीशे' त्युपाहो ननु सन्दधाति ॥ ७७ ॥ तरिमन्नपि प्रौढिमधाम पद्मा-ताराकुटुम्बो जनताप्रतीतः । यदर्धनामान्वयतोऽपि लक्ष्मी-लॊके न किं गौरवमादधाति ? ॥ ७८ ॥
शासनसम्राड्-विशेषः
Page #18
--------------------------------------------------------------------------
________________
तत्राऽभूदेवचन्द्रोऽनुपमगुणनिधिः श्राद्धधर्मानुरक्तोऽर्हत्पूजाबद्धवृत्तिः सुकृतपरिणतेयों द्वितीयो विलासः । लक्ष्मीचन्द्रस्तनूजोऽमलमतिनिलयस्तस्य जज्ञे गुणानां विश्रान्तिस्थानमात्मप्रतिकृतिरपरो जैनधर्मैकनिष्ठः ॥ ७९ ॥ गाम्भीर्ये योऽम्बुराशिः कुलयुगकमलोलासने पद्मबन्धुर्दोषाद्रिव्रातपक्षप्रवरविघटने ख्यातकीर्तिः सुरेशः । . नीतिग्रामावमर्श सुरगुरुरपरो धर्मचर्चाप्रवीण: श्राद्धाचारेषु दक्षः पुरजनमहितोऽन्वर्थनामा स एकः ॥ ८० ॥ साधुभ्यः शास्त्रवाश्रिवणमनुदिनं योऽकरोद्धर्मवृद्ध्यै सन्देहोच्छित्तये यो विबुधमुनिवरान् तत्तदर्थानपृच्छत् । सन्तोषानन्दमग्नो न च परविषयं यो जगामाऽर्थवृद्ध्यै श्लाघापात्रं जनानामभवदनुपमं श्राद्धवर्यः स विज्ञः ॥ ८१ ॥ सत्सङ्गे यस्य रागोऽभिरुचिरनुदिनं धर्मकृत्यप्रसङ्गे व्यासङ्गोऽन्योपकारे व्यसनमतितरां संश्रुतार्थावमर्श । श्रद्धा वीरोक्तमार्गे नमनविरचना सद्गुरोः पादपद्मे दानं पात्रेषु भोगो नियमितविषये सोऽभवत् कृत्यदक्षः ॥ ८२ ॥ यन्नामार्थोत्थशङ्काकवलितहृदय: सागर: किं नु साक्षाद् दृष्टं(द्रष्टुं?) लक्ष्मी च चन्द्रं निजसुतयुगलं तत्पुरस्योपकण्ठम् । आगत्यैवाऽत्यगाधं परिमितिविमुखं सत्तलावाप्तिशून्यं गाम्भीर्यं यस्य दृष्ट्वा गलितनिजमदोऽवस्थितोऽभूत् सदैव ॥ ८३ ॥ दीपाली तस्य भार्या महितकुलभवा श्राविकाचारनिष्ठा शीलालङ्काररम्या रमणचरणगाऽपांशुलानां वरिष्ठा । दक्षा गेहक्रियायामकपटहृदया मान्यसम्माननोत्का साध्वीनां सत्प्रसङ्गे विनयपरवशाऽभूददीनस्वभावा ॥ ८४ ॥
इति प्रथमः सर्गः ॥
शासनसम्राड्-विशेषः
११
Page #19
--------------------------------------------------------------------------
________________
प्रत
M
MITTIMITIIIIIIIIIIIIIII
- अथ द्वितीयः सर्गः ॥
mmmmmmmy
(वंशस्थविलं छन्दः) करोतु कल्याणततिं जिनेश्वरः, समस्तभावारिबलप्रमर्दनः । अपश्चिमो 'वीर' इति प्रथां गतो, निरर्गलज्ञानमयोऽनघागमः ॥ १ ॥ तयोः स्वधर्माचरणैकलीनयोः, कुलीनयोः प्रीतिजुषोर्मियोऽभितः । अनल्पपुण्योदयसुप्रभावतो, बभूव पुत्रोऽथ सुलक्षणाञ्चितः ॥ २ ॥ नवा-ऽक्षि-निध्ये-कमितस्तु (१९२९) वत्सरो, यदीयजन्मादिदिनादजायत । तिथिर्द्वितीया प्रतिपत्पुरस्कृता-उपराह्मयज्जन्मसुमङ्गला बभौ ॥ ३ ॥ किमूर्जमाक्षो(?सो?)ऽपि दधन्नवीनतां, न शुक्लपक्षाश्रयतामगाहत । वरा विशाखाऽप्यतुलाङ्गसंषा(?या?), सुयोगमासाद्य भृशं व्यराजत ॥४॥ शुभग्रहः स्वं गृहमास्थितो बभौ, निरीक्षमाणो निजसद्भुवा भृशम् । उपेत्य केन्द्रग्रहम्प्यसूचयत्, परप्रकर्षं ननु यस्य जन्मगः ॥ ५ ॥ अमाऽपि दीपालिप्रभाविराजिता, सुपर्वतां पूर्वगता दधौ समा । अकृष्णपक्षोन्नतिमात्रवत् परे, यदुद्वेऽनष्ट भियेव कृष्णता ॥६॥ गृहे गृहे पञ्च दिनानि भूतले-ऽखिलेषु देशेषु बभूव मङ्गलम् । सुवस्त्रनेपथ्यविभूषणोज्ज्वला, नराश्च नार्यश्च चकाशिरे भृशम् ॥ ७ ॥ प्रमोदसम्पूरितमानसा जना, महोत्सवावाप्तिलसत्प्रभाञ्चिताः । कुटुम्बसान्निध्यमवाप्य सादरं, स्वतत्रतां यज्जनुषा प्रपेदिरे ॥ ८ ॥ विशेषतस्तद्दिन एव सर्वतो, जनाः स्वधर्माभिनिबद्धमानसाः । स्वपूज्यदेवान् स्वगुरूंश्च सादरा, अपूपुजन् स्वस्वलसत्समृद्धिभिः ॥ ९ ॥ परस्परप्रीत्यनुरञ्जिता जना, मिथोऽमिलन्नन्वभवन्नथो मुदम् । तथाविधस्य प्रभवो विभूतये, भवत्यशेषस्य जनस्य हि ध्रुवम् ॥ १० ॥ स्वदानशौण्ड(ण्डी)र्यविवेकप्रेरिताः, स्वभूतिसामर्थ्यविलोपभीरवः । समागतानर्थिजनान् स्वकिङ्करान्, तदेष्टदानैः समप्रीणयन्न के ? ॥ ११ ॥ शुभाशुभोच्चावचसंस्थितग्रहा-वबोध्यप्राक्कर्मप्रपञ्चचित्रताम् । प्रकाशयत्यत्र जनस्य नाम तत्, स'नेमचन्द्रे'त्यभिधामधारयत् ॥ १२ ॥ अयं प्रकर्षावधिमत्र सर्वतो, जिनागमोक्ताखिलतत्त्वबोधतः । धुवं सदाचारगणं न पिष्यती-त्यतोऽस्य नेमेत्यवधौ जगुर्जनाः ॥ १३ ॥
१२
शासनसम्राड्-विशेषः
Page #20
--------------------------------------------------------------------------
________________
अनन्तधर्मात्मकवस्तुसत्प्रथा, प्रकार्यनेकान्तलसन्महापुरे । अयं नु प्राकारगतिं श्रयिष्यती-त्यतोऽस्य नेमेत्यथवा विदुर्बुधाः ॥ १४ ॥ कलानिधेरस्य कलानवाप्तितो, ध्रुवं स चन्द्रो विकलो दिने दिने । समेषु मासेषु प्रयात्यथार्थता-मवाचि नेमेति तदर्धतो बुधैः ॥ १५ ॥ जगत्सु प्रह्लादनमस्य जन्मना, समन्ततोऽजायत तन्निबन्धना । अकारि चन्द्रेत्यभिधार्थयोगिनी, निरुक्त्यभिज्ञैरिव वप्तृभिर्मुदा ॥ १६ ॥ अयं हि नेता भविता क्रियावतां, महत्त्वमुच्चैः सुधियां श्रयिष्यति ।। जगत्सु चन्द्रोज्चलकीर्तिभाजनं, स नेमचन्द्रेत्यत ईरितो जनैः ॥ १७ ॥ स बालकोऽबालप्रभाकरप्रभो, विशालभालप्रभया विराजितः । विशिष्टसामुद्रिकलक्षणाञ्चितः, प्रकाशयन् स्वस्य विशिष्टतां जने ॥ १८ ॥ भवालिसेवासु वशा सरस्वती, यदात्मतादात्म्यमशिश्रियत् पुरा । प्रकाशनं तस्य प्रकर्तुमुद्यता, सुदन्तपङ्क्तिच्छलतो विनिर्ययौ ॥ १९ ॥ सुबालभावेऽप्यसमानतां दधन्, मुखं क्च बालस्य निरस्तलाञ्छनम् । अहं क्च पूर्णोऽपि कलङ्कषितो, मन्ये विचार्येति शशी क्षयी ह्रिया ॥ २० ॥ मुखोपमावाप्तिकथाऽपि मे वृथा, न चाऽस्य पादोपमयाऽपि सङ्गतिः । इतीव वैराग्यमवाप्य पङ्कजो, वने निलीय स्थितिमाततान किम्? ॥ २१ ॥ उर:स्थले नाऽस्य समानता नवा, भवेन्ममोर:स्थल इत्यनिश्चये । सुदूरदेशाश्रयणं ममोचितं, विचार्य सिंहो गहनं वनं ययौ ॥ २२ ॥ पदोपसेवाप्रवणे मयि ध्रुवं, कदाचिदास्यैक्यमसौ विधास्यति । विचिन्त्य चेत्थं नखपङ्क्तिकैतवा-निशाकरो नूनमशिश्रियत्यदम् ॥ २३ ॥ अबालचन्द्रप्रतिमो दिने दिने, यथा यथावर्धत बालकोऽन्वयम् । तथा तथा वतृमनोरथः समं, स्वधर्मवृत्त्याऽमलयाऽप्यवर्धत ॥ २४ ॥ तमद्भुतं तर्कवितर्कधीधनं, विलोक्य वप्ता कुलकीर्तिकेतनम् । सरस्वतीसनि तत्पदाप्तये, न्ययोजयत् पाठक सन्निधौ द्रुतम् ॥ २५ ॥ स प्राप्तशिक्षो गणिते विशिष्टता, वणिक्रियोद्योतकरे ययौ भृशम् । क्रमेण सप्तस्वपि देशभाषया, चितप्रबन्धेषु बभूव पण्डितः ॥ २६ ॥ स आङ्गलेऽपि प्रतिपत्तिमान्नयं, प्रवेशमापाउनु विशेषशिक्षया । परीक्षितोऽनेकश एव शिक्षकै-र्न पूर्वकक्षामुदलङ्घयत् तथा ॥ २७ ॥
शासनसम्राड्-विशेषः
Page #21
--------------------------------------------------------------------------
________________
स भूरिशस्तत्समयेऽपि बालको, वणिक्रियाद्यूतमुपादये तु तत् । यदत्र सट्टेति प्रसिद्धिमागतं, धनाप्तये श्रेष्ठिजनैः समाश्रितम् ॥ २८ ॥ निवार्यमाणो जनकेन तत्र सो-ऽप्रवर्तताऽऽत्मीयधनेन धीधनः । स्वबुद्धिवैशद्यविधानलालसो, नवस्वप्रेक्षी प्रबभूव तत्र तु ॥ २९ ॥ कुलद्वयोद्योतकरेण तेन यत्, प्रकाशिता प्रीतिरतीव पैतृके । न मातृके तेन प्रगल्भतापरा, पुमर्थसिद्धौ प्रविभाविताऽभवत् ॥ ३० ॥ स वप्तसान्निध्यमुपासदत् सदा, निशासु सद्धर्मकथाश्रवोत्सुकः । उपाददे सारमगाधबुद्धितः, पितुर्विचारस्य विवेकलम्पटः ॥ ३१ ॥ स वृद्धसेवी गुणलिप्सुरादराद्, ययौ सदस्स्वात्मविचारशालिनाम् । न सा सभा तत्पुरगा तदाऽभवत्, न यत्र सान्निध्यमवाप सोऽदरः ॥ ३२ ॥ अबालचन्द्रप्रतिमे पितुर्यथा, बभूव प्रेमात्र गुणोत्करोदये । न बालचन्द्रेऽप्यनुजेऽस्य तत्तथा, गुणो हि प्रेमास्पदमत्र सर्वतः ॥ ३३ ॥ अकुण्ठबुद्धिर्विषयेऽखिलेऽपि सः, प्रशंसितः सञ्चरिते निजे जनैः । महाजनाचारपरायणो निजं, मनो न दधे विषये विगर्हिते ॥ ३४ ॥ बभूव काङ्क्षा पुनरस्य धीमतो, गृहस्थता मे ननु सा न रोचते । न यत्र नव्येष्टकलाप्रवीणता, न मानना चाऽऽङ्गलकोविदेषु वा ॥ ३५ ॥ अहं यदि स्यां भवभोगलालस-स्तदाश्रये किं न नवीनपद्धतिम् । न तां विना पामरवत् समुन्नति, प्रयाति कश्चिद् गृहकर्मठो गृही ॥ ३६ ॥ मृतस्य जन्तोर्जननं ध्रुवं भवे, भवेन्मृतिर्जन्मवतस्तथा ततः । यतेत यो नोन्नतये न तेन किं, कुलद्वये पल्लविताऽयशोलता? ॥ ३७ ॥ स एवमादीन् भववैभवोद्धता-नदीनवृत्तिविषयानचिन्तयत् । पुरः स्फुरन्ती विषयस्पृहा यतो, महान्तमप्यात्मवशाय धावति ॥ ३८ ॥ स जैनसङ्घोन्नतिमूलसन्दृढ-प्रभूतपुण्योदयतोऽथ संसृतौ । अनित्यताद्याकलितास्तु भावना, अभावयन्नात्मबलप्रवर्तिताः ॥ ३९ ॥ अलं भवोपग्रहकारकेषु मे, पदेषु वाञ्छा विषयाऽनुबन्धिषु । स्थिरात्मरूपं प्रविहाय को जडो, जडेष्बनित्येषु प्रवर्तयेत् स्पृहाम् ॥ ४० ॥ सुनिश्चितं स्वानुभवैक साक्षिकं, करस्थचिन्तामणिरत्नवत् स्थितम् । य आत्मरूपं सुखबोधनिर्मलं, न चिन्तयेत् तस्य जनुश्शतं वृथा ॥ ४१ ॥
१४
शासनसम्राड्-विशेषः
Page #22
--------------------------------------------------------------------------
________________
अगण्य पुण्योदयतस्तु जायते, मनुष्ययोनौ जनिरात्मनोऽमला । विशेषतो धार्मिक वंशसम्भवः, परेण भाग्येन समाप्यते जनैः ॥ ४२ ॥ अहं पुनः श्रावकधर्मनिर्मले, कुले प्रपद्याऽपि जनुः सुदुर्लभम् । यते न चेदात्मसमुद्धृतौ तदा, कृतघ्नता स्वात्मनि भाविता मया ॥ ४३ ॥ त्रयोदशाऽप्यत्र समा मया वृथा, गृहेषु नीता ननु बालचेष्टया । चतुर्दशोऽयं मम वत्सरोऽनया, कदर्थितो माऽस्तु विवेकवीक्षितः ॥ ४४ ॥ शुभावहा कामितपूरणक्षमा, निरर्गलज्ञानधनैः समादृता । अनल्पसंसारचितोग्रसत्तपः, समूहपुण्योदयलम्भितोदया ॥ ४५ ॥ अपारसंसारपयोधितारणे, सकर्णधारावरनौरमन्दगा । पुमर्थरामोक्षपुरप्रवेशने, विशिष्टमार्गाश्रितभूमिरुज्ज्वला ॥ ४६ ॥ गृहीतमात्राऽपि निजास्पदे क्षणं, परत्र सम्राट्पदवीप्रदायिनी । नरेन्द्रदेवेन्द्रसमष्टिपूजिता, जिनेन्द्रदीक्षैव तु मेऽद्य रोचते ॥ ४७ ॥ विशेषकम् ॥ विरक्तिरित्थं भवतो निसर्गज्ञा, बभूव तस्योपधितो न दूषिता । यतोऽस्य वप्तुः स्वकुटुम्बपोषणे -ऽप्यलं धनं प्रीतिरतीव सन्ततौ ॥ ४८ ॥ कुलीनता - सुन्दरता - सुबुद्धिता - धनल्पसाद्गुण्यपदे वरे न के । स्वकन्यकादानत एव पूज्यतां, निजस्य काङ्क्षन्ति गुणस्पृहालवः ? ॥ ४९ ॥ इतश्व तीर्थे गुणगौरवाञ्चिते, प्रवर्तमाने महनीयपद्धतौ । प्रभोर्महावीरजिनस्य तायिनो ऽखिलार्थविज्ञानघनस्य देशितुः ॥ ५० ॥ ५. प्रकर्षेण प्रसिद्धिमागते, तपेतिगच्छे मुनिराजिराजिते ।
न यत्र सिद्धान्तपथातिगा क्रिया, न चाऽपि प्राचीनपरम्पराच्युतिः ॥ ५१ ॥ अभून्मुनीनां प्रवरो गुणाकरः, स तत्र लोके बुटरायजी श्रुतः । अनल्पमायामयमीक्ष्य ढुण्ढकं मतं स्वशिष्यैस्त्रिभिरत्यजत् तु यः ॥ ५२ ॥ स बुद्धिपूर्वी विजयाभिधां दधद् - यथार्थतां नाम्नि गुणैरयोजयत् । मणीतिपूर्वाद् विजयाभिधाद्गुरोर्य आद्य-दीक्षां सममग्रहीत् त्रिभिः ॥ ५३ ॥ स मूलचन्द्रोऽस्य तु शिष्य आदिमो, दधौ स मुक्तिं विजयाभिधां मुनिः । य आर्हतं धर्ममदीपयद् गुरोः, प्रतापधामा वरकीर्तिभूषितः ॥ ५४ ॥ स वृद्धिचन्द्रो गुणवृद्धिभाग् मुनि - द्वितीयशिष्योऽस्य तु धर्मकेतनः । उपाददे यो विजयं यथार्थतः, स्वनाम्नि चन्द्रेतिपदेन भिन्नताम् ॥ ५५ ॥
शासनसम्राड्-विशेष:
१५
Page #23
--------------------------------------------------------------------------
________________
स राम आत्मादिरुपाददेऽभिधां, तृतीय आनन्दपदादिमां बराम् । य आत्मशब्दं गुणवाचिशब्दतो, विकार्य रामे विजयं समादधत् ॥ ५६ ॥ उदाहृतेष्वेषु विनेयशिक्षणे, स वृद्धिचन्द्रोऽभवदग्रणीमुनिः । समेऽप्युपाये विनयादिरञ्जिता, विनेयशिक्षाऽस्य फलेग्रहिर्यतः ॥ ५७ ॥ सनेमचन्द्रः शुभभाग्यवैभवाद्, गुरुं तमाप्तं हृदयेऽकरोत् स्वयम् । न कल्पवृक्षो वरदातृतास्पदं, स्वयं हि सेव्योऽर्थिभिरेव किं गुणैः ॥ ५८ ॥ सुनिश्चिते तत्र हृदा गुरौ यतो, गुणाधिके भावपुरस्थिते पुनः । तदन्तिकं गन्तुमना ह्यभावयत्, भवस्थितिं सूक्ष्मधियेत्थमिद्धधीः ॥ ५९ ॥ न मे परप्रीतिपदाय मत्पिता, कुटुम्बसम्पोषणप्रत्यलं सुतम् । झटित्यनुज्ञां कथमप्यदुःस्थितो, जिनेन्द्रदीक्षार्थमसौ प्रदास्यति ॥६० ॥ कथं नु माता सुतवत्सला तथा, भवप्रवृत्त्येकनिबद्धमानसा । सहिष्यति त्यागमकाल एव मे, गृहस्य गेहोचितकर्मपण्डिता ॥ ६१ ॥ कुटुम्बवर्गस्तु निजार्थमप्यलं, मम प्रवृत्तिं प्रतिरोत्स्यति ध्रुवम् । न दृश्यते सम्प्रति हेतुरीदृशो, भवेदनुज्ञा ननु सर्वतो यतः ॥ ६२ ॥ इमे यथा स्वस्वहितार्थमुद्यता, मदिष्टसिद्धिं गणयन्ति नो वराम् । तथैव चाऽहं स्वहितार्थमुद्यतो-ऽप्युपैमि चैषां कथमीहितं स्वयम् ॥ ६३ ॥ सहस्रशः सन्ति च पुत्रिणो जना, वसुन्धराभारतयैव विश्रुताः । स एव पुत्री विरलस्तु गीयते, सुतो यदीयः स्वपरोपकृत भवेत् ॥ ६४ ॥ जनो गृहस्थः स्वहितेऽपि कातरः, परापकार्येव विलोक्यतेऽभितः । सुदीक्षितस्त्वत्र मुनिर्जनान् बहून्, नयन् सुमार्गे स्वकुलं पुनाति हि ॥ ६५ ॥ कुलद्वयस्याऽपि च कीर्तिरुज्ज्वला, जिनेन्द्रदीक्षाग्रहणेन मे धुवम् । अतो ह्यनुज्ञामनवाप्य पितृतो, गुरोः सकाशे गमनं वरं मम ॥ ६६ ॥ इत्थं श्रीनेमचन्द्रो विदितनिजहितो निर्ममो बन्धुवर्गे वैराग्याकृष्टचित्तो भवविभवततौ निःस्पृहो धर्मरक्तः । कार्ये स्वस्याऽप्रमत्तः पितरमनुसरन् प्राप्य कालं सुयोग्यं गुप्तोऽगाद् वृद्धिचन्द्रं प्रति गुरुप्रवरं निर्भयीभूय विज्ञः ॥ ६७ ॥
इति द्वितीयः सर्गः ॥
शासनसम्राड्-विशेषः
Page #24
--------------------------------------------------------------------------
________________
E
अथ तृतीयः सर्गः ।
m
mmmmmmmmmmmm
(वसन्ततिलका छन्दः) श्रेयः समादिशतु नो जिनराज आप्तो वीरो निसर्गकरुणापरिपूर्णचित्तः । सङ्ख्यावताममितबोधविधानदक्षां यो देशनां व्यधित तत्त्वमयीं त्रिपद्या ॥ १ ॥ श्रीवृद्धिचन्द्रमसमां समतां दधानं प्राप्यैव भावनगरे स तु नेमचन्द्रः । आत्मानमिष्टततिपद्धतिजागरुकोऽज्ञासीद् भवाब्धिपरपारगतं कृतार्थम् ॥ २ ॥ लब्ध्वा विनीतमुपनीतगुणालिसात्म्यं दीक्षोन्मुखं व्यपगताखिलदोषबन्धम् । सम्भाव्य वृद्धिविजयोऽपरतोऽप्रधृष्यमानन्दकन्दमपसीममविन्दताडलम् ॥ ३ ॥ भालं विशालमथ तस्य विलोक्य दधे चित्ते सुलक्ष्मललितं स मुनीन्द्र एवम् । नदं भविष्यति सुपण्डित एष वाग्मी भव्योपकारनिरतोऽभिमतो बुधानाम् ॥ ४ ॥ प्रागल्भ्यमस्य पुनरप्रतिमं यथाऽस्ति बाल्येऽपि मध्यवयसामपि यदुरापम् । तेनाऽनुमा भवति मे नियतात्र बाले श्रीजैनसङ्घमहिमोन्नतिकारितायाः ॥ ५ ॥ इत्थं विचारयति तत्र गुरावनिद्रः स्वाभीष्टकर्मणि कुमारसम: कुमारः । भक्त्या प्रणम्य गुरुवर्यमपेतदोष दीक्षामयाचत तमाशु स कृत्यविज्ञः ॥ ६ ॥
शासनसम्राड्-विशेषः
Page #25
--------------------------------------------------------------------------
________________
बालोऽसि तेऽत्र जनको जननी च नूनं श्रुत्वाऽऽगमिष्यत इमां भविता तदानीम् । सङ्के तयोस्तु परिदेवनतो नितान्तम् कोलाहलो मम ततो भविता न शान्तिः ॥ ७ ॥ कालेन सेत्स्यति तवाऽभिमतं त्ववश्यं तिष्ठाऽत्र सम्प्रति समाचर साधुसेवाम् । सामायिकादिकरणीयमनन्यचित्तः काले विधाय पठ नित्यविधिं यथावत् ॥ ८ ॥ सुश्रावकोऽस्त्यमरचन्द्र इहाडग्रगण्यः सङ्केषु कृत्यनिपुणो यशराजपुत्रः । यस्याडमला रुचिरतीव जिनोक्तधर्मे स्याद्वादतत्त्वमननप्रवणा च बुद्धिः ॥ ९ ॥ तस्यैव मत्रमुपजीव्य कुशाग्रबुद्धे ! स्वाभीष्टसाधनपरो भव वृद्धसेविन् ! । नित्यक्रियामनुदिनं कुरु साधुपाचे पञ्चप्रतिक्रमणसूत्रमधिष्व सार्थम् ॥ १० ॥ एतादृशान्यनुपमानि वचांसि विज्ञो लब्ध्वाऽऽयतौ गुरुवरात् तु सुखावहानि । धीमन्तमप्यमरचन्द्रमथाऽऽशु नेमचन्द्रः स्वपक्षगमसावकरोत् सुवृत्त्या ॥ ११ ॥ पुर्यां स तत्र शिशुरप्यभिनन्दनीयो वृद्धैरुदारचरितैः क्रियया बभूव । निस्सीमप्रीतिरत एव शुभप्रवृत्तौ तस्मिन् मुनेरपि विनीततरे बभूव ॥ १२ ॥ सान्ध्यं विधिं प्रतिदिनं स गुरोः सकाशे कृत्वा विशुद्धमनसा गुरुपादसेवी । आवृत्तिमभ्यसितसूत्रततेविधाय मत्रं गुरोरकलयन्निशि सावधानः ॥ १३ ॥
शासनसम्राड्-विशेषः
Page #26
--------------------------------------------------------------------------
________________
तं बालमप्यमितबुद्धिनिधानमाराच्छ्राद्धं स वृद्धिविजयो गुरुरीक्ष्य बुद्ध्या । सन्दिग्धमत्रपदनिश्चयनाय प्रायोऽपूच्छद् रहस्यमनुरञ्जितसभ्यवर्गम् ॥ १४ ॥ बुद्धिं विवेकनियतां परिणामरम्यामाधाय सोऽपि परजुष्टमतानपेक्षः । मन्त्रं तथैव विदधौ गुरुरप्यमन्दानन्दो यथाऽभवदगाधविचारकक्षः ॥ १५ ॥ इत्थं गुरोः परमप्रीतिमवाप्य नेमचन्द्रो विचारनिपुणो विनयप्रधानः । संवत्सरं त्वगमयत् पठनादिकर्मव्यासङ्गतां गुरुसमीपगतो विबुद्धः ॥ १६ ॥ वप्ता प्रवृत्तिमुपलभ्य सुतस्य चाऽस्य शुद्धां कुमार्गविमुखां विनयादिरम्याम् । लोक प्रवृत्तिमनुरुध्य पुरीं स्वमातुः पञ्चत्वदुःखमुपजीव्य *तमानयत् स्वाम् ॥ १७ ॥ प्रौढः स कार्यवशतः पितुरेव बुद्धिं मध्यस्थवृत्तिमवलम्ब्य धियाऽनुगच्छत् । नानाविधानि परिणामकटूनि तत्र भोग्यान्यभुङ्क्त स विरक्ततरोऽपि यस्मात् ॥ १८ ॥ तस्मिंस्तथाऽऽगतवति स्वगुरोः सकाशाद्, दीक्षकबद्धहृदये नररत्नवर्ये । भूयः पलायनमथाऽस्य विशङ्कमानो वप्ता प्रमादरहितस्त्वभितो बभूव ॥ १९ ॥ आसक्तिमांश्च बहिरेव कुटुम्बवर्गे नाऽन्तस्तथाऽपि विनयी स तु नेमचन्द्रः । वप्तारमात्मनि सरागमवेक्ष्य लक्ष्मी
चन्द्रं तथैव विदधे न यथाऽस्य खेदः ॥ २० ॥ * तमाशु निन्ये-इत्यपि पाठः ।
शासनसम्राड्-विशेषः
Page #27
--------------------------------------------------------------------------
________________
माता स्वभावसरलाऽस्य विलोक्य चाऽमुं स्वाभाविकं परमप्रेम प्रदर्शयन्ती । सुस्वादुमिष्टमुपभोज्य सुभक्ष्यजातं सेहादुपाचरदतीव वरं सुतं तम् ॥ २१ ॥ मोहाभिभूतमथ सोऽकलयत् समस्तं सम्बन्धिवर्गमपनिद्रमतिः कुमारः । प्रच्छन्न एव पुनरप्यपहाय गेहं सोडगाच्च भावनगरे गुरुपादमूलम् ॥ २२ ॥ आगत्य तत्र गुरुवर्यमसेवताऽलं भूयोऽप्ययाचत गुरुं प्रणतः स दीक्षाम् । एकान्ततो ग्रहमसौ प्रविलोक्य तस्य तस्यां गुरुः श्रितदयोऽमितधीरुवाच ॥ २३ ॥ त्वं बालकोऽसि तत एव मया न दीक्षा तुभ्यं प्रदीयत इतो न निमित्तमन्यत् । धर्माधिकारिनिकटं तव बन्धुवर्गो दीक्षाग्रहे सति गमिष्यति नूनमेव ॥ २४ ॥ योग्योऽसि कृत्यनिपुणोऽसि विनेयधुर्यो हे नेमचन्द्र ! वद किं करणीयमत्र ? । पूर्वं समीक्ष्य करणं विदुषो हि शस्तमप्रेक्ष्यकारिणमतीव हसन्ति सन्तः ॥ २५ ॥ सुश्रावका अमरचन्द्रमुखास्तु सर्वे मवन्तमिष्टमनुजग्मुरनल्पविज्ञाः । प्रौढः स एव पुनराह दृढप्रतिज्ञो नम्रो गुरुं विगतभीरपनीतमोहः ॥ २६ ॥ धर्माधिकारिभवने गमनं ममेष्टं दीक्षाकृते मतिमतां वर ! निर्भयोऽहम् । दास्यामि तत्र पितरं प्रति वीतमोहः प्रत्युत्तरं ननु यथा भविता जयश्रीः ॥ २७ ॥
शासनसम्राड्-विशेषः
Page #28
--------------------------------------------------------------------------
________________
नाऽहं भवन्तमिह कर्मणि लेशतोऽपि स्वार्थं करोमि शमभङ्गभयातिथेयम् । माध्यस्थ्यमात्रमवलम्ब्य भवान् ससङ्घो यलं विलोकयतु मे स्वसमीहिताय ॥ २८ ॥ दीक्षार्थमित्यमपभीतममुं विलोक्य सुश्रावकस्त्वमरचन्द्र उवाच विज्ञः । साहाय्यमत्र तव कर्मणि सर्व एव कुर्मो वयं गुरुकृपा भविताऽत्र सिद्धयै ॥ २९ ॥ सङ्घस्य तस्य च तथाऽऽग्रहतो विचारो दीक्षां प्रदातुमचिरेण समुल्लास। . तत्रैव वृद्धिविजयस्य भवाब्धिपारोतारार्थमुद्यमजुषो भवभीतिभाजाम् ॥ ३० ॥ ज्ञात्वा कुटुम्बसहितः पुनरस्य लक्ष्मीचन्द्रो विचारमतिदाय॑पदप्रतिष्ठम् । आगत्य तंत्र बहुधा समबोधयत् तं गेहे व्यस्थितिकृते सुतप्रीतिबद्धः ॥ ३१ ॥ बालोऽप्यमन्दधिषणानिलयो निरीहो निर्व्याजमाह जनकं सकुटुम्बमेतत् । पुत्रं कुलद्वययशस्करमत्र विद्धि दीक्षाप्तितो दृढप्रतिज्ञममुं त्ववश्यम् ॥ ३२ ॥ यूयं यथा त्वहितमेव हितं विबोध्य मां बन्धनाय सममिच्छथ बन्धुवर्गः । युष्मांस्तथैव हितमेव हितं विबोध्य मुक्त्यै निनीषुरहमस्मि भवाब्धिमग्नान् ॥ ३३ ॥ मोहप्रवृत्तिस्थ चेद् भवतां विशाला सा रोहलेशविमुखे मयि युज्यते नो । अन्योन्यरागनियता न तु वृद्धिमेति यस्मादियं विहतरागपदे कथञ्चित् ॥ ३४ ॥
शासनसम्राड्-विशेषः
२१
Page #29
--------------------------------------------------------------------------
________________
-
यो बालचन्द्र इति ते प्रथितस्तनूजो मत्तोऽवर: स भविता कुलवृद्धिहेतुः । तिस्रः सुताः गृहविभूषणतां दधन्त्यो मोदं पितस्तव न किं परिपूरयन्ति ? ॥ ३५ ॥ इत्यादि प्रीतिवियुतं वचनं तदीयं तथ्यं हितं च न पितू रुचितं बभूव । तं दण्डनीत्यधिकृतातुलभीतिभङ्ग्या नेतुं हठादथ स ऐच्छदगाधधैर्यम् ॥ ३६ ॥ नीतिप्रपञ्चनिपुणः स तु नेमचन्द्रो नैवाऽवसत् समुचितोत्तरदानदक्षः । तरमादबुद्धिजनभीतिविधानदक्षा धर्माधिकारिनिकटानयनाद्युपायात् ॥ ३७ ॥ माता तु तस्य पुरतोऽतिरुरोद सोरस्ताडं विषण्णवदना करुणाईचित्ता । मोहाभिभूतमनसस्तु जनास्तदानीं तद्रोदनेन समदुःखमवापुरज्ञाः ॥ ३८ ॥ तां तादृशीं स जननी सुतरागनद्धां वैराग्यबद्धहृदयो दृढसत्त्व एवम् । प्रोवाच येन जनताऽतिचमत्कृताऽभूत् वीतस्पृहत्वमतुलं भवतो विभाव्य ॥ ३९ ॥ मातः ! स्वमृत्युसमनन्तरमत्र सर्वे यद् रोदयन्ति जननीं न च तत्र चित्रम् ।। चित्रं त्विदं यदहमग्रत एव जीवन् संरोदयामि भवतीं स्वसमीहितार्थी ॥ ४० ॥ नो रोदनेन न च तर्जनया न भीत्या त्यक्ष्यामि वो निजसमीहितदां प्रतिज्ञाम् । चिन्तामणिं निजकरे समवाप्य को जो वार्धावगाधसलिले क्षिपति प्रसह्य ॥ ४१ ॥
शासनसम्राड्-विशेषः
Page #30
--------------------------------------------------------------------------
________________
तेजोनिधेः समुदयो यदि पश्चिमायां वारांनिधेरपि च वृद्धिरतीत्य वेलाम् । स्थानं विहाय चलनं च भवेत् सुमेरोनों मे तदाऽपि चलनं शुभसङ्गरस्य ॥ ४२ ॥ इत्थं सुनिश्चितविचारमपेतरागं तं नेमचन्द्रमवधार्य मुमोद सङ्गः । माता रुरोद सुतरत्न वियोगखिन्ना वप्ता कथञ्चिदपि धैर्यमुरीचकार ॥ ४३ ॥ बाणाब्धिनिध्युडुपसम्प्रमितेऽथ वर्षे (१९४५) ज्येष्ठे सिते दिवसनाथतिथौ सुयोगे । लग्ने परीक्षितवहे समुहूर्त्तयुक्ते दोषप्रमोषललिते गणकालिगीते ॥ ४४ ॥ श्रीतख्तसिंहनूपतेरवदातकीर्तेः राज्ये समुल्लसति भावपुरे वरिष्ठे । लोके प्रमोदभरतुन्दिलतां दधाने धर्मप्रवृत्तिनियतोत्सवसावधाने ॥ ४५ ॥ सङ्ख्ये गुणौघनिलये कलितप्रमोदे दीक्षां स वृद्धिविजयो मुनिराप्तमुख्यः । तस्मै ददौ प्रथितपञ्चमहाव्रताढ्यां नामाऽपि नेमिविजयेत्यकरोच्च तस्य ॥ ४६ ॥ सङ्घः सुधर्मस्थगो भविता विमुक्तिगामी त्ववश्यमवनौ सुदृढादमुष्मात् । चक्राभिधां च तत एव विचार्य नेमिं यस्मिन् गुरुः प्रथितकीर्तिरुपाददे नु ॥ ४७ ॥ अध्यैष्ट नेमिविजयो मतिमत्प्रधानः काव्यानि पञ्च रघुवंशमुखानि शीघम् । श्रीभानुशङ्करप्रदर्शितकाव्यमार्गवैदग्ध्यतोऽतिपटुताऽस्य बभूव तत्र ॥ ४८ ॥
शासनसम्राड्-विशेषः
२३
Page #31
--------------------------------------------------------------------------
________________
रूपावलीप्रभृतिकानि बभूवुरेवाऽभ्यासात् सुसंस्कृतप्रवेशफलानि पूर्वम् । पश्चात्क्रमेण कविकर्मकलापमध्ये तात्पर्यबोधप्रवणा प्रबभूव शक्तिः ॥ ४९ ॥ शक्त्या स्वयं स बुधवर्यविनिर्मितानि गूढार्थकानि चरितान्यधिजग्मिवाँश्च । दुर्बोधमप्यतिसुबोधवचःप्रणाल्या व्याख्यानवल्लघुविबोधकृते जनानाम् ॥ ५० ॥ व्याख्यानकौशलकला तत एव तस्य प्रादुर्बभूव तुलनारहिता नवीना । अभ्यासविघ्नभयतो न तदोपयोगं तस्याश्चकार परमायतिसावधानः ॥ ५१ ॥ संस्कारपाटवमसौ परमाप्य शब्दसाधुत्वबोधनफलामथ शब्दविद्याम् । अध्यैष्ट भावनगराधिपपाठशालाशिक्षानियुक्त बुधतो गुरुसन्निधाने ॥ ५२ ॥ मर्मावबोधनकृते स तु फक्किकासु
तत्राऽपि शिक्षकवरान्निपुणत्वमाप । स्वल्पेऽप्यनेहसि परामधिगम्य प्रौढिं
विद्वत्सदस्सु प्रतिवादकलां व्यधत्त ॥ ५३ ॥ अभ्यासपद्धतिमिता तनुविस्तृताऽपि किं चन्द्रिका हसति तामपि कौमुदीं नो । भानुर्निदर्शनमभूदिह शिक्षकोऽद्य सोऽप्येतदीयमतितोऽतितुतोष विद्वान् ॥ ५४ ॥ रात्रिन्दिवं पठनतो गुरुसेवयाऽपि काले समाचरणतो विधितः क्रियायाः । प्राग्जन्मसंस्कृतिसमष्टिप्रबोधतोऽथ विद्योल्ल्लास विमलाsस्य विपक्चबुद्धेः ॥ ५५ ॥
२४
शासनसम्राड्-विशेष:
Page #32
--------------------------------------------------------------------------
________________
सक्षेपतः श्रुतगताभिमतार्थतत्त्वबोधोऽपि तस्य रुचिसंवलितो बभासे । स्वाध्यायतोऽस्य गुरुरप्यतिमोदभावं नम्रस्य कृत्यनिपुणस्य सुतीक्ष्णबुद्धेः ॥ ५६ ॥ तस्यैवं गुरुसन्निधौ विनयतो विद्यां समभ्यस्यतश्चत्वारो विगता अतीतपदवी संवत्सराः सौख्यदाः । अन्योन्यं प्रबभूव यत्र समयार्थालोचनं वाग्मिनां शिष्याणां मतिताण्डवास्पदमसद्वादप्रमुक्तं शुभम् ॥ ५७ ॥ निध्यब्यङनिशाधिनाथप्रमिते(१९४९) संवत्सरे वैक्रमे वैशाख्ने सितपक्षके रवितिथौ श्रीवृद्धिचन्द्रो मुनिः । शिष्याणां प्रकरे समुन्नतिघटां प्राप्ते कृतार्थः स्वयं स्वर्लोकं द्विगुरुं चकार परमं योगं प्रपद्यार्हतः ॥ ५८ ॥ श्रीले भावपुरे तदा समभवत् सुश्रावकाणां गणे मोदोल्लाससमञ्चितो निरुपमस्तद्देहकृत्योत्सवः । पञ्चत्वं गमितेऽथ तत्र वणिजस्त्वष्टाह्निकाद्युत्सवं चक्रुरतेन बभौ पुरं बलरिपोरेवाऽऽगतं तत्पुरम् ॥ ५९ ॥
इति तृतीयः सर्गः
शासनसम्राड्-विशेषः
Page #33
--------------------------------------------------------------------------
________________
1 अथ चतुर्थः सर्गः
Exam
irmil MumILONG
(पृथ्वी छन्दः) तनोतु शुभसन्ततिं भविकसन्ततौ सर्वदा सुरासुरनतक्रमोऽतिदृढमूलमोहारिहा । निसर्गकरुणामयोऽप्रतिहताखिलज्ञानभूरबाध्यवचनो जिनोऽतुलविमुक्तिलक्ष्म्याश्रितः ॥ १ ॥ गुरावुपरते वरे विधिनियोगसंयोगतो विचारनिलयोत्तमे मुनिसमष्टिचूडामणौ । स नेमिविजयो मुनिर्गुरुवियोगसम्पीडितो जनोपकृतये द्रुतं विहरणं समैच्छत् सुधीः ॥ २ ॥ ययौ विहरणक्रमात् प्रथममेष सिद्धाचलं मुनीन्द्रगणसेवितं सततमेव तीर्थोत्तमम् । अनल्पजिनमन्दिराकलितशृङ्गशोभं वरं नदी परमपावनी यमधिभाति शत्रुञ्जया ॥ ३ ॥ गिरिप्रवरसन्निधेर्जगति विश्रुतं यात्रिणां सदैव गमनागमैर्विविधदेशसञ्चारिणाम् । पुरप्रवरमर्थितो नगरवासिसच्छ्रावकैरशोभयदसौ मुनिः प्रथितपादलिप्ताभिधम् ॥ ४ ॥ नृपोऽपि गिरिसन्निधौ वसतिमाप्य तस्मिन् पुरे सुयात्रिगणरक्षणाद् धनमहर्निशं विन्दते । गिरिप्रवरसेवया सुखिन एव तद्वासिनो नराः सुकृतलम्पटा अनुभवन्ति धर्मक्रियाम् ॥ ५ ॥ न यस्य मतिकुण्ठता समभवन्नये गौतमे गदाधरवचस्ततिर्हृदयगा नवीनाऽभवत् । अखण्डमतिताण्डवं व्यधित खण्डने योऽभितः स दानविजयस्तदा मुनिरधिश्रितस्तत्पुरम् ॥ ६ ॥
२६
शासनसम्राड्-विशेषः
Page #34
--------------------------------------------------------------------------
________________
स नेमिविजयं कृती विविधवाचनापण्डितं ग्रहेण निजसन्निधौ समकरोत् सुमैत्रीपदम् । उभौ नयविशारदौ श्रुतविचारणातत्परौ परस्परमतानुगावलभतां प्रमोदं परम् ॥ ७ ॥ द्विजाद् दिनकराभिधादमलशब्दविद्याम्बुधेरपीपठदमन्दधीः स किल पाणिनीयं तदा । स्वबुद्ध्यमितवैभवादनलसप्रवृत्तेरथो सुसंस्कृतपदावली निजवशे समस्थापयत् ॥ ८ ॥ नवाब्धिनवयामिनीपतिमितं (१९४९) तु संवत्सरं सुखेन समपूरयत् स किल पादलिप्ते पुरे । पुनर्विहरणक्रियामनुभवन् जनाभीष्टदां स जामनगरं ययौ भविक प्रार्थनाकर्षितः ॥ ९ ॥ समीहितविवेचनाकलितमर्थतत्त्वोज्ज्वलं निदर्शनसमन्वितं विधिनिषेधवादाश्रितम् । श्रुतोदधिसुसङ्गतं सदुपदेशमिष्टं ददौ स तत्र प्रतिवासरं प्रणतभव्यसङ्घाय वै ॥ १० ॥ अनल्पभववासनामपनयन् जनानां रुचिं जिनप्रवचनाश्रितां विमलयन् भवोत्तारिणीम् । स्वकीयवचनामृतैर्जिनमते जनान् स्थापयन् बहून् पमताश्रितान् समभवत् स पूज्यो जनैः ॥ ११ ॥ तदुक्तिमननोन्मुखा नगरवासिनः श्रावकास्तदन्तिकमशिश्रियन् सततमेव बद्धादराः । परेऽपि निजसंशयप्रलयतोऽस्य साक्तितो विनेयपदवीं ययुर्विबुधमाननीया जनाः ॥ १२ ॥ न यौक्तिकजनादृते वचनमस्य सम्यक्तया सुबोधमभवत् पुनर्निजविचारसञ्चारणे । अतो वचनचातुरीप्रथनलम्पटानामसावुपास्यचरणोऽभवद् विमलतत्त्ववानिर्मितौ ॥ १४ ॥
-
शासनसम्राड्-विशेषः
२७
Page #35
--------------------------------------------------------------------------
________________
न सत्यवचनादृते वचनमस्य तत्त्वेsभव
न्न चाऽपि पिशुनावली समभवत् तथाऽस्याऽन्तिके । न पामरजनैः समं विततमन्त्रणाऽस्याऽभव
न्न दुर्व्यसनसम्मुखा मतिरभूत् तदीया जने ॥ १५ ॥ सुधर्मपथविच्युतौ कुलवतामपि श्रीमतां पदे प्रणमतामसौ न च मुखं समैक्षन्मुनिः । न बालगणमेलनं समभवत् तथाऽस्य क्वचित् प्रतापभवनस्य तत्परित एव कीर्तिर्बभौ १६ ॥ समायवसृतिं कृती विमलपुण्यबिम्बाऽपि तां तदा नु कचराभिधो विभवतो व्यधादुज्ज्वलाम् । तदुत्सवविराजिते पुरवरे तदानीं नु किं सुरा अपि समागताः समभवन् प्रमोदाञ्चिताः ॥ १७ ॥ श्रिया लसितभालकेऽथ प्रवरे विशां वंशके समृद्धिमहितो युवा परगलाल - डाह्याभिधः । अनल्पविजयाशन- व्यसनलम्पटो निर्भयस्तदन्तिकमुपाययौ प्रतिदिनं प्रसन्नाशयः ॥ १८ ॥ स नेमिविजयो मुनिः सदुपदेशतस्तं मुहुः क्रमाब्जभसलायितं समकरोद् विरक्त्यास्पदम् । वणिक्प्रवर एकदा स तु प्रसङ्गतो वाक्ततेरयाचत विदाम्बरं मुनिममुं सुदीक्षां क्रमात् ॥ १९ ॥ निरक्षरतयाऽऽश्रितं व्यसनलम्पटं मां भवान् विभाव्य निजशक्तितः प्रगुणयत्वभीष्टे क्षमम् । भवत्पदसुसेवयाऽस्खलितजैनधर्मोत्तमा
श्रयेण भववारिधेरहमुपैमि पारं यतः ॥ २० ॥ तमुद्यतमभीपदं विमलजैनदीक्षाप्तये भवाब्धितरणक्षमं विहतमोहदुश्चेष्टितम् ।
विलोक्य किल बान्धवा विदधिरेऽस्य नीत्यालयाधिकारिजनसंश्रयाद् गृहप्रसक्त्युपायान् बहून् ॥ २१ ॥
२८
शासनसम्राड् - विशेष:
Page #36
--------------------------------------------------------------------------
________________
Maacamoummar
NIRALAIME
स. लालपदविश्रुतो निजजनान् विभाव्योद्यतान् समीहितपथच्युतौ दृढप्रतिज्ञ एषोऽवदत् । न मेऽधिकरणालये गमनतो भयं बान्धवा मुधा कुरुत मोद्यम विगतमोहलेशे मयि ॥ २२ ॥ नयालयगतो ह्यहं तदधिकारिणां सम्मुखे प्रकाश्य निजनग्नतां समुचितोत्तरं वो ददे । न मे विषयकामना न च मनः कुटुम्बाश्रितं स्पृहा हृदयसङ्गता मम तु जैनदीक्षाश्रिता ॥ २३ ॥ विवेकविकला दशा सपदि याति दूरं यया दृढा विषयवासना विलयमेति सर्वात्मना । विमुक्तिपदवी वरा भवति चाऽत्र नेदीयसी शुभप्रचयराजिता मम तु जैनदीक्षाऽस्तु सा ॥ २४ ॥ वदन्तममलान्वयं दृढप्रतिज्ञमेवं जना विभाव्य तमकल्मषं समभवन् प्रमोदाञ्चिताः । तदिष्टमनुमेनिरे जिनमतप्रभावोन्मुखास्तदा प्रणतबान्धवा गुरुपदाब्जभृङ्गायिताः ॥ २५ ॥ खबाणनिधिकौमुदीपतिमिते (१९५०) तु संवत्सरे शुभग्रहसमुज्ज्वले शुभमतिः स डाह्याभिधः । सुमेरुरचनाञ्चितं परिचितत्य चाडष्टाह्निकोत्सवं मुनिवरात् ततेः प्रवरजैनदीक्षां ललौ ॥ २६ ॥ स नेमिविजयो मुनिः सुमतिसज्ञयाऽन्वर्थयातमग्रिममयोजयच्छ्रितपदं विनेयं गुरुः । अशिक्षयदनन्तरं विमलबोधसम्प्राप्तये सदाचरणपद्धतिं मुनिवरौघसंसेविताम् ॥ २७ ॥ गुरुप्रवरशिक्षया सुमतिनाम्नि तस्मिन् गुनौ गुणाश्चरणसङ्गता उपगता निकामं वराः । गता विलयपद्धतिं व्यसनराजयो मूलतो भवोन्मथनलम्पटा रुचिरुदित्वराऽभूच्छ्रुतम् ॥ २८ ॥
शासनसम्राड्-विशेषः
२९
Page #37
--------------------------------------------------------------------------
________________
UM
गुरोर्वचनमादराद् विनयतः शुभाज्ञाञ्चितं शिरस्यथ समग्रहीन्मुकुटवत् सदाऽसौ मुनिः । न काऽपि समभूत् क्रिया क्वचिदपि स्वतत्रान्वया. गुरोरनुमतिं विना शुभवतोऽस्य प्रज्ञावतः ॥ २९ ॥ विनीततरतां गतः सुमतिरुग्रतेजा अपि गुरोः प्रभवतोऽन्तिके प्रशम एव तस्थौ सदा । न धर्मविमुखो जनः क्षणमपि प्रियालापभूत् तदन्तिकमुपाययौ तदतितापभीकुण्ठितः ॥ ३० ॥ विबुद्धबुधविश्रुतं महति दानसशं मुनि स सिद्धगिरियात्रिकात् कुनयजेऽथ(?) कष्टे स्थितम् । तदुद्धरणकामनाकलितधीरुदाराशयो व्यवस्यदकुतोभयस्तमुपपादलिप्तं गतम् ॥ ३१ ॥ वणिक्कुलविभूषणः प्रगचन्द्रसौभाग्यकस्तदा सुविभवोऽभवत् परगचन्द्रकर्पूरजः । स नाम नगरेऽग्रणीः सकलसङ्घसम्मानितो धनव्ययमजीगणन्न सुकृतेष्वनल्पेष्वपि ॥ ३२ ॥ स नेमिविजयाद् गुरोः प्रतिदिनं शुभां देशनामनल्पनयगुम्फितां समशृणोत् सुभावाञ्चितः । प्रसङ्गत उदाहृतं स खलु तीर्थयात्राश्रितं वचःप्रकरमादराद् हृदि दधाविदं भूतये ॥ ३३ ॥ ययोन्नतिघटापरा भवति धर्मवृद्ध्युन्मुखा गृहाङ्गणकृतालयोल्लसति चेन्दिरा सुस्थिरा । विमुक्तिपदयोग्यताऽव्यवहितार्थदा जायते बुधाः कुरुत तां मुदा जगति तीर्थयात्रां वराम् ॥ ३४ ॥ अनल्पभवसञ्चितो विलयमेति यस्याः कृतेः निकाचितदशां गताऽप्यमितकर्मभूतिर्दृतम् । सुबन्धनपदं श्रयत्यपि च तीर्थकृत्कर्म तत् बुधाः कुरुत तां मुदा जगति तीर्थयात्रां वराम् ॥ ३५ ॥
३०
शासनसम्राड्-विशेषः
Page #38
--------------------------------------------------------------------------
________________
इमाममितकामदां विभवतस्तु सङ्ख कृती सुकारयति यः स्वयं प्रकुरुते च पुण्याशयः । न तस्य गुणवर्णने गुरुरपि प्रभुस्तत्त्वतो न कोऽपि सदृशो भवेदिह पत्र वा तत्फलैः ॥ ३६ ॥ स धर्मधन एकदा गुरुवरं ययाचे स्वयं महाग्रहपुरस्सरं शुभमिदं समात्ताञ्जलिः । प्रपूरय गुरो ! स्पृहां मम सुतीर्थयात्राश्रयां निजागमनतोऽनघाऽप्रतिमसङ्घगत्यञ्चितात् ॥ ३७ ॥ तमर्थिनमसौ मुनिनिखिलतीर्थराज गिरि प्रतिस्वगमनोक्तितः समकरोदभीष्टोद्यतम् । निमवित इयत्तयाऽनवधृताऽथ सङ्घोऽभितोऽप्युपागमदनारतं प्रवरतीर्थयात्रेच्छया ॥ ३८ ॥ चचाल पुरतस्ततोऽधिपममुं प्रपद्याऽऽर्हतं स सिद्धिगिरिसम्मुखं जनसमाज आनन्दभाक् । श्रुतोक्त विधिमत्यजन् मुनिवरस्य तस्याऽऽज्ञया पदप्रचरणादिकं विदितधर्मशास्त्राम्बुधः ॥ ३९ ॥ अजीगणदुदारताचमसीम्नि तिष्ठन्नसौ । वसुव्ययमनल्पशो न च पथि क्वचित् कर्मणि । उपात्राकृतिं क्वचित् क्वचिदपि प्रभोर्मन्दिरं मुनीशवचनात् क्वचित् समकरोत् स जीर्णोद्धतिम् ॥ ४० ॥ ससङ्घजनतामनोऽभिमतवस्तुसम्पादनैरप्रीणयदनारतं पथि गृहस्थितिं दर्शयन् । जिनार्चनघटां परां पुरि पुरि प्रकुर्वन् ययौ सुमिष्टमुपभोजयन् प्रतिपुरं स साधर्मिकान् ॥ ४१ ॥ स नेमिविजयो मुनिः सदुपदेशतोऽहर्निशं. समागतजनान् बहूनकृत तत्र धर्मोद्यतान् । पुरं च सुप्रयाणकैः प्रथितपादलिप्ताभिधं समासददनामयं सपतिसङ्घयुक्त: कृती ॥ ४२ ॥
शासनसम्राड्-विशेषः
Page #39
--------------------------------------------------------------------------
________________
जयध्वनिपरायणैः पुरनिवासिभिः श्रावकैः समर्चितपदो मुनिः सपतिसङ्घविभ्राजितः । सुतोरणविभूषिते पुरि प्रसर्पदच्छध्वनाववीविशदुपाश्रये प्रभुमुपास्य चैत्ये जिनम् ॥ ४३ ॥ जिनानमितकामदान् सगुरुरेव सिद्धाचलोपरि प्रथितचैत्यगान् प्रणमितुं ससको ययौ । प्रणम्य नृभवं तदा सफलयन् ससङ्घाधिपो कृतार्थपरिपूरितां प्रथितसप्तपात्रीं ननु ॥ ४४ ॥ अनल्पदिवसागतं सविधवर्त्तिनं वाग्मिनं समस्तनयकोविदं विनयतत्परं निर्भयम् । विलोक्य तमकल्मषं जिनमताब्जभानुं मुनि स दानविजयोऽभवत् प्रमदमेदुरो निर्भरम् ॥ ४५ ॥ तदीयवचनादयो विदितवेद्यकर्तव्यकः स नेमिविजयो मुनिर्निभृतमेव सर्वं व्यधात् । क्रिया फलति सत्त्वतो विविधमत्रगुप्तान्वया सतां परिकरादृते न तु वचःप्रथाडम्बरैः ॥ ४६ ॥ न यद् बहुविधैः श्रमैरपि बभूव लेशादपि प्रसिद्धिपदमर्थिनामपि सहायकूत्याऽऽत्मनः(?)। तदाशु मुनिना कृतं समवलोक्य दानाभिधः स नेमिविजयेन यन्मुदमियाय दुःखक्षयम् ॥ ४७ ॥ एवं सोपकारी गुणगणनिलयो विश्वविख्यातकीर्तिः श्रीमान् नेमिर्विहर्तुं पुरि पुरि जनताबोधिहेतोरियेष । तीर्थनैतादृशानां स्थितिरतिसमया युज्यते धर्मचूद्ध्यै कल्पैदम्पर्यभाजां यत इह यमिनां तत्त्वदृष्ट्यैकधाम्नाम् ॥ ४८ ॥
इति चतुर्थः सर्गः ॥
३२
शासनसम्राड्-विशेषः
Page #40
--------------------------------------------------------------------------
________________
HIKIIIIIIIIIIIIIIIIIIIIIIIIIIIIITTIक
म
अथ पञ्चमः सर्गः
(शिखरिणी छन्दः) परिच्छेदोऽतीतो जगति महिमा यस्य विबुधैः यदीया तत्त्वोक्तिर्नयपरिचितानल्पसरणिः । त्रिलोकीं यज्ज्ञानं कलयति करस्थामलकवत् . स वोडो लोकानामवतु सततं कर्मवियुतः ॥ १ ॥ गुणानामावासं सुमतिसहितं नेमिविजयं जनानां सद्भाग्यादथ च विहरन्तं पुरि पुरि । समानेतुं श्राद्धाः सुरपुरसदृक्षे मधुपुरे कृतायासाभ्यासाः फलमुपगताः पुण्यदिवसः ॥ २ ॥ पुरे तस्मिँस्तस्याऽतुलगुणनिधेः स्वागतिविधि विधातार: श्राद्धा अहमहमिकातः समुदिताः । अकार्युर्यां शोभां निजनिजकहट्टेषु युगपत् तया भक्ति व्यक्ति: स्ववदपरस्मिन्नपि जने ॥ ३ ॥ निजग्रामे मानो भवति महतां नैव निजकैः प्रवादोऽयं व्याप्त्या वियुत इह जातो मुनिवरे । उपाधिर्मोहादि: कलयति कृती तत्र सुधिया समुत्खातोपाधौ समुचिततरोऽयं किमु नहि? ॥ ४ ॥ स पूर्वं सद्गत्या विधिमनुसरन् शास्त्रविदितं प्रभोर्बिम्बं साक्षाद् विहरत उपात्तं द्युतिचितम् । महावीरस्योक्तं प्रणमितुमगाच्चैत्यभवनं जिनं नत्वा सडैर्चसतिमविशत् प्राप्य विधितः ॥ ५ ॥ निषण्णान् श्राद्धौघान् जिनवचनशुश्रूषणपरान् समीहापोहाक्तान् श्रुतमननसआतधिषणान् । विदित्वाऽनुक्तानथ समुचिते विष्टपवरे निषिद्धारव्यत्तत्वं मुनिगणमणिमिविजयः ॥ ६ ॥
शासनसम्राड्-विशेषः
३३
Page #41
--------------------------------------------------------------------------
________________
अनल्पैदृष्टान्तैरनुगतमबाध्यैरविकलैः प्रभूतार्थोपेतं श्रुतपरिचितं युक्तिनिचितम् । नयैस्तैस्तैः स्थाने कृतपरिचयं दोषविमुखं तदीयं व्याख्यानं समभवदुपादेयमखिलैः ॥ ७ ॥ न कोऽप्यासीच्छ्रोता मधुपुरपुरे योऽस्य वचनैविदित्वा तत्त्वौघं न च समभवन्मोदकलितः । श्रुतेऽस्य व्याख्याने विषयपरततोऽपि च जनो बभूवोक्तो मुक्तौ क्षणमनुभवन् धर्मसरणिम् ॥ ८ ॥ पिता लक्ष्मीचन्द्रोऽभवदिह पुरा योऽस्य विमुखः । सुदीक्षोपादाने सुतविरहदुःखाकलितधीः । स एव व्याख्यानं नयविषयमार्ण्य निजकं कुलं तेनाऽमस्त प्रथमगणनीयं क्षितितले ॥ ९ ॥ सपुत्रां स्वां मेने जिनमतविदा तेन मुनिना गुणाढ्या दीपाली जगति जननीषु प्रमुदिता । स पद्माताराख्यः प्रथित इह कुटुम्बोऽतिप्रथितः कुटुम्बेष्वेतेनाऽभवदतिप्रसिद्धेन विदुषाम् ॥ १० ॥ विरक्तः श्रीनेमिः पितरमपि तं सन्निधिगतं समं श्राद्धैरन्यैरक्लयदुदारेण मनसा। कदाचित् कस्मिंश्चिद् विमतिपरतत्रं पुनरमुं शशास स्पष्टोक्त्या परजनमिवाऽतीव समदृक् ॥ ११ ॥ सृते व्याख्यानं नो विषयविरतं नेमिविजयं स्त्रियो द्रष्टुं शक्ता अपि सुकुलजाताः समभवन् । अतोऽम्बा दीपाली क्षणमपि कथञ्चित् सुविनया समुत्का तं दृष्ट्वा सफलमिह मेने स्वजननम् ॥ १२ ॥ स दत्त्वा व्याख्यानं प्रतिदिवसमावश्यक विधिं विधायाऽस्तालस्योऽपठदविरतं शास्त्रमनधम् । समायातानन्यानपि विनयनम्रान् समकरोत् वचोभिः स्पष्टार्थैरपि कठिनशास्त्रेषु निपुणः ॥ १३ ॥
शासनसम्राड्-विशेषः
Page #42
--------------------------------------------------------------------------
________________
स पूर्वाभ्यस्तानामतिपरिचितानामपि कृती सदावृत्त्याऽनैषीन्मतिमपरतवां श्रुतचये । तदूहापोहाभ्यामपठितमपि ग्रन्थनिरं तथा व्यास्थद् विज्ञानपि निजवशेऽस्थापयदसौ ॥ १४ ॥ न तस्याऽभ्यासेऽभूत् कुमतकलहानां निवसनं ह्यनुच्छिन्नाशङ्को न च समभवत् कोऽपि मतिमान् । प्रभावात् तस्याऽभूत् सुमतिविजयोऽप्यल्पधिषण: पदार्थज्ञो नित्यं तदनुमतिमिष्टामभिलषन् ॥ १५ ॥ अनुच्छिन्नं यद्यत् प्रथममपरैः संशयपदं सुधीलक्ष्मीचन्द्रो मुनिवरमपृच्छत् तदखिलम् ।। असौ सम्यग्युक्तोत्तमवितरत् तद्यदभवन्मनो निष्ठं तस्याऽनघगुणसमापत्तिप्रवणम् ॥ १६ ॥ स इत्थं सङ्घस्याऽतुलगुणगणोल्लासवशतो निकामं सद्भक्त्या हृदि समवसद् गौरवपदम् । अवात्सीदन्येषामपि परिचितानां हृदि गुणैरहार्यैः सुश्लाघास्पदमतनु सोऽभूच्चरणतः ॥ १७ ॥ अथाऽन्येद्युः सङ्घानुपदिशनमानिव वरान् हितं तत्तद्योग्यं मितमनघमर्थ्य सुविहितम् । प्रसङ्गात् सद्विद्याममितफलदां व्यास्थदुपमाविहीनामेकान्तादमितमतिरित्थं धृतदयः ॥ १८ ॥ यया स्वेष्टज्ञानं भवति मनुजानां हितकर ययाऽनिष्टोद्बोधाद् विरमति जनोऽकृत्यकरणात् । सूते यां ना नूनं भवति च पशुः पुच्छविकलो जनास्तां सेवध्वं वरविनयदां धर्मजननीम् ॥ १९ ॥ ययैकाकी वाग्मी विहरति जनोऽनर्थवियुतो निकामं निर्भीको निखिलपृथिवीमेव ससुखम् । प्रवेशो निर्द्वन्द्वो नृपसदसि सम्मानसहितो यया कस्तां नेच्छेज्जन इह शुभार्थप्रजननीम् ॥ २० ॥
शासनसम्राड्-विशेषः
Page #43
--------------------------------------------------------------------------
________________
यया हीनो नाऽऽत्मा निजकमपि रूपं सुप्रथितं त्ववैत्य ज्ञानान्धो बुडति च भवापारजलधौ । रुचिर्यस्या बोधो भवति महितस्तच्च चरणं जनास्तां सेवध्वं सुगुरुनिकटे मुक्तिजननीम् ॥ २१ ॥ अभाज्यं दायादैरपि सुमतये दत्तमधिकं त्वचौर्यं लुण्टाकैर्नृपकरविहीनं च सुदृढम् । धनं विद्यासज्ञं निजहृदयकोशस्थमजरं जनाः सेवध्वं भो ! परभवगमेकं कृतधियः ॥ २२ ॥ तदीयव्याख्यानैः परहितसमुद्बोधनिपुणैः समुद्रुद्धः सो मितवसुरपि प्राज्यगुणभूत् । वरां विद्याशालां मधुपुरपुरेऽस्थापयदरं शिशूनां बोधाप्त्यै वरनियमदीप्तां स्ववसुभिः ॥ २३ ॥ सरस्वत्यावासं विमलमकरोत् पुस्तकगृहं सुनिर्वृत्तेः स्थानं पसुकृतकार्यं परमपि । धनं तेषां तत्र व्ययितमनपाय्यापरभवं बभूव श्राद्धानां गुरुवचननिष्ठामलधियाम् ॥ २४ ॥ चतुर्मास्यां तस्यामनवरतधर्मश्रवणतो दिनानि श्राद्धानां क्षणमिव ययुस्तस्य निकटे । अभून्निर्विधं तद् धृतमहिमपर्युषणमपि वरिष्ठं पर्वाणां दिवसवरसांवत्सरिक्युक् ॥ २५ ॥ चतुर्मासीपूर्युत्तरदिवसभक्त्या विमलया न कः स्वस्वावासे मुनिमथ निनीषुस्तमभवत् । कथारं कुर्यादमितगमशक्तोऽपि युगपनिवासं तेष्वेकः समदृगपि सोऽकुण्ठधिषणः ॥ २६ ॥ नवे वर्षे प्राप्ते नयनशरनिध्येकप्रमिते (१९५२) विहर्तुं तस्याऽभून्मतिरमितभक्तादपि पुरात् । न कल्पस्योत्क्रान्तौ मतिरनघकल्पागमदृशोऽभवत् स्वप्नेऽप्यस्याऽऽर्हतमतवितानैककृतिनः ॥ २७ ॥
शासनसम्राड्-विशेषः
Page #44
--------------------------------------------------------------------------
________________
समं तद्ग्रामीणा जिगमिषव एतेन मुनिना बभूवुस्तं सिद्धाचलप्रवरतीर्थं प्रति तदा । अयं जानन धर्मोन्नतिमित उपात्तागममतिः समं यात्रां चक्रे मितजनसमाजेन मुनिराट् ॥ २८ ॥ स सङ्घस्तेनोक्तं विधिमनुसरन शास्त्रविहितं प्रकुर्वन् वात्सल्यं पुरि पुरि ययौ तीर्थप्रवरम् । वपन सप्तक्षेत्र्यां वसुसुकृतबीजं जिनपतीन् प्रपूज्याऽऽगान्नत्वा गुरुचरममुं स्वं मधुपुरम् ॥ २९ ॥ विहारं सङ्कुर्वन् पुरि पुरि मुनिर्नेमिविजयः प्रबोधं श्राद्धानां हितमितवचोभिर्विमलयन् । प्रकुर्वन्नन्येषामपि हृदि मृदं तत्त्ववचनैर्मुनीनां सन्मार्गे निरुपधिप्रसिद्धिं स गतवान् ॥ ३० ॥ पुरे यरिमन् व्यस्थाच्छ्रुतवचनमेकं त्वपि दिनं सदृष्टान्तन्यायागमप्रभृतिनद्वैस्तु वचनैः । पुरे तस्मिन् श्राद्धा नियतगुरुसेवैकधिषणा अपि पहा जाताश्चरणयुगले तस्य कृतिनः ॥ ३१ ॥ यथा चातुर्मास्यं निकटमभवद् गच्छति दिने तथा श्राद्धास्तत्तत्पुरनगरतस्तस्य निकटे । समाजग्मुर्भक्त्या निजनिजपुरं नेतुमचिरादमुं विद्यावाचस्पतिमनुपमब्रह्मसदनम् ॥ ३२ ॥ सवर्द्ध मानं यत्पुरवरमनन्यार्थघटनात् स्वनाम स्वीचक्रे जगति ननु सौराष्ट्रविषये । पुरं तत्तद्वास्यप्रमितवणिजामाग्रहवशाज्जगामाऽसौ धर्मोन्नतिकृतिपरो नेमिविजयः ॥ ३३ ॥ तदीयप्रौढोक्त्या विविधनयसाम्राज्यभृतया सरस्वत्या साक्षादिव कलितर्मूल्ऽभिनवया । मुदं प्रापुः श्राद्धाः किमपि मनुजा लभ्यमसमं त्वमान्तो व्याख्यानालयविततमध्ये समुदिताः ॥ ३४ ॥
शासनसम्राड्-विशेषः
३७
Page #45
--------------------------------------------------------------------------
________________
स चाऽऽगात् तत्पार्थे दिनकरकृती व्याकृतिचणोअपठत् तस्मान्नेमिः मुनिरथ च शाब्दी सुविमलाम् । सकाले व्याख्यानं दददपि निजाधीतमखिलं नवीकुर्वलव्यं त्वपठदपि सङ्घार्थप्रवणः ॥ ३५ ॥ य एकस्मिन् कस्मिन्नपि सुकृतयोगाच्च दिवसे तदीयं व्याख्यानं श्रुतियुगपुटेऽधात् कथमपि । स किं श्रुत्वाऽन्येषां कलितवचनाडम्बरमहो गतार्थं व्याख्यानं तदनु मुदमापाऽर्थरसिकः ॥ ३६ ॥ स तस्मिन्नेवाऽब्दे गुरुचरणपूजैकधिषणं नियोज्याऽर्हद्दीक्षां भवजलधिपाराप्तितरणिम् । मुनिश्चक्रे शिष्यं विमलकुलजातं च वणिजं यमाचख्यौ नाम्ना विनतमिह सौभाग्यविजयम् ॥ ३७ ॥ अथैकः कस्मैचिन्मुनिरनिपुणो यौक्तिकगतौ ददौ दीक्षां जैनी सममतिभिरन्यैः समुदितः । तदीयास्तं नव्यं नृपपुरुषसङ्घस्य बलतो गृहे नेतुं चक्रुर्मुनिनिकटमागत्य कलहम् ॥ ३८ ॥ भयात् तेभ्योऽशक्तानवितुमवगत्याऽथ च मुनीन् नवं तान्नीतिज्ञो मुनिरयमवस्थाप्य निकटे । प्रतापस्याऽऽवासो विदितनृपनीत्याशयततिहतोत्साहान् श्राद्धान् द्रुतमुपगताँस्ताँश्च विदधे ॥ ३९ ॥ समीपे सम्प्राप्तं नृपपुरुषमुद्दामधिषणं कुटुम्बेभ्यो दातुं कृतदृढप्रतिज्ञं नवमुनिम् । तथाऽपृच्छद् वाग्मी ह्यधिकृतविधायी मुनिरसौ यथा मूकीभावास्पदमतनुमानं तमकरोत् ॥ ४० ॥ अधूष्यं तं मत्वा मुनिवरमभीतं नयपटुं स तुष्टावाऽत्यर्थं नृपपुरुष आतङ्ककलितः । कुटुम्बानां तस्य त्वपनयनचर्चाऽपि विगता । सुजाता तं नन्तुं मतिरमिततापं श्रितदयम् ॥ ४१ ॥
३८
शासनसम्राड्-विशेषः
Page #46
--------------------------------------------------------------------------
________________
स इत्थं साधूनां निजशरणगानां मुनिवरः प्रकुर्वन् संरक्षां जिनमतमखण्डं विशदयन् । रुचिं तत्रत्यानां प्रतिदिनमनूनां श्रुतचये दृढीकुर्वंस्तस्थौ मुनिगणवृतस्तत्र नगरे ॥ ४२ ॥ बभौ चातुर्मास्यं सुकृतनिचयैस्तेन मुनिना प्रबोधं प्राप्तानां श्रुतचितवचोभिः पुरवरे । न चाऽभूदन्योन्यं कलहघटनासङ्घनिचये परा प्रीतिर्जाता परमपरवर्षानधिगता ॥ ४३ ॥ स विद्योन्नत्यै तानथ वसुमतः श्राद्धतिलकान् सुविद्याप्रेमात्तान् हितमितवचोभिः समकरोत् । कृता विद्याशाला शिशुजनविबोधाय प्रथिता समक्षं तस्यैवाऽनुपथि गुणभक्तैः प्रमुदितैः ॥ ४४ ॥ स कोऽप्यासीन्नाऽस्यां पुरि तदुपदेशात्तमतिको जनो यस्तद्भक्त्या विफलहृदयः स्यात् कथमपि । चतुर्मासीपूर्ती परपुरजनोद्धारधिषणं मुनिं तं ते द्रष्टुं निजपुरि सदैच्छन् कृतधियः ॥ ४५ ॥ स नेमिस्तान् श्राद्धान् स्वविहरणविघ्नानिव पुरो विदित्वोपादिक्षज्जिनमतरहस्यं तु किमपि । स्वयं जैनीमाज्ञां मनसि निदधानो विहरणं चकाराऽऽप्तग्रामानुसरणविधिज्ञो मुनिवरः ॥ ४६ ॥ जगामाऽसौ यस्मिन् प्रथितमहिमो नेमिविजयः पुरे तस्मिन् श्राद्धा विविधजिनपूजां विदधिरे । समन्ताद् वात्सल्यं तदहरजनिष्ट प्रमुदितैः बभासे स ग्रामोऽभिनवजनताव्याप्तसरणिः ॥ ४७ ॥ गृहं व्याख्यानस्याऽतिविततमपि श्रोतृनिकरैः समाच्छन्नाभोगं तदुपगमनेऽजायत भूशम् । परं चित्रं तत्राऽप्यखिलजनसुश्राव्यमभवद् यदुच्चैाख्यानं सकलमभितस्तस्य कृतिनः ॥ ४८ ॥
शासनसम्राड्-विशेषः
३९
Page #47
--------------------------------------------------------------------------
________________
यदा प्रश्नं व्यास्थत् स्वपरमुनिगर्वप्रकटनात् तदा सभ्यास्तथ्यं परमतमसम्बाधमविदन् । यदा दौस्थ्यं तस्योत्तरदलपर: सोऽप्रकटयत् तदाऽसत्यं पूर्वं सकलमविदन् किं न कृतिनः ? ॥ ४९ ॥ न तस्य व्याख्याने किमपि वचनीयं समभवत् न किञ्चित् प्रष्टव्यं त्वप्रकटितसमाधानमभवत् । अतो नो श्रोतॄणामविहतमतीनामपि तदाअवकाशः प्रश्नानां कथमपि बभूवाउनुपधितः ॥ ५० ॥ यदा प्रष्टाऽज्ञानादथ च विमतेर्वाऽधिकतरप्रबोधायाऽप्राक्षीद् गहन विषयं तं मुनिवरम् । तदा पृष्टो नेमिः श्रुतनयसमुल्लासवचनैस्तथा व्यास्थत् प्रष्टा चरणविनतोऽजायत यथा ॥ ५१ ॥ इत्थं जनानां मुदमाततान व्याख्यानतो नेमिरपेतदोषः । कीर्तिस्तदीयाऽप्रतिघा जगत्सु जहास चन्द्रं प्रथिताङ्कदोषम् ॥ ५२ ॥
इति पञ्चमः सर्गः ॥
७
.
शासनसम्राड्-विशेषः
Page #48
--------------------------------------------------------------------------
________________
कमारत
I IIIIIIIIIIMIRE
REE
अथ षष्ठः सर्गः.
(शार्दूलविक्रीडितं छन्दः) येन त्यक्तमकण्टकं नृपपदं साम्राज्यधामास्पदं मोहाद्याः क्षपिता निसर्गविषमोल्लासाः समूलं द्विषः । सोढाडसह्यप्रभूतदुःखघटना प्राकर्मबीजोगवा वीरःसोऽक्षयधामगोऽवतु सदा विजौघतो वो विभुः ॥ १ ॥ श्रीनेमिर्विहरन् कुकर्मनिचयोच्छेदाय तत्तत्पुरे श्राद्धानां जिनमन्दिरादिसुकृतान्येभिस्तथोल्लासयन् । कुर्वन् जैनमतप्रचारममलं तैस्तैरुपायैरथो भव्यानामुदयाय राजनगस्थानां बभूवोन्मुखः ॥२॥ तं नेमि मुनिराजिराजितमतिपोद्दामधामालयं विश्वासैकपदं सदार्थमननावृत्त्यात्तशास्त्रोच्चयम् । आनेतुं पुरवर्यराजनगरं तद्वासिनः श्रावका भूयांसः कृतबुद्धयस्त्वभिययुस्तत्पादपूतं पुरम् ॥ ३ ॥ तेषामाग्रहतोऽतिभक्तिरचितादिष्टार्थभूमान्वयादेकान्ताप्रतिपत्त्ययोग्यविषयात् सङ्घोदयाधिष्ठितात् । स्वीचक्रे स मुनिनिसर्गकरुणाम्भोधिः परार्थोदयस्तत्र स्वागमनं नु राजनगरे सद्भावनाप्रेरितः ॥ ४ ॥ श्रीनेमेस्तु पुरप्रवेशसमये सर्व प्रशस्तोदया भाव्यार्थप्रचयानुसारिगतयः किं नो बभूवुर्ग्रहाः । आयत्यां कथमन्यथा तदुदितेष्टार्थप्रसिद्ध्यग्रिमोपायेनाऽव्यभिचारिणा शुभततिः स भविष्यत् परम् ॥ ५ ॥ नाऽऽसंस्तत्र मुनीश्वरा न बहवः स्वभ्यस्तशास्त्रोच्चया योगाराधनतत्पराः प्रतिदिनं व्याख्यानबद्धादराः । किन्त्वरयाऽरखलितार्थसङ्गतिमितप्रव्यक्त भावोल्लसव्याख्यानेन तदेक भक्तिमनसो जाताः रेऽप्यार्थिकाः ॥ ६ ॥
.
शासनसम्राड्-विशेषः
४१
Page #49
--------------------------------------------------------------------------
________________
यत्तत्त्वार्थमतिप्रभूतविषयं गूढार्थसूत्रोच्वयं सद्व्याख्यागमितार्थभाष्यकलितं सैद्धान्तिकैराश्रितम् । तद् व्यास्थन्मुनिपुङ्गवोऽतिमहितव्याख्यानशैल्या कृती व्याख्याने प्रतिवासरं सुनियते काले जनैर्थितः ॥ ७ ॥ श्रोतारोऽप्यमितार्थशास्त्रनिचयैदम्पर्यधीशालिनो नित्यं तत्र समाययुर्नवनवोद्बोधाशयाकर्षिताः । दुर्भेद्यं निजमानसैकनिलयं संशीतिवृन्दं जहुयाख्यानश्रवणेन तस्य कृतिनस्ते च स्वयं यौक्तिकाः ॥ ८ ॥ येषां नाऽर्थगतौ विवेकचतुरा प्रज्ञा श्रुतालम्बिनी भक्तिश्वाऽर्थनिसर्गतो जिनमतेऽभूदद्वितीयाऽभितः । तेषां धर्मकथाभिरेष विबुधो व्याख्यानशैल्याउनयद् बुद्धिं धर्मपथप्रवृत्तिचतुरां सत्कर्मणां भूतये ॥ ९ ॥ प्राग्वाटेति प्रथां गतोऽत्र वणिजां वंशो विभूत्युज्ज्वलः तत्र श्रीभगुभाइनामविदितोऽभूद् धर्मरक्तो वणिक् । पुत्रस्तस्य प्रतापकीर्तिनिलयः प्रज्ञावतामग्रणीः श्राद्धानां च शिरोमणिर्मनसुखेत्याख्योऽभवद् धार्मिकः ॥ १० ॥ येनाऽकारि निसर्गतो जिनमतश्रद्धाप्तितो भूतले तत्तत्तीर्थवरेषु यात्रिकसुखाप्त्यै धर्मशालोच्चयः । नीतं येन नवीनचैत्यकरणात् प्राचां तथोद्धारतो बिम्बानां सुप्रतिष्ठितेश्च परमं साफल्यमर्थव्यये ॥ ११ ॥ श्रेष्ठी सोऽप्यतिरागवान् प्रतिदिनं तत्राऽऽजगामोत्सुको व्याख्याने मुनिराजनेमिविजयोक्त्युद्दामधामालये । तत्त्वार्थार्थविचारणां सुविमलां श्रुत्वाऽवधानान्मुहुस्तत्पाण्डित्यचमत्कृतः स नितरां तस्यैकभक्तोऽभवत् ॥ १२ ॥ प्रेम्णां सद्म बभूव सोऽपि कृतिनस्तस्याऽद्वितीयं मुनेनों दीर्घस्तु व्यपेक्ष्यतेऽत्र समयोऽपेक्ष्यस्तु काम्यो गुणः । एक: साधुगुणालिभावितमना अन्यो गुणज्ञस्तरां योग्या सा गुरुशिष्यभावघटना केषां न मोदास्पदम्? ॥ १३ ॥
४२
शासनसम्राड्-विशेषः
Page #50
--------------------------------------------------------------------------
________________
येनाऽनल्पवसुव्ययेन महिते तीर्थेऽभित: कारिता बढ्यो भव्यजनौघविश्रमभुवस्ता धर्मशाला वराः । येनाडकारि जिनालयोऽतिविपुल: शोभाद्वितीयालयो लोकानां नयनद्वयाद्भुतफलं सत्कौशलं शिल्पिनाम् ॥ १४ ॥ नीता येनतरां सुपात्रनिचये दानेन वृद्धिं रमा नार्थी कोऽपि कदापि काङ्क्षितधनादानात् कद कृतः । दुर्भिक्षेषु धनव्ययो न गणितः सर्वेषु वर्णेष्वपि प्राप्तं येन यशो निशाकरसमं गीतं समस्तैर्जनैः ॥ १५ ॥ सङ्घस्तम्भनिभः स धर्मनिलयः श्रीकेशरीसिंहजी हट्ठीसिंहसुपुण्यनामप्रथितोऽभूदोसवालेऽन्वये । तत्पुत्रो नृपराजिमित्रमभवत् सङ्गीतरागाम्बुधिः श्रेष्ठी श्रीजयसिंहनामविदितः सङ्ग्रेडग्रणीर्धार्मिकः ॥ १६ ॥ सोऽप्यस्याउनुपमार्थयुक्तिमहिताभीष्टोपदेशारपदाद् व्याख्यानादमितप्रमोदकलितो जातः श्रुतान्नित्यशः । भक्तिस्तस्य मुनौ तु नेमिविजये तरिमन् प्रशस्तोदया जाता तत्परिवार एव निखिलो भक्तो बभूवोज्ज्वलः ॥ १७ ॥ यो नित्यं जिनपूजया निजजनुस्साफल्यमासादयद् धर्म यस्य मतिः सदैव विमला गङ्गाम्बयोत्तम्भिता । स श्रेष्ठी दलपत्यभिख्यतनुजो भूषौसवालान्वये श्रीलालाभिध एतदीयचरणोपास्त्येकलीनो वणिक् ॥ १८ ॥ अन्ये धर्मधुरन्धराश्च नगरश्रेष्ठ्यादयो विश्रुताः श्रुत्वैवाऽस्य मुनेनिसर्गमधुरां सद्देशनाभारतीम् । जाताः किं न तदीयसङ्गतिविधौ नित्यं समुल्लासतः सन्मत्रस्पृहया विभूत्यभिमुखा बद्धोद्यमा धीधनाः ॥ १९ ॥ श्रोता तत्त्वकदम्बकस्य नगरे तस्मिन्न सोऽभूत् सुधीयस्तत्त्वार्थविचारतोऽस्य नितरां नाऽऽनन्दमग्नोऽभवत् । एवं सङ्घसमष्टिचित्तगृहगो नेमिः प्रसिद्धिं परामेकेनापि च वत्सरेण स मुनिस्तत्राऽवगाहे पुरे ॥ २० ॥
शासनसम्राड्-विशेषः
४३
Page #51
--------------------------------------------------------------------------
________________
इत्थं धर्मविवृद्धये प्रतिदिनं सद्देशनामत्यजन् प्रज्ञावान् स मुनिर्न जात्वपि जहौ स्वाभ्यासमंशादपि । तत्तद्व्याकरणातिकष्टविषयाभ्यासे प्रदत्तावधौ यः स्वीयां निरुपध्य पूरयदथो सन्धामवन्ध्यां तदा ॥ २१ ॥ साऽपूर्वा रचनाऽप्यभीष्टघटना श्रीपञ्चतीर्थ्यास्तदा श्राद्धैर्धर्मधनैरकारि महिता तद्देशनानोदितैः । यां दृष्ट्वा प्रतिबिम्बितामिव पुर: किं पञ्चतीर्थी जनाः साक्षाद् दृष्टिगतां न चक्रुरमितानन्दोलसन्मानसाः ॥ २२ ॥ चातुर्मास्यमनामयं तदखिलं पुण्यौघविस्फूर्जितं श्राद्धानां मुनिशेखरस्य चरितैः पूर्ति जगामोज्ज्वलैः । यत्राउनल्पव्रतानुरञ्जिततरा पर्युषणाष्टाह्निका व्याख्यानोल्लसिता बभौ सुकृतिनां संवत्सरी राजिता ॥ २३ ॥ कञ्चित् कालमगण्यपुण्यविभत्रैस्तैः श्रावकैर्भक्तितः चातुर्मास्यप्रपूरणेऽपि स मुनिस्तस्थौ भृशं कर्षितः । आचारं परिभावयन् स च पुनः स्वीयं पुरीतस्ततः श्रीनेमिर्विजहार साधुचरणोपास्त्येकचित्तो द्रुतम् ॥ २४ ॥ यं यं ग्राममलञ्चकार विहरन्नेमिर्गुणाम्भोनिधिजैनप्राज्यमतप्रचारनिपुणश्चारित्रचूडामणिः । तत्तद्ग्रामनिवासिनो निरुपमार्हदक्तिनिष्ठां गताः तद्वाचा विदधुः परस्परमतिप्रेम्णा सुपुण्यावलीम् ॥ २५ ॥ तद्वाक्यं न तिरश्चकार जनता यदिन्नरुच्या मिथो यच्च प्राज्यप्रभावमेनमभितस्तुष्टाव तैस्तैर्गुणैः । तत् सर्वं ननु तस्य वामनयनावैमुख्यमभ्यस्यतो जन्मारभ्य निसर्गतस्त्रिकरणैरापुण्यविस्फूर्जितम् ॥ २६ ॥ श्रीचिन्तामणिपार्श्वनाथमहिमोद्गीतप्रभावं वरं यत्तीर्थोत्तमतामवाप्य जगति प्रद्योतते पावनम् । मवाराधनतश्च यत्र बहवः प्राञ्चो मुनीशा विभो सिद्धार्थाः किमु नो बभूवुरमिति(त?)ज्ञानर्द्धयो विश्रुताः ॥ २७ ॥
४४
शासनसम्राड्-विशेषः
Page #52
--------------------------------------------------------------------------
________________
चौलुक्यं नृपतिं ररक्ष सभयं श्रीहेमचन्द्रो मुनिः सिद्धार्थान्नृपतेश्च यत्र नगरे तीर्थोत्तमे युक्तितः । श्रीमान् वाचकराड् यशोविजयवाक् ख्यातोऽमितज्ञानभृद् यत्रौन्नत्यमरं द्विलक्षप्रमितापूर्वं कृतेराप्तवान् ( ? ) ॥ २८ ॥ श्राद्धानामतिभक्तिलम्भितसमुल्लासाग्रहादान्तराद् रागाच्चाऽतुलपार्श्वमूर्त्तिविषयादाकर्षितोऽसौ मुनिः । अर्हद्धर्मसुसज्जसम्प्रतिनृपादेशोपजातानघा
नल्पार्हत्प्रतिमालयं पुरवरं तं स्तम्भतीर्थं ययौ ॥ २९ ॥ तत्पार्श्वं समलञ्चकार मतिमान्नानन्दनामा मुनिबुद्ध्या सागरगच्छमच्छमतनोद् यो बालभावेऽप्यरम् । उद्वाह्याऽपि सुसुन्दरीं कुलभवां यः कामवामो ललौ दीक्षामात्मविनोदिनीं मुनिवराच्छ्रीमज्झवेराभिधात् ॥ ३० ॥ तस्मिन्नागमबोधसद्मनि मुनौ प्रह्वे समुत्तरां न्यायस्याऽध्ययने सुतत्त्वमननैकान्तावबद्धस्पृहे । योग्यत्वावगतेर्निसर्ग करुणाम्भोधिः स नेमिः परं
प्रेमाकल्पितकं ततान मुनिराड् वीतस्पृहाग्र्योऽपि सन् ॥ ३१ ॥ श्रीमालान्वयप्रेमचन्द्रतनुजः सङ्घावतंसोऽवधेर्धर्मोद्योतकृदग्रणीरमरचन्द्राख्योऽभवत् तत्पुरे । नित्यं योऽतुलभक्तिभावितमनाः कृत्वा प्रभातक्रियां श्रीचिन्तामणिपार्श्वनाथप्रतिमां दृष्ट्वा ननामाऽऽर्हतः ॥ ३२ ॥ योsवन्दिष्ट मुनीन् स्वधर्मनिरतान्नित्यं प्रसन्नाशयो यः साधून् प्रतिलाभ्य भक्ति भरतोऽभुक्ताऽवशिष्टं सदा । व्याख्यानं मुनिराजनेमिविजयस्योद्गच्छदच्छान्वयं श्रुत्वाऽऽनन्दनिमग्न आदरभरैः सोऽपूजयत् तं मुनिम् ॥ ३३ ॥ पञ्चाऽप्यस्य वणिग्वरस्य तनयाः धर्मैकलीना बभुस्तेष्वप्यग्रतनूद्भवोऽमितगुणः श्रीपोपटाख्योऽभवत् । भक्तः सोऽतितरां बभूव विदुषो नेमेर्गुणाकर्षितः सङ्घस्तम्भनिभः सुधार्मिक जनप्रोत्साहनैकान्तभूः ॥ ३४ ॥
शासनसम्राड्- विशेष:
४५
Page #53
--------------------------------------------------------------------------
________________
तत्पुत्रः पुरुषोत्तमेति प्रथितो वप्तुर्गुणैराश्रितो बुद्ध्या निर्मलया परोपकरणे नित्यं बभूवोद्यतः । वाणिज्येऽप्रतिघा मतिः फलवती धार्थबुद्ध्युन्मुखा यस्याऽभूत् कुशला कुधर्मविमुखा सौजन्यसम्भ्राजिता ॥ ३५ ॥ प्राप्तं येन पुरेऽखिलैरपि जनैरात्मीयतामागतैरौदार्यादिगुणप्रकर्षबलतः पूर्णेन्दुतुल्यं यशः । नीताऽत्यन्तलयं कुमार्गरचना विद्वेषिणां सर्वतो याथार्थ्यं निजनाम्नि येन गमितं तैस्तैर्विशेषैः स्वतः ॥ ३६ ॥ सोऽप्येनं मुनिवर्यमर्चितपदं श्राद्धैः सदैवाऽभितः भक्त्यैकान्तगुरुत्वबुद्धियुतयाऽसेविष्ट नित्यं गुणी । तस्मिन् धर्मपरायणे विनयिनामग्रेसरेऽकल्मषे श्रीनेमेरपि प्रेमवृद्धिमभजत स्वीयत्वबुद्ध्या न किम् ? ॥ ३७ ॥ निस्सङ्गोऽपि मुनिस्तदीयचरितैर्धर्माद्वितीयास्पदैरक्षुदैश्च तुतोष तं प्रति कृती तद्भक्तिसङ्कर्षितः । धर्मे चित्तमतीव युक्तिनिकरैर्दृष्टान्तव्युज्जृम्भितैलग्नं तस्य दृढं चकार किमु नो सद्देशनापण्डितः ? ॥ ३८ ॥ सङ्के तत्र पुरेऽतिभक्तिपदवीं नीतो जिनार्चादिके सत्कर्मण्युपदेशतः प्रतिदिनं श्रीनेमिनामा मुनिः । व्याकृत्यादिविवेचनावगतये वाराणसीतः पुराद् विद्वांसौ ननु तर्कशब्दकुशलावानीतवान् धीधनौ ॥ ३९ ॥ . श्रीमान् चन्द्रधराभिधो द्विजवरो विद्यावतामग्रणीस्तत्रैकोऽमलशब्दसाधनविधौ सलक्षणादेः पटुः । यस्याऽऽसीन्ननु भारती सुपठिता कण्ठावतंसोत्तमा यस्याऽध्यापनचातुरी निरुपमा नैसर्गिकीवाऽभवत् ॥ ४० ॥ श्रीमान् केशवसज्ञकोऽक्षिचरणस्यैवाऽवतारोऽपरो झोपाह्वः कवितावितानघटनानैपुण्यभाग मैथिलः । शास्त्रेष्वप्रतिघा विवेकनिपुणा बुद्धिर्यदीयाडमला साहित्यावगतिश्च काव्यनिचयैदम्पर्यप्रोद्घाटिनी ॥ ४१ ॥
४६
शासनसम्राड्-विशेषः
Page #54
--------------------------------------------------------------------------
________________
ताभ्यां सार्द्धमनन्ययोजितमनाः शास्त्रेषु लीनोऽभव
छ्रीनेमिर्मुनिराडकुण्ठधिषणस्त्यक्तप्रमादः सदा । पूर्वाध्यापकमादिशद् दिनकर व्याकृत्यनन्योपमं छात्राध्यापनकर्मणा स्वनिकटे संयोजयन् पण्डितम् ॥ ४२ ॥ आनन्दाम्बुधिमप्यमन्दधिषणं मुक्तावलीमात्मसात् कर्तुं सोऽध्ययने दिदेश समयस्याऽऽलोचने चाऽन्वहम् । शिष्यं श्रीसुमतिं त्वपाठदयं चारित्रचूडामणिं व्याख्यानं प्रतिवासरं सुनियते काले ददौ चोज्ज्वलम् ॥ ४३ ॥ इत्थं सोऽब्धिशराचन्द्रप्रमितं (१९५४) संवत्सरं तत्पुरे चातुर्मास्यसुखप्रपूर्तिसुभगं निन्ये त्वतीतास्पदम् । नव्यं बाणशराचन्द्रप्रमिते (१९५५) संवत्सरे श्रेष्ठिनं कूत्वा सङ्घपतिं चचाल मुनिराट् सिद्धाचलं सङ्घयुक् ॥ ४४ ॥ सङ्कः सोऽतितरां बभौ च मुनिना प्रज्ञावताडलङ्कृतः तेनाऽऽनन्दयुजा तथा प्रमुदितेनेशेन विद्योतितः । यात्रालालसमानसैरप्रमितैर्वृद्धिं परां गाहितो मार्गायातपुरेषु मोदकमुखैर्वात्सल्यतोऽभूद् युतः ॥ ४५ ॥ आयातं निकषा पुरं मुनिवरं तं सङ्घविभ्राजितं श्राद्धास्तत्पुरवासिनः समुदिता आनचुरत्यादरात् । आमव्याखिलसङ्घमेव सपतिं स्वस्वप्रभूत्या मुहुत्सिल्यं विदधुः परस्परसमुत्कर्षस्ततः कोऽप्यभूत् ॥ ४६ ॥ यं यं ग्राममगादख्खण्डयशसा साकं मुनीशेन तत् सोऽनल्पवसुव्ययेन विधिना पत्या समुद्दीपितः । सर्वस्मिन् ननु तत्र कीर्तिरनघा धर्मप्रवृत्त्योज्वला जीर्णोद्धारमुखाग्र्यकृत्यनिचयारम्भाद् दिदीपे तदा ॥ ४७ ॥ साकं सोऽमरचन्द्रसङ्घपतिना तत्पुत्रपौत्रादियुक् सङ्घः सिद्धगिरिं जगाम मुनिना तेनातिभूमिं गतः । तत्राउनल्पवसुव्ययो न गणितः साधर्मिकाद्यर्चने तेनाऽकृत्रिमभक्तिभूषितहृदा सङ्घाधिपेनाऽभितः ॥ ४८ ॥
शासनसम्राड्-विशेषः
४७
Page #55
--------------------------------------------------------------------------
________________
अर्चा तत्र जिनेशितां शुभयुजा सङ्ग्रेन पत्या समं भक्त्या या रचिता प्रभूतकुसुमाद्यन्यूनभङ्गोज्ज्वला । सा शक्या गुरुणाऽपि किं दिविषदां व्यावर्णितुं तत्त्वतो वर्षेरप्यमितैरमेयवचनैरेकान्ततो वृत्तिभिः ॥ ४९ ॥ सप्तक्षेत्र्यपि तेन योग्यवसुतः सङ्घाधिपेनाऽऽदराद् नीता पूर्तिमितीव तस्य च मुनेः सद्देशनैकार्थिनाम् । तत्रोन्नीतमकल्मषं निरुपमं यद्धर्मविभ्राजितं पत्युः सङ्घसमष्टिभक्तिलसितं तत् कैर्यशो वर्ण्यताम् ? ॥ ५० ॥ यात्रामिष्टततिप्रदानकुशलां सिद्धाचले कामितां कृत्वाऽपुण्यचयापचित्यभिमुखां सद्भाग्यलभ्यां वराम् । सङ्घस्तेन जिनागमैकमतिना धर्मावनीभूभृता साकं तत्पुरमाजगाम मुनिनां पत्या च निर्विघ्नतः ॥ ५१ ॥ तत्राऽसौ मुनिराट् निसर्गगरिमाम्भोधेः प्रतापास्पदं भ्रातुः पोपटसञ्जकस्य सदयोऽत्यन्ताग्रहात् सादरात् । सङ्घस्याऽमितभक्तितोऽप्यतितरामभ्यर्थनातो मुहुः स्वीचक्रे पुनरप्यवस्थितिमितोऽभ्यासप्रवृत्तिं स्वतः ॥ ५२ ॥ शिक्षावल्लभ एष तत्र विबुधो नित्योद्यतो भूतये बालानां पठनाय शास्त्रविततेरध्यापकान वेतनैः । विद्यासद्मनि नूतनेऽथ नियतैरस्थापयच्छ्रेष्ठिना श्राद्धेनाऽमरचन्द्रसङ्घपतिनोदाराशयेनाऽर्थितः ॥ ५३ ॥ छात्रास्तत्र समभ्यसन् गुरुकृपामासाद्य मोदाञ्चिता हैमव्याकरणादिशास्त्रमनिशं योग्यां स्थितिं लक्षिताः । शब्दव्याकृतिपण्डितो दिनकरो लब्धप्रतिष्ठो द्विजः तत्राऽध्यापयति स्म तेन मुनिना संयोजितो वृत्तितः ॥ ५४ ॥ तत्राऽकुण्ठमतिः पपाठ सततं तेनाऽनुनीतो भृशं कस्तूरात्मजनिर्वरो दलसुखश्चन्द्रप्रभा वाक्पटुः । यः प्रेम्णां पुरुषोत्तमस्य भवनं भ्रातुर्गुणैर्निर्मलैः यस्मिन् सोऽपि मुनिर्बभूव किमु नो योग्यत्वसम्पादकः ? ॥ ५५ ॥
-
४८
शासनसम्राड्-विशेषः
Page #56
--------------------------------------------------------------------------
________________
यः सिद्धान्तरहस्यबोधविकलोऽभूत् पायचन्द्राभिधो नव्यं मार्गमकल्पयज्जिनमतेऽगीतार्थतालिङ्गितः । तत्पुष्टिप्रवणः कदाग्रहपरोऽभूद् भ्रातृचन्द्राभिधः सङ्ग्रोत्क्रान्तजनानुरञ्जितपदो वामप्रवृत्तिः सताम् ॥ ५६ ॥ शास्त्रार्थाय तमाजुहाव मुनिराट् नेमिः स तस्मिन् पुरे तन्मिथ्यात्वविधूननं सुजनतामध्ये विधातुं कृती । विद्यादृष्टिबहिष्कृतः समयतः शास्त्रार्थमार्गातिगो लेख्यैरेव तु मुद्रितैः प्रलपितान् प्राकट्यमानीतवान् ॥ ५७ ॥ तत्राऽप्येनमसौ मुनिः सुकुशलः तैस्तैस्तु लेख्यैर्वरैः युक्तिव्रातसमन्वितैः समकरोद्दुः श्लोकभाक्त्वं जने । एवं धर्मविवृद्धये मुनिवरो नित्योद्यतोऽप्यन्वहं
व्याख्यानं च ददन् न जात्वपि जहाँ स्वाध्यायमभ्यासयुक् ॥ ५८ ॥ तत्र स्तम्भनपार्श्वनाथप्रतिमा याऽलौकिकी विश्रुता तस्याः साङ्गविधेः प्रतिष्ठितिमसौ नेमिर्मुहूर्ते वरे । श्राद्धेनाऽमरचन्द्रसङ्ख्पतिना यां कारयामास तां साक्षाद् दर्शनतोऽप्यलौकिकविधां व्यावर्णितुं कः क्षमः ? ॥ ५९ ॥ तां द्रष्टुं बहवोऽमिलन् पुरवरे श्राद्धास्तदामन्त्रिताः श्रीमन्नेमिमुनीश्वरोक्तिविहितां साङ्गां शुभैकावहाम् । शांतिनात्रमभूत् प्रशंसिततरं त्वष्टाह्निकाद्युत्सवव्रातभ्राजितमङ्गलैकनिलयं सङ्ग्रामितानन्ददम् ॥ ६० ॥ यो हर्मनुजयको ब्युपाह्वविदितो गीर्वाणभाषाचणः ख्यातश्चाऽऽङ्गलपण्डितेषु सततं शास्त्रव्रजालोचकः । अज्ञानात् प्रकटीचकार किल सोऽप्येवं जिनस्याऽऽगमे मत्स्यादेरशनं सुसूत्रितमतो निर्दुष्टमेतन्ननु ॥ ६१ ॥ तरिमन्नाऽऽङ्गलविद्यया परिगते पाश्चात्यदेशोद्भवे ज्ञानं दर्शनतत्त्वगं कथमपि प्राप्तं स्वतोऽभ्यासतः । पाण्डित्यं परमं प्रकारनवकान् कुज्ञानदग्धान् जडानासाद्याऽऽदरणीयवाक्त्वमसमं मा बोधयेदित्यतः ॥ ६२ ॥
शासनसम्राड्-विशेष:
४९
Page #57
--------------------------------------------------------------------------
________________
श्रीनेमिर्मुनिराट् सुखाब्धिमुनिना स्वभ्यासमासेदुषा सूत्रार्थं सुविचार्य सूत्तरमदाद् ग्रन्थात्मना निर्मितिम् । मीमांसेत्यभिधानमुत्तरवरे सोऽस्थापयद् धीधनो ह्यन्वर्थं परिहारपूर्वक मतिप्रौढोक्ति सम्भूषिते ॥ ६३ ॥ ग्रन्थे तत्र यदुक्तिगुम्फनमतिस्फीतं सुगद्याञ्चितं युक्तिव्रातविभूषितं परगताज्ञानप्रकाशोल्बणम् । तन्मात्रादपि तस्य किं न कृतिनः पाण्डित्यमत्युज्ज्वलं शैल्या लक्षितमान्तरं कृतिविदाऽभिज्ञेन नूनं स्वतः ॥ ६४ ॥ सर्वप्राणिषु सर्वदा त्रिकरणैर्हिंसानिवृत्तिर्व्रतं
येषां प्राणिदयैकलीनमनसां मुख्यं श्रुते गीयते । तेषां श्रीजिनपद्धती विचरतां मत्स्यादिमांसाशनं सम्भाव्येत कथं सुसूत्रितमिति स्पष्टीकृतं तूत्तरे ॥ ६५ ॥ औषध्यन्तरवाचिका ननु पुनर्मत्स्येतिसञ्ज्ञा श्रुता सूत्रे लिङ्गविपर्ययस्तु बहुधा किं प्राकृते नो मतः । टीकायां ननु बाह्यभोगपरता स्पष्टं भुजेर्दर्शिता । तद्धर्मन्जयकोब्युदीरितमसत् तत्रेति निष्टङ्कितम् ॥ ६६ ॥ ग्रन्थं मुद्रितमागतं स्वनिकटे सद्गद्यपद्यान्वितं तं हर्मनुजयको ब्यवाचयदतिप्रेम्णा स्वपक्षोत्तरम् । बुद्ध्वा जैनरहस्यमिच्छितपदे तस्मादनर्थालयं
स्वाज्ञानं स जहाँ तदादि तमपि द्रष्टुं समुत्कोऽभवत् ॥ ६७ ॥ इत्थं धर्मधुरन्धरो मुनिवरः स्वाभ्यासकालेऽपि यत् धर्मौन्नत्यविधौ बभूव नितरां तत्तत्क्रियादीक्षितः । तेनोत्सूत्रनिरूपणैक निरता अज्ञानदग्धा जनाः नो सान्निध्यमवापुरस्य भयतो दुष्कर्मसञ्चोदिताः ॥ ६८ ॥ चातुर्मास्यमकण्टकं मुनिवर: सम्पूर्य तस्मिन् पुरे सोत्साहैः पुरुषोत्तमप्रभृतिभिर्भक्त्या भृशं सेवितः । साधोर्धर्ममवेक्ष्य चाऽऽग्रहततिं तेषां समाधाय तान् श्राद्धान् सम्प्रतिबोध्य तैरनुगताध्वो पेटलादं ययौ ॥ ६९ ॥
५०
शासनसम्राड्-विशेष:
Page #58
--------------------------------------------------------------------------
________________
छात्राः सर्वेऽपि तत्राऽध्ययनकृतिपरा आययुरतेन साकं वृन्दं चाऽध्यापकानां तदनुगतिपरं स्तम्भतीर्थाज्जगाम । इत्थं तत्रापि छात्राध्ययनमनुदिनं तत्समीपे त्वपूर्वं साहाय्यादन्त्यचन्द्रामरतनुजमणे: पोपटस्याऽभवच्च ॥ ७० ॥ श्राद्धाः सर्वेऽपि तत्स्था गुणगणनिलये तत्र विद्याम्बुराशावाजन्मब्रह्मनिष्ठे मितहितवचने किं बभूवुर्न नम्राः । माहात्म्यं तत्तदीयं निजपरिचयतोऽशेषमेवाऽऽत्मभक्तं स्तोके नाऽपीष्टसारोद्ग्रथितसुवचसा यच्चकारेष्टमिष्टम् ॥७१ ॥ जीवानां रक्षणार्थं मुनिगणमुकुटः पिञ्जरापोलनाम्ना ख्यातं चाऽस्थापयत् सोऽभितजनहितकृद्भ्रातृभिः पोपटाद्यैः । एतत्स्वाभाव्यमस्याऽपरकृतमभवत् स्वप्रचारातिपूते ग्रामे किञ्चित्त्ववश्यं सकलहितर कार्यमार्योपदेशैः ॥ ७२ ॥ तस्मादत्यन्तभक्त्या मुनिरमितदयः प्रार्थ्यमानोऽपि कामं श्राद्धैः स्थातुं स नेमिन्नु पुरवतो निर्जगामैव विज्ञः । यस्मानैतादृशानां स्थितिरमितफला धर्मवृद्धिप्रवीणा । दृष्टा केनाऽपि लोके फलप्रभवमूते दीर्घकाला निसर्गात् ॥ ७३ ॥ नव्या नव्यां स धीमान् पुरि पुरि विहरन् देशनां तत्त्वदृब्धां भव्यवाताय दत्त्वा निरुपमघटनाभाजितां भावपूर्णाम् । नेमिस्तं राजपूर्वं नगरमनुययौ षट्शराऽन्दुवर्षे (१९५६) भक्त्या श्राद्धैरनल्पैरगणितविभवैः प्रार्थमानस्तदीयैः ॥ ७४ ॥
इति षष्ठः सर्गः ॥
शासनसम्राड्-विशेषः
Page #59
--------------------------------------------------------------------------
________________
अथ सप्तमः सर्गः
(हरिणी च्छन्दः) अवतु भवतो भव्यान् वीरो निसर्गप्रभाकरो व्यपगतरिपुवातो द्वन्द्वप्रवृत्त्यविलोकितः । सुरपतिमुखैरन्यैः पूज्यैः समर्चितविग्रहो मितिनयमिलद्वाणीक्रोडीकृतार्थततिस्थितिः ॥ १ ॥ मुनिगणपतिं नेमिं श्राद्धा गुणौघविराजितं तमतिशयितं साध्वाचारैरनल्पमुनीश्वरम् । अमितसुकृतैः प्राप्तं भक्त्याउप्रवेशयदादरात् पुरवरमिति ख्यातं तैस्तैः कलाकुशलैर्नरैः ॥ २ ॥ मनसुख इति ख्यातः श्रेष्ठी तदागमहर्षितः प्रतिदिनमतिश्रद्धाप्रह्वस्तदन्तिकमाययौ । विविधविषयां व्याख्यां काले तदास्यविनिर्गतां श्रुतमनुगतां श्रुत्वाऽत्यर्थं तुतोष तदन्तिके ॥ ३ ॥ प्रगुणितमतस्तस्य श्रद्धा मुनौ गुरुभावतो हृदि नियमिताऽमान्ती लोके फलेग्रहिराबभौ । गुरुरपि मुनिनेमिः प्रेम्णा दृशा तमनन्यया सुकृतनिरतं श्राद्धं भक्तं ददर्श गुणाकरम् ॥ ४ ॥ अगणितवसुवातं धर्मे विलोक्य दिदेश तं शिशुगणहितां विद्याशालां विधातुमकल्मषाम् । व्यवहृतिविधेः शिक्षा धर्मावबोधपुरस्कृता तत इति विदन् नेमिः शिक्षाप्रचारकृतादर: ॥ ५ ॥ स च मनसुखभ्राता श्रेष्ठी तदुक्ति प्रणोदितो नियतनियमे विद्याशाले द्रुतं समकारयत् । जिनमतरतान् विद्यादक्षान् सुशिक्षणपण्डितान् नियतसमयान् तत्स्थांश्चक्रे प्रकल्पितवेतनान् ॥६॥
५२
शासनसम्राड्-विशेषः
Page #60
--------------------------------------------------------------------------
________________
बहुविषयगस्तस्मिन् वर्षे त्ववृष्टिसमुद्भवोSभवदसुमतां दुर्भिक्षाह्वोऽसुखैकनिकेतनः । मरणशरणा भिक्षालाभाद् बभूवुरनल्पशो विगतविभवा यस्मिन् सम्बन्धिनाऽप्यवधीरिताः ॥ ७ ॥ अपगतजलप्राया बीजप्ररोहविवर्जिता
तृणमपि न वै दातुं शक्ता पशुभ्य इलाऽभवत् । पतिरपि दयाहीनो दत्ते पशूनुदरम्भरिः
कुगतिगमनाभीरुर्यस्मिन् ददौ धनलाभतः ॥ ८ ॥ निजनिजकरव्यग्रा भूयात् स्वकोशसुरक्षणे धनचयपरानर्थान् दातुं क्षमा व्ययभीरवः । इति मुनिवरो नेमिस्तस्मिन् कृपाम्बुधिरार्हतान् हितमितसुधादेशोल्लासैश्चकार समुद्यतान् ॥ ९ ॥ उपचितमभूत् सद्यः श्राद्धैर्द्विलक्षमितं तदा मुनिवरसमादेशाद् रूप्यं वणिकुकुलभूषणैः । यवनकरतो गास्ताः क्रीत्वा त्वमोचयदञ्जसा समुचितधनैस्तासां रक्षापरोऽप्यभवत् पुनः ॥ १० ॥ कृतमनुपमं श्राद्धैः श्रीमन्मुनेरुपदेशतः पशुगणमहद्दुःखोद्धृत्यै व्यवस्थितिबन्धनम् । यत उदभवत् संस्था पङ्गवादिदुःखनिवारिणी जगति प्रथिता लोकैः सा पिञ्जराभिधया वरा ॥ ११ ॥ सुकुलप्रभवान् श्राद्धान् दीनानितस्तत आगतान् व्यपगतधनान् भिक्षावृत्त्योपजीवितुमक्षमान् । अमितमहिमा नेमिः श्राद्धैररक्षयदार्त्तितो वसुवितरणैर्योग्यैः स्वीयोपदेशविबोधितैः ॥ १२ ॥ अवनपरता नेमेर्याऽभूत् तदोपधिवर्जिता परमदयया जन्तौ मृत्योर्मुखादपि पालिनी । अभवदनया लोके कीर्तिर्गुणज्ञवितानिता यदि निरुपमा तत्किं कामस्तयाऽनुमितो मुनिः ॥ १३ ॥
शासनसम्राड्-विशेष:
५३
Page #61
--------------------------------------------------------------------------
________________
यदि मुनिरयं नाऽस्मिन् वर्षे पुरेऽत्र समागतः कथमपि भवेत् तत् किं जीवेद् दरिद्रगणोऽभितः । पशुगणमृतिर्भक्ष्याभावात् तदा किमु किञ्च नो इति पुरि जनाः सर्वे प्रोचुर्मुनेर्गुणरञ्जिताः ॥ १४ ॥ ग्रहगणफलं नेमेर्दृष्ट्या पुरे ननु तत्र नो जनितमिति नो ज्योतिःशास्त्रं बुधा विविदुर्मूषा । अवगतमतो नेमेर्जन्माक्षरेऽप्यथा सन्निधौ न च जनिभृतां दुःखं भावीति तथ्यफलं ह्यदः ॥ १५ ॥ गुणगणमयं नेमिं श्राद्धाः गुणग्रहलालसाः स्वत उपययुर्भक्त्या तस्मात् सुमत्रमभीप्सवः । उपकृतिवरस्तेभ्यः शिक्षां ददौ मुनिरर्थितो नवनवविधां यस्या धर्मोन्नतिः सम्भूत् परा ॥ १६ ॥ मुनिममुमतिप्रौढं प्राप्याऽर्थतत्त्वविचक्षणं नवमतरता नित्यानन्दादयोऽपि जहुर्मदम् । सुमितविषया विद्या येषां पराजयभीरवो न च मुनिममुं तेऽज्ञाः द्रष्टुं सभास्थमपि क्षमाः ॥ १७ ॥ विषयविमुखा वृत्तिर्याऽभून्मुनेश्नपायिनी भवविलसितं ज्ञात्वा सैकाऽप्यलौकिकताऽन्वया । गुरुचरणगा भक्तिर्याऽन्या धियाऽमितयाऽन्विता किमु नहि तया लोके सेव्योऽभवद् विबुधैरपि ॥ १८ ॥ जिनमतरुचिस्थैर्यात् सूत्रावलम्बिप्ररूपणात् पमतकथाकन्थादुःस्थार्थवादनिवारणात् । मुनिरयमभूत् सर्वैस्तस्मिन् पुरे गुणलालसैर्जिनवचनगैः श्राद्धैः पूज्यो विवेकविचक्षणैः ॥ १९ ॥ नवजनमनःशापुञ्ज तदिष्टप्रकारतो मुनिरमितधीमिश्छिन्दन् चिरन्तनमार्गगः । जिनमतरताँश्चक्रे नव्यान् स्वसन्निधिमागतान् निरुपधिकूपापारावारो निरस्तछलक्रियः ॥ २० ॥
शासनसम्राड्-विशेषः
Page #62
--------------------------------------------------------------------------
________________
उपकृतिपरा जैने सङ्घ समुन्नतिकारिणी विविधविषयान् मन्त्रान् सम्यग् विधातुमपि क्षमा । समितिरनघा योग्ये कालेऽथ तत्त्वविवेचिका सुमतिजनतोल्लासा तस्योल्ल्लास कृपार्थिनी ॥ २१ ॥ कृपणजनता यस्यां नैवाऽऽससाद निजस्थितिं सुकृतविषयो यस्याः सर्वात्मनाऽभवदाग्रहः । अहमहमिका यस्यां कृत्ये स्वतो जनमात्रगा परिचयमिता केषां सैषा न मोदविधायिनी ? ॥ २२ ॥ तदधिकभयान्नव्याः पत्रप्रवृत्तिपरायणाः
सुकृतविमुखं लेख्यं निन्द्यं जहुर्नवशिक्षिताः । मुनिजनवृथानिन्दावाचालताऽपि कुभाग्यजा प्रतिहतपदा तस्याः प्राज्योदये भयतोऽभवत् ॥ २३ ॥ इति दृढतरा जैन श्रद्धाप्रतिष्ठजनैः सभा मुनिवरशुभादेशोद्युक्तै रराज प्रवर्त्तिता । सुकृतनिचयोद्भूत्या सङ्घोपकृत्यतिलालसैः सुमतिमहितैर्लभ्या श्राद्धैः प्रवेश्यतया च सा ॥ २४ ॥ अथ सुकृतिनां संस्था याऽऽनन्दजीति भुवि श्रुता चरमघटना यस्याः कल्याणजीत्युपशब्दिता । अमितवसुता यस्याः सिद्धाचलादिषु यात्रिभि - वितरणबलात् सप्तक्षेत्र्यां क्रमेण विनिर्मिता ॥ २५ ॥ उपकृतिविधिः सङ्गे यस्याः प्रबन्धबलाद् वरः कुनयजनिताशाताद् रक्षा च तीर्थचये वरा । उपचितधनैः स्थाने स्थाने सुजीर्णसमुद्धतिप्रभृतिरभवद् ग्रामे ग्रामे सुकृत्यचयो यतः ॥ २६ ॥ तदुचितघटास्थित्यै पञ्चाऽपि धर्मधुरन्धरा नृपनगरगा ये सन्नीतिप्रपञ्चविशारदाः ।
जिनमतरतानल्पश्राद्धैकमत्यसमादिता वरकुलभवाः सङ्घस्येष्टाः सदोदयशालिनः ॥ २७ ॥
शासनसम्राड्-विशेषः
५५
Page #63
--------------------------------------------------------------------------
________________
स च मनसुखभ्राता तेष्वग्रणीः शुभमत्रणां मुनिवरममुं कालेऽपृच्छत् तदुन्नतिदीक्षितः । दलपतिसुतो लालभाता प्रधानपदस्थितोऽप्यनुदिनमगात् कर्तुं मत्रं तदन्तिकमादरात् ॥ २८ ॥ अवितथवचस्सीमामेवाऽऽश्रयन्मुनिराट् स तद्धितमुपदिशन् मन्त्रं ताभ्यां ददौ तमकल्मषम् । यदनुसरणादिष्टं सद्योऽभवन्निरुपद्रवं सुनयकलितं बह्वायासप्रसाध्यमपि श्रिया ॥ २९ ॥ अभिनवता संस्था साऽभूत् तदीयविचारतः सुकृतनिचये दक्षा कक्षीकृताप्तसुमत्रणा । नूपपुरुषतो यस्याः कृत्योच्चयस्य परीक्षणं फलपरिणतेरुहापोहात् कथञ्चिदजायत ॥ ३० ॥ इति मुनिवरो नेमिस्तां तां फलोच्चयशालिनीमुपकृतविधां सङ्के कुर्वन्ननर्थप्रभञ्जनीम् । नवनवमतध्वान्तोच्छेदक्रियापरिनिष्ठितोडगमयदनघं वर्षं पूर्ति तमिष्टचयाञ्चितम् ॥ ३१ ॥ अथ विहरणाकाक्षं नेमिं गुरुं मुनिपुङ्गवं स तु मनसुखभ्राता श्राद्धालिभिः सह सादरात् । स्वनगरवरे भूत्यै भूयोऽप्ययाचत साञ्जलिः स्थितिमसुलभां तत्तद्धर्मप्रवृत्तिचमत्कृतः ॥ ३२ ॥ स्थितिमनुसरन् पूर्वाचार्याक्त पद्धतिमात्रगां कथमपि मनस्तोषं तेषां विधाय मुनीश्वर: । पुरि पुरि जनामोदं कुर्वन् वचोमृतसेचनैविहरणमुपश्लोक्यं नेमिश्चकार सुधर्मवित् ॥ ३३ ॥ अथ पुरवरे कासिन्द्राख्ये स गुर्जरभूषणे सुमतिनिलयं श्राद्धं रागप्रवृत्तिविवर्जितम् । सुमतिविजयस्याऽऽद्यं शिष्यं चकार सुदीक्षया जिनमतरतं जैन्या चैकं शुभार्पितया मुनिः ॥ ३४ ॥
५६
शासनसम्राड्-विशेषः
Page #64
--------------------------------------------------------------------------
________________
व्यवहृतिपदं नाम्ना नैवाऽन्तरेण यतस्ततो नवमुनिमसौ नेमिद्धति प्रधानपदं व्यधात् । विजयचरमं तं तु स्पष्टीकृतार्थविशेषकं गुणगणसमृद्ध्यादेरन्वर्थतास्पदमाबभौ ॥ ३५ ॥ अपरमुपमातीतं बालं गुणैक निकेतनं सुकृतनिचयावासं लास्यं प्रतापनिधेर्वरम् । अभिनवपदं वाण्या देव्याः सुभाव्यमखण्डितादतनुतपसो नेमिः शिष्यं चकार यशोऽभिधम् ॥ ३६ ॥ द्विजदिनकरादेतौ नव्यौ मुनी विमलद्युती
पपठतुरतिप्रौढौ तस्याऽऽज्ञया च मुनीशितुः । सुगुरुकृपया तौ द्वौ नित्योद्यतौ पठनेऽचिरात् समियतुरतिप्रौढिं शब्दप्रयोगप्रतिष्ठितौ ॥ ३७ ॥ पुनरपि मुनिर्नेमिः सङ्ग्राग्रहात् पुरमाययौ सुकृतनिचयैस्तेषां कृष्टो नुतं कलितप्रथम् । अथ मनसुखभ्राता चिन्तामणेः स प्रतिष्ठितिं 'मुनिवरसमादेशाच्चक्रे समुत्सवपूर्वकम् ॥ ३८ ॥ गुरुवरममुं श्रेष्ठी धीमान् विचार्य विचक्षणं पुरि मनसुखभ्राता तस्यां स योगतपस्ततिम् । गुणमणिनिधिं गम्भीराख्यं सुकारयितुं गणि समयनिपुणं प्रार्थ्योल्लासात् समानयति स्म तम् ॥ ३९ ॥ ससुमतिसुखाम्भोधिं नेमिं सुधर्मप्रवर्त्तकं
विमलधिषणप्रेमप्रोद्यत्तपश्चयसम्भृतम् । विदितसमयो योगग्रामैक सेवनकर्मठो
विहितसमये योगारम्भं त्वकारयदेष सः ॥ ४० ॥ उदयति मतिर्नव्या भव्यप्रवृत्तिविधायिनी कलयति फलां यस्माच्चित्तप्रवृत्तिनिरोधिनीम् ।
अनुभवति शं स्वात्मा भिन्नं यतो मुनिरार्हतः स विधिलसितो योगस्तेषां सुमन्त्रचितोऽभवत् ॥ ४१ ॥
शासनसम्राड् - विशेष:
५७
Page #65
--------------------------------------------------------------------------
________________
क्षपयति यतः कर्मक्लिष्टं निरूढमपि क्षणात् करणपटुतां तत्तदोषक्षयालभते यतः । विहितकरणे वृत्तिं शङ्काकलविवर्जितां प्रथयति यतः सोऽयं योगस्तदाऽभवदुज्ज्वलः ॥ ४२ ॥ सविधितपसा कञ्चित् कञ्चित् सुपारणकर्मणा दिवसमनघं भिक्षावृत्त्या सुखं गमयन् मुनिः । पुरजनमनस्तोषं कुर्वन् स नेमिरभीप्सितैरथ च समये योगं चक्रे श्रुताध्ययनाञ्चितम् ॥ ४३ ॥ श्रुतसमुदितं योगं कुर्वन् गणीश्वरपार्श्वगो मुनिरगमयद् वर्यं तं च व्यतीतपदं कृती । अथ वसुशरा२न्दौ (१९५८) वर्षे स भावपुरालयं वणिजमकरोच्छिष्यं दीक्षां प्रदाय सुमङ्गलाम् ॥ ४४ ॥ स नयविजयो नाम्ना ख्यातो गुणालिविराजितः व्रतसमुदये दक्षो मासोपवासमुख्नेऽभवत् । अपठदनिशं शाब्दं शास्त्रं मुनीश्वरशिक्षयाऽप्यनुमतिमितः पित्रोर्दीक्षाग्रहे य उदारधीः ॥ ४५ ॥ सुविहिततपस्तत्रोलासैर्जनेष्वभितः कृती जिनमतरुचिं तन्वन्नीतिं सुयोगविशारदः । हितमुपदिशन् चातुर्मास्यं सुख्खन निनाय सः प्रकृतिगहनं योगं कुर्वन् तु शास्त्रविधानतः ॥ ४६ ॥ अथ मणिवणिक् छोटा धाता सुधर्मधुरन्धरो जिनमतरतो लल्लुभातुस्तनूद्व आदरात् । सुकृतनिचयैर्यात्रां सिद्धाचलस्य विधित्सया मुनिवरममुं सङ्के गन्तुं चकार सुप्रार्थनाम् ॥ ४७ ॥ मुनिरपि निजानपेष्टार्थोपदेशप्रतिश्रुतेरभिमुखमुपक्रान्ते कार्ये निरीक्ष्य तमर्थिनम् । गुणगणभृता साकं गम्भीरसञ्जमुनीशिताउभ्युपगतिवचोदानाच्चक्रे प्रमोदसुतुन्दिलम् ॥ ४८ ॥
शासनसम्राड्-विशेषः
Page #66
--------------------------------------------------------------------------
________________
अथ शुभतरे लग्ने सङ्घश्चचाल गिरीश्वरं विधिमनुसरन् पूर्वाचार्यप्रवर्तितमादरात् । प्रतिपुरमुपश्लोक्यैः सङ्घार्थनापरिपालनरनुपमजनश्लाघाक्रान्तो बभौ पथि सोऽद्भुतम् ॥ ४९ ॥ अमितधिषणं नेमि यान्तं मुनीश्वरमर्थनात् गिरिवरमुपश्रुत्य श्राद्धाः सहस्रश आययुः । पथि सुमिलितैस्तैस्तैः सोऽमितैरमितप्रभोऽभवदतितरां धर्मोन्नत्यै जनेषु रुचिप्रदः ॥ ५० ॥ पुरि पुरि कृतां पूजां श्राद्धैः सुभक्तिपुरस्सरं कृतप्रतिकृतौ दक्षो गृह्णन् स सङ्घ उपाययौ । अचलप्रवरं सिद्धिक्षेत्रं मुनीन्द्रविराजितं सुकृतवसुना पत्या छोटाभिधेन सुपालितः ॥ ५१ ॥ वसुवितरणं छोटालालः स सङ्घपतिस्तदा
गणयदुचिते कार्य नैवाऽर्हतो विदितान्वयः । मुनिवरवचस्त्वाज्ञां काले विदन् यदपालयत् तदलभदिलाव्याप्तां कीर्तिं तुलाविगतां जने ॥ ५२ ॥ जनसमुदयः सङ्घायातस्तदा विमलाचलं जिनप्रतिकृतीभव्या द्रष्टुं रुरोह गतक्लमः । ननु सुरपति वं मोदं प्रयाति यथाऽन्वभूत् सुखमनुपमं सो रूढो गिरिप्रवरं स तु ॥ ५३ ॥ अहमहमिका सङ्के प्रत्येकशी जिनपूजनेऽभवदतितरां पत्या सा सुभक्त्युपजीविता । सुममलयजाद्यङ्गैः कश्मीरजादिसमन्वितैः जिनप्रतिकृतीः को नोऽभूदर्चितुं पुर उत्सुकः ? ॥ ५४ ॥ सुकृतनिचयैर्लभ्यां पूजां प्रपद्य ससङ्घयुक् पतिरुपचितः छोटा भाता सुभक्तिभिरार्हतः । यदलभदनाहार्यं वाचामगोचरमैहिकं सुखमनुपमं तत् किं लभ्यं पुरे हमरेशितुः? ॥ ५५ ॥
शासनसम्राड्-विशेषः
Page #67
--------------------------------------------------------------------------
________________
न स गणितवान् वात्सल्यादौ वसुव्ययमार्हतो यदिह ननु तत्तीर्थस्यैव प्रभावफलं स्फुटम् । किमुत फलितं श्रीमन्नेमेर्वचोमृतवर्षणाज्जिनमतरुचिर्बीजं तत्त्वोपदेशसुशीतलात् ॥ ५६ ॥ सविधिरचिता यात्रा तीर्थाधिपस्य च साऽपरा निजजनिपटौ सङ्के सेशे ततान यशोलताम् । सुकृतमतुलं लब्ध्वा सङ्घाधिपोऽपि मुनेः कृपां निजसहचरी कृत्वा सङ्घात् ततः स्वपुरं ययौ ॥ ५७ ॥ मुनिवरमणिर्नेमिः सङ्घाधिपाग्रहतस्तदा स्वपुरनयनकान्तान्मुक्तः कथञ्चिदथो पुनः । अभवदमितैः श्राद्धैः तत्तत्पुरागतयात्रिकैनिजनिजपुरे नेतुं प्रार्थोऽतिभक्तिसमुत्सुकैः ॥ ५८ ॥ समुचितहितादेशैस्ताँस्तान् ननु ग्रहभाजनं समयनिपुणः कुर्वन्नेमिर्जगाम स योगकृत् । समयनिपुणैः सार्धं गम्भीरसञ्जमुनीश्वरैः पुरवमतिप्रद्वैः श्राद्धैः स भावपुरं नुतः ॥ ५९ ॥ सकलममलं धुत्या नव्यं सिताम्बरराजितं शुचिदलगतं नेत्रद्वन्द्वप्रवृत्त्यवलोकितम् । समुचितकर: पूर्णं शीतांशुबिम्बमिवाऽपरं प्रविशति मुनौ कान्तं जातं नु भावपुरं पुरम् ॥ ६० ॥ कलयति मुनौ तस्मिन् तत्त्वोपदेशतरङ्गिणी विमलपथगां सूत्रस्तोमालसत्तनुविस्तृताम् । अतनुविभवोऽप्येत्याऽमन्दप्रमोदभरोऽभवत् निकटममलीभूयाऽत्यन्तं कुमार्गलसत्क्लमः ॥ ६१ ॥ प्रमुदिततर: सो जातस्तदागमनादपि प्रथममभितस्तत्तत्प्रश्नोत्तरावगतेस्ततः । तदनु चणाभङ्गोल्लासप्रवृत्त्यवलोकनादिति मुनिवरे तरिमन् योगोद्यतेऽपि विशिष्टता ॥ ६२ ॥
शासनसम्राड्-विशेषः
Page #68
--------------------------------------------------------------------------
________________
मुनिजनगुणग्रामोत्कर्षानुमोदनतत्परो
प्रतिहतमतिस्तत्तत्साध्वादिकृत्यपरीक्षणे । सुकूतकरणे दक्षः सङ्घाग्रणीरमरोडप्यरं शमदमनिधेर्नेमभक्त स्तरामभवद् गुणैः ॥ ६३ ॥ मधुपुरवणिक् बालः श्रीमालवंशसमुद्गवः त्रिपुरनिधिकौ (१९४३) पौषे जन्मी प्रपूर्णनिशाकरे । सुनिकटमगानेमेर्दीक्षा ग्रहीतुमकल्मषः सरलहृदयस्तस्यां पुर्यां च सुन्दरसञ्जकः ॥ ६४ ॥ मुनिमणिरमुं बालं नेमिर्विभाव्य सुलक्षणं शुचिसितयमे दीक्षां दत्त्वा स्वशिष्यमथो व्यधात् । यदभिहितवान् तरिमन्नन्वर्थदर्शननाम तदुचितसमये भाव्यं न्वर्थं प्रतीत्य मुनिर्धवम् ॥ ६५ ॥ प्रथयति मुनौ चातुर्मास्ये सुयोगतपश्चयं प्रसरति वरे सङ्केऽन्योन्यं सुसख्यफलेऽनघे । अवधिनियते साधोः पूर्युन्मुखे समये स्थितेनियतिवशत: कञ्चिद् ग्रन्थिज्वर: पुरि चोद्गतः ॥ ६६ ॥ समयनिपुणौ तौ द्वौ गम्भीरनेमिमुनीश्वरौ मुनिपरिवृतौ वर्तजाख्यं पुरं किल जग्मतुः । अपि कुशलिनः सर्वे सान्निध्यमेत्य तयोर्द्वयोः चरणनिरतास्तस्थुस्तरिमन पुरे विगतामयाः ॥६७ ॥ चातुर्मास्ये व्यतीते वरसनिधिविधौ (१९६०) वत्सरे सम्प्रवृत्ते अव्याबाधाख्ययोगोद्वहनकृतिरतो नेमिनामा मुनीन्द्रः । श्रीगम्भीरेण साकं सुमति-सुखनिधि-प्रेमसम्मिश्रितोडगाउच्छ्राद्धैः सम्प्रार्थ्यमानः पुरि पुरि विहरन् वल्लभीसनपुर्याम् ॥ ६८ ॥
इति सप्तमः सर्गः ॥
शासनसम्राड्-विशेषः
Page #69
--------------------------------------------------------------------------
________________
।
॥ श्रीमदाचार्यवर्यविजयनेमिसूरीश्वरगुर्वष्टकम् ॥
विजयनेमिसूरीश्वरशिष्यः
पं.श्रीप्रतापविजयः शमंदोडकमदः पातात् पूर्णं रञ्जितसंहतिः । यमदोऽकप्रदः पातात् तूर्णं भजितसंसृतिः ॥ १ ॥ * गोमूत्रिकाबन्धः ॥ सूरीशोऽतर्नुमातङ्गपारीन्द्रोऽसमशान्तिदः । पूज्यो द्यादन्यसिद्धान्तध्वान्तध्वान्तहरोऽसुखम् ॥ २ ॥ प्रोत्तप्तकाञ्चननिभप्रतिभासमानं नेमि गुरुं गुणगुरुं प्रतिभा समानम् । सद्योगयोगललितं कलिकल्कनाशं वन्देऽहमिन्दुवदनं परिपूरिताशम् ॥ ३ ॥ नमामि नेमिनामानं मींनोनं माननं मुनिम् । नुन्नैनौमममामोनमुमामेनमितुन्नमम् ॥ ४ ॥ व्यक्षरः ॥ १. शमं शान्तिं ददातीति शमदः । २. न विद्यते के आत्मनि मदो यस्य सः । ३. रक्षतात्। ४. पूर्णं यथा स्यात्तथा रञ्जितसंहतिर्मोदितसङ्घः, देशनयेत्यर्थः । ५. यमानि महाव्रतानि ददातीति यमदो मुनिरत्र च प्रकरणवशान्नेमिसूरिर्गुरुः । ६. अकं दुःखं वा पापं प्रकर्षण द्यति खण्डयतीत्यकप्रदः । ७. पात: पतनं तस्मात् निरयादिगतावित्यर्थः । ८. शीघ्रं त्यक्तसंसार इत्यर्थः । ९. कन्दर्पः । १० सिंहः । ११. खण्डयतात् । १२. सूर्यः । १३. प्रतिभया बुद्धया असमानं अतुल्य मित्यर्थः । १४. पापम् । १५. मानेनाऽहङ्कारेण ऊनो रहितस्तम् । १६. मश्चन्द्रमास्तद्वदाननं मुखं यस्य तम् । १७. नुन्नौ क्षिप्तौ एनोममौ दुरितममते येन स नुनैनोममस्तम् । १८. आमेन रोगेण ऊनो रहितस्तम् । १९. उमा शान्ति: सैव मा लक्ष्मीस्तस्या ईनः स्वामी तम् । २०. ए: कामस्य नुन्ना परिक्षिप्ता मा शोभा येन स इनुनमस्तम् । गोमूत्रिकाबन्धः
य | म | दोऽक प्रदः पा तात्
६२
६२
. शासनसम्राड्-विशेषः
Page #70
--------------------------------------------------------------------------
________________
नेती ! येते ! सूरत ! पोतरुप ! भवे समुद्रेऽकदै ! काय तौर ! । पातोडेरते सूर तैपोऽसरूपेभवेसमुद्रेकद ! कायतार ! ॥५॥ गोत्रिकाबन्धः ।। अपारे संसारहितदै ! विर्भयाडमान ! विदितागौडनीते ! तापाऽवनिपत ! नतोदार ! सुँगुरो ! ।। अपारे संसारेऽहितैद ! विर्भयामान ! विदितागमाऽनीतेतापाव निपतनतोडदार ! सुंगुरो ! ॥६॥ यमकम् ॥ कुनयकाननदलनदारुणकरटिनामयवर्जिताअवमै विदारण ! विभयकारण ! करणकुअरकेसरिन् ! । भुवनभूषण ! दलितदूषण ! मदनमारण ! हे मुने !
प्रमितभाषण ! समव तारक ! चरणसुन्दर ! संसृतेः ॥ ७ ॥ हरिगीतम् ॥ २१. स्वामिन् ! । २२. मुने ! प्रकरणाद्धे गुरो ! । २३. दयालो ! । २४. प्रवहणसमान! ।' २५. अकं दुःखं वा पापं द्यतीत्यकदस्तत्सम्बोधने । २६. सुखाय भवेत्यर्थः । २७. तया , ज्ञानलक्ष्म्या राजते इति तारस्तत्सम्बोधने । २८. हे रक्षक ! षड्जीवनिकायानामित्यर्थः । २९.५ न विद्यते रती रागो यस्य तत्सम्बोधने । ३०. हे पण्डित !। ३१. तपोभिरसमान ! । ३२. ईर्लक्ष्मीस्तस्या भवः स ईभवः कामदेवः, तस्य ई: शोभा तस्या यः समुद्रेकोऽतिरेकस्तं द्यति खण्डयतीति ईभवेसमुद्रेकदस्तत्सम्बोधने । ३२. कायेन शरीरेण तार उज्ज्वलस्तत्सम्बोधने कायतार !। ३३. विगतारे ! । ३४. त्यक्तसंसार ! । ३५. वाञ्छितद !। ३६. कान्त्याऽप्रमाण!। ३७. विशेषेण दितं खण्डितं अगमं अज्ञानं येन तत्सम्बोधने । ३८. न विद्यते ईतिररिष्टं यस्य तत्सम्बोधने । ३९. ज्ञानादिलक्ष्मीं पातीति तापस्तत्सम्बोधने । ४०. अवनौ पतति गच्छतीत्यवनिपतस्तत्सम्बोधने वाहनरहितेत्यर्थः । ४१. नता उदारा महाशयाः पुरुषा यस्य तत्सम्बोधने । ४२. अतिशयेन जिनोक्ततत्त्वानि गृणातीति सुगुरुस्तत्सम्बोधने । ४३. अशुभनाशिन्!। ४४. विगतभय ! । ४५. मानरहित ! । ४६. ज्ञातसिद्धान्त ! । ४७. अप्राप्तकामताप ! । ४८. रक्ष । ४९. पतनात् । ५०. स्त्रीरहित !। ५१. शोभनश्चासौ गुरुश्च सुगुरुस्तत्सम्बोधने प्रकरणान्नेमिसूरिगुरो ! अपारे संसारे निपतनतो रक्षेत्यर्थः । ५२. हस्तिन् ! । ५३. कष्टम् । ५४.
संरक्ष । ५५. संसारात् । 0) * गोमूत्रिकाबन्धः ।
न
द का
TEE
ते
स
لي | في
ETE
का
शासनसम्राड्-विशेषः
Page #71
--------------------------------------------------------------------------
________________
आपत्रेतरतेतमानममताडमायाऽनतज्ञावलेउतान्ते मास्य ! तैमोह ! मोहदलनाडसाराद् भवाद् रक्ष माम् । धीराडकोप ! कुतीर्थिकौशिकगणप॑द्योतन ! श्रीभित् सिन्धो ! शान्तरसस्य विस्तृतमते ! श्रीनेमिसूरे गुरो ! ॥ ८ ॥
५६. आपद्भ्यस्त्रायते इति आपत्रस्तत्सम्बोधने । ५७. गतराग ! । ५८. गते मानममते यस्य तत्सम्बोधने । ५९. अमाय ! । ६०. आसमन्तान्नता ज्ञानां पण्डितानामावलिः पङ्क्तिर्यस्य तत्सम्बोधने । ६१. अग्लाने धर्मकार्येष्वित्यर्थः । ६२. चन्द्रमुख ! । ६३. अज्ञानभित् ! । ६४. सूर्य ! । ६५. कन्दर्पभित् ! ।
६४
शासनसम्राड्-विशेषः
Page #72
--------------------------------------------------------------------------
________________
-
गुरुस्तुत्यष्टकम्
विजयशीलचन्द्रसूरिः
HIAN
दीवालीकुक्षिरनं सकलकुवलयोल्लासिदीपोपमानं लक्ष्मीचन्द्रान्वयोत्थं तिमिरभरहरं तेजसां नव्यपुञ्जम् । आत्तश्रीवृद्धिचन्द्राभिधगुरुचरणद्वन्द्वनिर्द्वन्द्वसेवं वन्दे श्रीनेमिसूरि सकलतपगणे धुर्यमाचार्यवर्यम् ॥ १ ॥ आचार्याः सन्ति नैके निजकसमुदये धुर्यतां प्राप्तवन्तो गच्छेशत्वं तु गच्छायतिकुशलकर केवलं नेमिसूरौ । तिग्मज्वालाः प्रभूता धरणिपरिसरे पावकाः सन्ति किन्तु भूलोकं पूर्णमेतं निजशुचिकिरणैर्भासयन भातुरेव ॥ २ ॥ गच्छे श्रीमतपाख्ये चरमजिनपतेः शासने मुख्यगच्छे मुख्या संविग्नशाखा शतकयुगलतः साऽस्ति सूरीशशून्या । कृत्वा योगक्रियां यः सुविहितमुनिराड् आद्य आचार्यताभाक् सञ्जातः सोऽद्य तत्र प्रवरमुनिपतिर्वर्धतां नेमिसूरिः ॥ ३ ॥ संवद् वेदाऽईलोकान्तिक विधुप्रमितो वत्सर: सोऽस्ति धन्यो धन्या सा सत्तिथिश्च प्रकटवफला पञ्चमी ज्येष्ठशुक्ला । यत्राऽऽचार्यत्वराज्ये विजयितपगणे प्राप मूर्धाभिषेकं गीतार्थोः सोऽस्तु सिद्धयै सुविहितप्रथमो नेमिसूरिः सदा मे ॥ ४ ॥ यः पूज्यः सङ्गमुख्यैर्निखिलमुनिजनो मन्यते यं मुनीशं येन स्यात् तीर्थशोभा ददति सुकृतिनः स्वस्तिवादं च यस्मै । यस्मात् कामः प्रणष्टः प्रतपति नितरां यस्य सद्ब्रह्मतेजो। यस्मिन्नाप्ते शरण्ये शरणमहमितस्तं स्तुचे नेमिसूरिम् ॥ ५ ॥
-
शासनसम्राड्-विशेषः
६५
Page #73
--------------------------------------------------------------------------
________________
धन्यं बाणोऽर्णवाँऽहऽजमितमिदमहो ! वर्षमुद्दीप्तहर्ष ज्येष्ठे शुक्ला तथा सत्तिथिरपि जयिनी सप्तमी धन्यधन्या । यत्राऽऽत्ता जैनदीक्षा गुरुकरकमलैर्नेमचन्द्रेण यूना गच्छेशः सैष जातस्तदनु बुधनुतो नेमिसरिर्गुरुमे ॥ ६ ॥ येषां दर्शनतः खलु स्मृतिपथं गच्छन्ति पुण्यात्मनां साधूनां शुचिसंयमोर्जिततनूनां नामधेयान्यहो ! । तेषां श्रीमुनिवृद्धिचन्द्रसुगुरूणां पावने पद्युगे दीक्षां यः समुपाददे स जयतु श्रीनेमिसूरिर्गुरुः ॥ ७ ॥ सूरि: सोऽवतु मां भवाद् भयहरं तं संश्रये सर्वदा तेन स्यान्मम मङ्गलं मम नमस्तस्मै तथा स्तान्मुदा । मोहो नश्यतु मे ततो गुणगणो मय्यस्य सङ्क्रामतु तस्मिन् गच्छतु नेमिसूरिसुगुरौ सङ्घस्य भावाञ्जलिः ॥ ८ ॥
प्रियप्राया वृत्तिविनयमधुरो वाचि नियमः प्रकृत्या कल्याणी मतिरनवगीतः परिचयः । पुरो वा पश्चाद् वा तदिदमविपर्यासितरसं रहस्यं साधूनामनुपधि विशुद्धं विजयते ।।
६६
शासनसम्राड्-विशेषः
Page #74
--------------------------------------------------------------------------
________________
DBAIKOTAKOMKOLKANOKारसमज IURETIREMEEmwwwwwwwwwsNRNATI
परमगुर्वष्टकम् ॥
विजयशीलचन्द्रसूरिः
SHAI जिनेन्द्रतीर्थाम्बरतिग्मरश्मये, प्रणाशिताशेषकुदोषराशये ।
| दिगन्तसंस्थापितशुद्धकीर्तये, नमो नमः श्रीगुरुनेमिसूरये ॥ १ ॥ कदम्बपर्वतादिजैनजीर्णतीर्थसंहतिः, समुद्धता हि येन शासनप्रभावना कृता । अगण्यसद्गुणाञ्चितः सदा प्रशान्तमानसः, स नेमिसूरिसद्गुरुः शिवङ्करोऽस्तु नः सना ॥ २ ॥
यत्पवित्रमुखपद्मदर्शनं, सर्वदोदयकरं सुखाकरम् ।
भव्यसत्त्वहृदयैकनन्दनं, नौमि नेमिमुनिपं तमादरात् ॥ ३ ॥ नैजक्रमाब्जरजसाऽऽवनभव्यजीवान्,
पोपोति भक्तियुतचित्तवतः समस्तान् । यः कृष्टिसृष्टिमुकुट: प्रकटप्रभावः श्रीनेमिसूरिवरराट् शिवदः स भूयात् ॥ ४ ॥
रागद्विवन्तारं, स्फारप्रशं शान्तम् ।
श्रीनेमि सूरीन्द्र, वन्देऽहं सद्भक्त्या ॥ ५ ॥ विषयजिह्मगविष्णुरथं गुरुं, नृपतिसंहतिसेवितपयुगम् । असुमतां भववार्द्धिनिमज्जतां, प्रवहणोपमनेमिमुनिं भजे ॥ ६ ॥
एनोडनोकहदहनं, विश्वश्रेयं निरस्तकोपरिपुम् ।
दचिलगोत्रभिदं, वन्देऽहं नेमिसूरिगुरुम् ॥ ७ ॥ समस्तस्वस्तिपरत्याय, विश्वविश्वोपकारिणे । मोहान्धकारसूर्याय, नमः श्रीनेमिसूरये ॥ ८ ॥
भावतस्तव नवं भविको य, एकदाऽपि कुरुते लभते सः ।
नेमिसूरिवरसद्गुरुराज ! भूरिभाग्ययुतशर्मसमृद्धिम् ॥ ९ ॥ * विद्यार्थित्वे विहितेयं रचना ॥
शासनसम्राड्-विशेषः
६७
Page #75
--------------------------------------------------------------------------
________________
PooohOON
*अज्ञातकर्तृकं श्रीनेमिसूरीश्वरस्तुत्यष्टकम्
(शार्दूलविक्रीडितम्) विन्दन्नास्तिक-नास्तिकोभयविधे तो स्वतत्रस्थिति तत्तन्नूतनकल्पनाकुमुदिनीपूर्णेन्दुरुष्णद्युतिः । व्यातेनेऽत्र समुद्रमुद्रितमहीपृष्ठे सुधास्यन्दिनीं कीर्तिं यः स विराजतामनुदिनं श्रीनेमिसूरिर्गुरुः ॥१॥
शाब्दे साधुमतिः श्रुतिस्मृतिविधौ श्रीगीष्पतिजैमिनौ साक्षाज्जैमिनिरेव काव्यविषये श्रीमान् कविः किं पुनः । न्यायाम्भोधिविलोडने पटुतर: श्रेष्ठोऽत्र मन्थाचलः । सोऽयं योगिवरः सदा विजयतां श्रीनेमिसूरिर्गुरुः ॥२॥
-
हेलाभ्यस्तसमस्तशास्त्रगहनो यो बाल्य एवाऽचिरात् जातस्तर्कवितर्ककर्कशमतिजैनागमाराधकः । शिष्यान्तस्तिमिरावलिं कवलयन् ज्ञानप्रभां वर्धयन् सोऽयं योगिवरः सदा विजयतां श्रीनेमिसूरिर्गुरुः ॥३॥
नित्यानन्दधनं प्रभाभिरखिलं विद्योतयन्तं जगत् श्रीवीरं तनु-वाङ् -मनोभिरनिशं सन्ध्यायमानो विदन् । श्रीमज्जैनमतावलम्बिजनतां व्याख्यानतो वर्धयन् सोऽयं योगिवरः सदा विजयतां श्रीनेमिसूरिर्गुरुः ॥४॥
किंस्विद् धर्मतनुर्जिनागमवपुः शेषावतार: किमु किं वा स्वर्गसमाधिसाधनविधिः साक्षाज्जिनो वा भवेत् । इत्येवं समवेक्ष्य यं कवयते लोकः प्रमाणैः स्वकै: सोऽयं योगिवरः सदा विजयतां श्रीनेमिसूरिर्गुरुः ॥५॥
६८
शासनसम्राड्-विशेषः
Page #76
--------------------------------------------------------------------------
________________
OOoooo
Pooooo
VORN
लक
Owoo0OOD
नानास्थानसमागतैर्मुनिजनैः संसेविताङ्घिद्वयः श्रीमच्छ्रावकपुञ्जपूजितपदस्तेषां मनोहादकैः । व्याख्यानैर्जिनधर्मभिर्हृदयतोऽज्ञानस्तमः संहरन् सोऽयं योगिवरः सदा विजयतां श्रीनेमिसूरिर्गुरुः ॥६॥
देशाः सन्ति च के न येऽस्य निजसत्कीर्णा न सम्भाविता भूपाः केऽस्य पदारविन्दयुगलं मूर्खा च ये नाऽऽर्चिषुः । कोऽद्याऽप्यस्ति पुमान् न योऽस्य शृणुते नामामृतं साम्प्रतं सोऽयं योगिवरः सदा विजयतां श्रीनेमिसूरिर्गुरुः ॥७॥
धन्योऽयं दिवसो यदत्र समभूद् विश्वैकवन्द्यो मुनिः पुण्यो ध्यानगतो मदीयहृदये पूज्यः शरण्यः सताम् । यं ध्यात्वाऽऽसमस्तकिल्बिषचयान्मुक्ता भवामो वयं सोऽयं योगिवरः सदा विजयतां श्रीनेमिसूरिर्गुरुः ॥८॥
*
स्तुत्यष्टकमिदं केनचिद् विद्वद्वर्येण पण्डितमहोदयेन विरचितमस्ति, किन्तु तन्नामादिकं नोपलभ्यत इत्यतः 'अज्ञातकर्तृकम्' इत्येवमुल्लिखितम् ।
शासनसम्राड्-विशेषः
Page #77
--------------------------------------------------------------------------
________________
सद्धर्मदं विजयनेमिमहं प्रणौमि !!
प्रा. अभिराजराजेन्द्र मिश्रः
यस्य स्मृतिर्मनसि सान्द्रसुधानुपानोत्कृष्टं सुखं जनयति द्रुततृप्तिमूलम् । तीर्थङ्कराऽध्वपथिकं तमहं प्रपद्ये
सूर्युत्तमं विजयनेमिमपास्तबन्धम् ॥ १ ॥
सारस्वते तपसि लीनमुदारसत्त्वं ज्ञानप्रदीपविभयाऽपहृतान्धकारम् ।
कारुण्यमूर्तिमपनीतजनार्तिभारं ___ सद्धर्मदं विजयनेमिमहं प्रणौमि ॥ २ ॥
न्यायादिदर्शनगृहे ससुखं प्रविष्टं पारङ्गतं च पदशासनकोशतर्के । छन्दस्यलकृतिपथे च दधत्प्रचारं
वन्दे बुधं विजयनेमिमहं सुधीन्द्रम् ॥ ३ ॥
यत्साहिती सहृदयानधुना धिनोति तत्पाण्डिती प्रमदयत्यनिशं विनेयान् ।
तं नौमि सूरिशतहायनपूर्तियोगे ___ प्राज्ञोत्तमं विजयनेमिजिनोत्तमर्णम् ॥ ४ ॥
-
७०
शासनसम्राड्-विशेषः
Page #78
--------------------------------------------------------------------------
________________
DN
आजीवनाचरितसौम्यतपस्विवृत्तं वाक्कायमानसविपोषितशुद्धभावम् । बिभ्रज्जिनागममहत्तमदेशनं तं
वन्दे मुदा विजयनेमिसुधीन्द्रपादम् ॥ ५ ॥
कार्तघ्यवञ्चनशठत्ववनाग्निझञ्झादन्दह्यमानजगदेकबलाहकाभम् । तं लोकबन्धुमुपयामि विधूतशोकं
नेमीश्वरं यतिवरं प्रथितं मुनीन्द्रम् ॥ ६ ॥
मिश्रोऽभिराजपदभाक् सकलत्रपुत्रः कल्याणमङ्गलसुखाभ्युदयाभिलाषी । स्मृत्वैव तं विजयनेमिमुदारसज
मात्मानमञ्जयति पुण्यचयैः कृतज्ञः ॥ ७ ॥
त्रिवेणीकविराजेन्द्रो जयशीलेन्दुभावितः । कीर्तित्रयसमासक्तः कुरुते नेमिसप्तकम् ॥ ८ ॥
शासनसम्राड्-विशेषः
७१
Page #79
--------------------------------------------------------------------------
________________
र
समग्रशास्त्रपारावारपारीण-सर्वसगुणगणालङ्कारसौजन्यसुधासिन्धु-
निर्व्याजविशुद्धतमवात्सल्यवारिधिसमस्तसूरिचक्रचक्रेश्वर-पूज्यप्रवर-श्रीमनन्दनसूरीश्वर
___ महाराजपादानां दीक्षाब्दप्रारम्भात् ।
षष्टिवर्षसमाप्तिविषयकमहोत्सवमधिकृत्य हृद्रतभावाविष्कारविभासुरा नैसर्गिकप्रहर्षपूरपरिप्लाविता प्रशस्तिः ।
स्व. कविभालचन्द्रः
___ स्तम्भतीर्थम् प्रज्ञापारमितो मितेतरमहावीरत्वविभ्राजितोनीलौदार्यकलाकलापकलितो विज्ञानविद्योतितो विद्यावैभवभावितोऽमरगुणैरासेवितो विश्वजिद् भव्यो भारतभूतले विजयते सौराष्ट्रदेशो महान् ॥ १ ॥ चकास्ति नगरं तत्र शक्रोपवनसन्निभम् । बोटादाभिधया तस्य प्रतिभा भुवि विश्रुता ॥ २ ॥ शास्त्रज्ञाः समयानुकूलप्रतिभाः पुण्यप्रभाभासुराः मर्मज्ञा नितरां विवेकनिपुणाः श्रेयःसुखोन्मेषिणः । आत्मज्ञानपरायणा भवसुख्खे दोषानुसन्धायिनः केचित् तत्र वसन्ति रम्यनगरे जैनाः सुशीलान्विताः ॥ ३ ॥ यमुना-हेमचन्द्रारव्यौ दम्पतीधर्मशालिनौ । एतन्नगरवास्तव्यौ जिनभक्तिपरायणौ
॥ ४ ॥ साधूनां चैव सूरीणां व्याख्यानामृततर्पितौ । पवित्रौ सरलौ नूनं संसारासारबोधिनौ
॥ ५ ॥ तयोः पुण्यप्रभावौघो जिनभक्तिविवर्धितः । पाण्डवेषुग्रहमाब्दे (१९५५) कार्तिकस्य सिते दले ॥६॥ एकादश्यां तिथौ नूनं लग्ने पारीन्द्रसजिते । मेषस्थिते विधौ तत्र पर्यणंसीत् सुतात्मना ॥७॥ प्रकर्षतां सर्वजनेषु तावत् सम्भोक्ष्यते बालक एष एव । इतीव नूनं मनसाऽवधार्य नरोत्तमोऽसौ विहितोऽस्ति नाम्ना ॥ ८ ॥
७२
शासनसम्राड्-विशेषः
Page #80
--------------------------------------------------------------------------
________________
॥ १० ॥
॥ ११ ॥
॥ १३ ॥
पूर्वोपार्जितभक्तिवैभववशात् पुण्यस्य पाकात् तथा, सत्संस्कारसुधाप्रसेक सहिता कर्मक्षयोत्पादिनी । वैराग्यस्य लता विवेक विहिता तत्स्वान्ततो निर्गता, दीक्षाया ग्रहणे नरोत्तमममुं शीघ्रं समुत्प्रेरयत् आकाशनगनन्देन्दुमिते (१९७०) संवत्सरे शुभे । सिते माघद्वितीयेऽह्नि दीक्षामापदसौ मुदा ज्योतिःशास्त्रार्णवो मान्यो, विजयोदयसूरिराट् । तद्गुरुस्थानमापन्नः, सर्वशास्त्रविशारदः नव्यदीक्षितचर्यस्य, नन्दनं विजयान्तिमम् । नामसंस्करणं जातं, नेमिसूरिप्रभावतः न्याय-व्याकृति - साहित्य-निगमागमपारगाम् । व्यापार्य शेमुषीं तीक्ष्णां ज्ञानाब्धि तीर्णवानसौ एतस्य लोकोत्तरवैभवाढ्यं, प्रज्ञाप्रकर्षं परमं विचार्य । गुरुर्गुरोरस्य व्यधान्मनीषामेनं तु पन्यासयितुं मुनीन्द्रम् ॥ १४ ॥ लोकानां हृदयङ्गमं च सरलं सच्छास्त्रसारोज्ज्वलं, सद्युक्त्यावलिमण्डितं शिवकरं गाम्भीर्यभावोदयम् । प्रज्ञावैभवमाकलय्य यमिनोऽस्याऽऽसीन्मतिः सूरीणां, पन्यासस्य पदे नियोक्तुमनघं योगीन्द्रराजं च तम् ॥ १५ ॥ वियद्दिग्गजभक्तीन्दुमिते (१९८०) विक्रमवत्सरे । पन्यासपदमारूढो, यमीन्द्रोऽयं महायशाः पन्यासेन्द्रवरोऽथ जैनजनतास्वान्ते प्रतिष्ठां परां वैदुष्पोत्तमवैभवेन च तथा भक्तेः समुद्रेकतः । सम्प्राप्येह मुमुक्षुवृन्दमखिलं सद्बोधपीयूषयुग्व्याख्यानेन सदा प्रहर्षपरमां सीमानमानाययत् गुणवसुनिधिपृथ्वीसम्मिते (१९८३) वैक्रमाब्दे, परमपुनितमासे माधवे शुक्लपक्षे । गणक वरवितीर्णे सन्मुहूर्ते दशम्यां, पदमयमधिरूढः सूरिसञ्ज्ञं समृद्धम् भास्वानेष न चण्डदीधितिरसौ, किं चन्द्रमाः सोऽम्बरे ?,
॥ १६ ॥
॥ १८ ॥
किं शक्रः स सहस्रनेत्रमहितो भूमौ न सन्तिष्ठते ।
शासनसम्राड्-विशेषः
७३
॥ ९ ॥
॥ १२ ॥
॥ १७ ॥
Page #81
--------------------------------------------------------------------------
________________
एवं सूरिवरं विलोक्य जनता शङ्कापरा भूतले, स श्रीनन्दनसूरिराजमघवा प्रह्लादयत्यन्वहम् यस्य प्रौढप्रतापभानुभयतः सन्त्रासमासादयन्, सूर्य: सङ्क्रमणं नभस्यनुपलञ्चर्कर्ति सङ्क्षोभतः । यद्वाचामृततो निरस्तमहिमा जातः क्षयी चन्द्रमाः, स श्रीनन्दनसूरिराजमघवा भूयाज्जगच्छ्रेयसे प्राप्याssचार्यपदं दधात्यनुपमं स्वान्तं सुखाधायकं, धर्मस्योद्धरणे भवाब्धितरणे निर्वाणदे सत्वरम् । आचार्येन्द्रवरोऽयमेवमखिलं कार्यक्रमं संवहन्, नैजां सूरिपदोद्भवां विभवितां प्रोद्भासयत्यन्वहम् नानाकर्मलताङ्कुरालिजटिलीभूतात्मना चेतसा, मोहेनेह समाकुले भववने बम्भ्रम्यमाणा जनाः । तेषां शान्तिकृते सुधामधुरया वाचोपदेशं ददत्, श्रीमन्नन्दनसूरिराड् विजयते विश्वार्तिहा भूतले सङ्ख्यातीतभवेषु या सुवितता मोहान्धकारावली, रागद्वेषपरम्परापरिगता सर्वार्तिसंवर्धिनी । तां नीत्वा विलयं विवेक विधिना वैराग्यसाम्राज्यभाक् श्रीमन्नन्दनसूरिराड् विजयते विश्वार्तिहा भूतले वयोवृद्धोऽपि सोत्साहः सत्त्वाढ्यः सूरिपुङ्गवः । नेमिसूरीश्वरारब्धं, समाप्नोत् कार्यमादरात् अवशिष्टानि कार्याणि निर्वक्ष्यति स सत्वरम् । क्रियासिद्धिस्तु सत्त्वे स्यात्, सा नोपकरणे मता सूरिचक्रेश्वरः सोऽयं, जगन्मङ्गलकारकः । कल्याणं विकिरन् विश्वग्, दीर्घायुर्भवतान्मुदा वियद्वह्निनभोनेत्रवर्षे (२०३०) पौषे सिते दले । बुधेsरिथसप्तम्यां श्लोका विरचिता मुदा कविना भालचन्द्रेण, दयाशङ्करसूनुना । प्रशस्तिरेषा रचिता, स्तम्भतीर्थाधिवासिना
७४
॥ १९ ॥
॥ २० ॥
॥ २१ ॥
॥ २२ ॥
॥ २३ ॥
॥ २४ ॥
॥ २५ ॥
॥ २६ ॥
॥ २७ ॥
॥ २८ ॥
शासनसम्राड्-1 -विशेषः
Page #82
--------------------------------------------------------------------------
________________
पूज्यपादशासनसम्राट्श्रीपरमगुरुभगवतां प्रथमं दर्शनम् ।
आ. विजयहेमचन्द्रसूरिः ( देवशिशुः)
तदानीमहं नववर्षीय एवाऽऽसम् । पूज्यशासनसम्राटश्रीमद्विजयनेमिसूरीश्वरगुरुप्रवरा निजविशालशिष्यप्रशिष्यवृन्दपरिवृता राजनगरतो विहृत्य श्रीशेरीसातीर्थे प्रकटप्रभाविश्रीशेरीसापार्श्वनाथप्रमुखजिनबिम्बानां प्रतिष्ठां चिकीर्षवः साभ्रमतीग्रामे घीयालालभाई-फुलचन्द्रश्रेष्ठिनो गृहाङ्गणे पादाववधारितवन्तः ।
तदा बालसहजौत्सुक्येन समवयस्कमित्रबालैः सह (केऽपि महान्तो गुरुभगवन्तोऽत्र समागताः सन्ति, अतश्चलन्तु, वयं तेषां दर्शनार्थं गच्छाम इति मनसि विचार्य) तत्र गत्वा तेषां गुरुभगवतां प्रथमं दर्शनं कृतमासीत् ।
एतदर्शनेनाऽहं निजात्मानं प्रबलपुण्यशालिनं प्रवरभाग्यवन्तं च मन्ये । C
तदनन्तरं त्र्यधिकद्विसहस्रमितेऽब्दे तु ते हि पूज्यप्रवराः स्वकीयपट्टधरसिद्धान्तवाचस्पति-न्यायविशारदपूज्याचार्यश्रीमद्विजयोदयसूरीश्वर-तत्पट्टधरशास्त्रविशारदकविरत्न-न्यायवाचस्पति-सिद्धान्तमार्तण्डपूज्याचार्यश्रीमद्विजयनन्दनसूरीश्वरप्रभृत्यनेकलघ्वलघुशिष्यपरिवारपरिवृता वर्षावासकृते साभ्रमतीग्रामे समागताः । तदा साभ्रमतीग्रामे अत्यल्पसङ्ख्यकश्रावकाणां गृहाण्यासन् ! तदा कतिचित् श्रावकाः तत्रत्यश्रावकानेवं कथयामासुः - "अरे भद्रभावा: सुश्रावका: ! भवद्भिः सम्यक् विचारितमस्ति न वा? एते तु महान्तो गुरुभगवन्तो विद्यन्ते, धवलगजराजसन्निभानां तेषां सेवां शुश्रूषां भक्तिं च यूयं कथं करिष्यथ?" । तैः प्रत्युत्तरितम्-"अरे श्रेष्ठिवराः ! यूयं व्यर्थं चिन्तां मा कुरुथ, गुरूणां हादिकाशीर्वादाः अस्मदीयशिरस्सु वर्षन्ति, अतो नाऽस्माकं स्वल्पीयस्यपि चिन्ता । वयं तेषां सपरिवाराणां सम्यग्रीत्या सेवां शुश्रूषां भक्ति चाऽवश्यं करिष्यामः । भवन्तो निश्चिन्ता आसताम् ।" तदनन्तरं च तैः श्रावकैर्वर्षावासमध्ये समेषां साधूनां साध्वीनां च प्रबलभावत: पर्याप्तरूपेण भक्तिर्विहिता । तन्निरीक्ष्य राजनगरवास्तव्या नामाङ्किताः श्रेष्ठिप्रवरा आश्चर्यचकिता निम्नाननाश्च सञ्जाताः ।
शासनसम्राड्-विशेषः
७५
७५
Page #83
--------------------------------------------------------------------------
________________
तस्यां चतुर्मास्यां तेषां पुण्यदर्शनमनेककृत्वः सम्प्राप्तम् ।
समागते च पर्वाधिराजपर्युषणापर्वणि महावीरजन्मवाचनवेलायां प्रयत्नपूर्वकं ते हि गुरुभगवन्त उपरितनमालके व्याख्यानपर्षदि समानीताः । तदानीं पूज्यगुरुभगवन्त भृशमशक्ताः शिथिलशरीराश्चाऽऽसन् । सर्वेषां प्रभूताग्रहतः तैस्तदा यथाकथञ्चित् महावीरजन्मवाचनं कृतमासीत् तत् श्रुत्वा सर्वेऽपि मुदितस्वान्ताः सञ्जाताः । तेषां मध्येऽहमपि एकस्तदाऽऽसम् ।
पूज्यशासनसम्राटश्रीगुरुभगवतां निजप्रशिष्योपरि अपूर्वं वात्सल्यम् :
शासनप्रभावकपूज्याचार्य श्रीमद्विजयमेरुप्रभसूरीश्वराणां वदनकमलतः कतिकृत्वः श्रुतस्तेषां जीवनप्रसङ्गः पूज्यशासनसम्राट्सम्बन्धितोऽत्र निर्दिश्यते । प्रायः सप्ताशीत्युत्तर एकोनविंशे वैक्रमे वर्षे श्रीमेरुविजयाभिधानो मुनिर्मैथिलपण्डितप्रवरश्रीशशिनाथ-झाशास्त्रिणां सविधे व्याकरणादिशास्त्राणामध्ययनं कुर्वन्नासीत् । तदानीं नैके विद्वांसः पूज्यशासनसम्राड्गुरुभगवतां पार्वे शिष्याणामध्यापनं कुर्वन्तोऽतिष्ठन् । कस्मिन्नपि समये वर्षावासे शेषकालेऽपि वा कोऽपि विद्वान् तेषां समीपे आगच्छेत् तदा ते हि पूज्यास्तं निजपाद्वेऽध्यापनाय रक्षन्ति स्म । 'अधुनाऽस्मत्पार्वे बहवोऽध्यापयितारो विपश्चितः सन्ति, अत आवश्यकता न विद्यते' इति तु ते हि पूज्या न कदाऽपि कथयामासुः ।
तदानीं सर्वत्रैतादृशी लोकोक्तिः प्रचलिताऽऽसीद् यत् पूज्यशासनसम्राड्गुरुभगवतां समीपे आगताः पण्डितास्तथा च प्रतिमा आदायाऽऽगता मूर्तिनिर्मातारो नैव कदाऽप्येवमेव रिक्तपाणयः पश्चाद् वलन्ति, स्वस्थानं गच्छन्ति वा।
मुनिमेरुविजयाय केनाऽप्यध्ययनविषये किञ्चित् पृष्टम् । तदुत्तरं सम्यग् अददानः स भृशं विषण्णो बाढं रोदितुं लग्नश्च । पूज्यशासनसम्राटश्रीगुरुभगवता एतज्ज्ञातं, तैस्तमाकार्य प्रेम्णा पृष्टं - "अरे ! तव किं जातं, कथं त्वं रुदन्नासीः, त्वादृशस्यैवं रोदनं किमुचितम् ?'' तेन यथास्थितं निवेदितं, तत् श्रुत्वा पूज्यैः कथितम्, स्वस्थो भव, मा रोदीः, त्वं तु बुद्धिशाली परिश्रमशीलश्चाऽसि । कल्यतो मम पार्वेऽध्ययनायाऽऽगच्छेः । अहं त्वां सम्यक् पाठयिष्यामि ।
७६
शासनसम्राड्-विशेषः
Page #84
--------------------------------------------------------------------------
________________
श्वोदिने स गतोऽध्ययनाय । पूज्यगुरुभगवद्भिः 'किरातार्जुनीयमहाकाव्यं' पाठयितुं प्रारब्धम् । पूज्यानामध्यापनशैली काऽप्यनिर्वचनीयैवाऽऽसीत् । एकस्मिन् विषयेऽनेकान् विषयान् सङ्कलय्य ते हि यत् पाठयन्त आसन् तत्तु स्वानुभवसंवेद्यमेव। उपर्युपरि वज्रवत् कठोररूपेण दृश्यमाना अपि ते ह्यन्तस्तु शिरीषकुसुमादप्यधिककोमला वात्सल्यसम्भृतमानसाश्चाऽऽसन्।
निम्नोल्लिखितश्लोकेन नीतिकारेणाऽपि लालने बहवो दोषास्ताडने च बहवो गुणाः निरूपिताः सन्ति
लालने बहवो दोषास्ताडने बहवो गुणाः । तस्मात् पुत्रं च शिष्यं च, ताडयेन्न तु लालयेत् ।
अपि च, गुरुपरुषवचनेन तिरस्कृता जना महत्त्वं प्राप्नुवन्तीति वचनं पण्डितराजजगन्नाथेनाऽपि स्वरचितभामिनीविलासे 'गीर्भि'रिति श्लोकेन समर्थितम् । ( अयमेवाऽस्ति स श्लोकः -
___ गीभिर्गुरूणां परुषाक्षराभि-स्तिरस्कृता यान्ति नरा महत्त्वम् ।
अलब्धशाणोत्कषणा नृपाणां न जातु मौलौ मणयो विशन्ति ॥
मुनिमेरुविजयः पूज्यशासनसम्राड्गुरुभगवतां सन्निधौ प्रतिदिनं किरातमभ्यस्यमानः कियता कालेन द्वात्रिंशत्तमश्लोकपर्यन्तं पठितवान् । ततो द्वितीयदिने पुस्तकमादाय नियतसमये पूज्यानां समीपे पठनायाऽऽगतं मुनिमेरुविजयं ते हि पूज्याः कथयामासुः - "अथ मम पार्श्वे पठनाय त्वया नैवाऽऽगन्तव्यम् । अग्रेतनं काव्यं स्वयमेव पठितव्यम् । सर्वेषु विषयेषु तव शेमुष्यस्खलितप्रचारा प्रवर्तिष्यते ।" पूज्यानामेतादृशाशीर्वादस्तेषां खलु जीवने पूर्णरूपेण फलितोऽभवदिति शम् ।।
शासनसम्राड्-विशेषः
७७
Page #85
--------------------------------------------------------------------------
________________
सर्वं सत्त्वे प्रतिष्ठितम्
मुनिरत्नकीर्तिविजयः
दृढसत्त्वानां देवा अपि सान्निध्यं विदधतीति जगति विदितमेवैतत् । बहुभिश्च जनैरेतत् सत्यमनेकशोऽनुभूतमपि परमपूज्यशासनसम्राजां परमगुरुवराणां श्रीविजयनेमिसूरीश्वराणां जीवने।
__ एतादृशाननुभवान्, ये केचिच्छ्राद्धा यदा कदाचित् कस्मिंश्चित् प्रसङ्गे उपस्थिता आसन् ते पूज्यगुरुभगवतां दिवं गमनानन्तरं पूज्यानां शिष्यप्रशिष्यादिपरिवारस्य पुरतो यदोल्लिखितवन्तस्तदैव ते ज्ञाताः ।
'यत्र चमत्कारस्तत्र नमस्कारः' इत्युक्तिलॊके प्रचलिताऽप्यस्ति । किन्तु नाऽत्राऽऽसीत् कोऽपि चमत्कारः । यतो लोकरञ्जनाय भवति चमत्कारः । आध्यात्मिकविकासे हि बाधकः सः । अतो दृढसत्त्वा महात्मानो न कदाऽपि चमत्कारं पुरस्कुर्वन्ति । ते हि स्वाभाविकतयैव वर्तन्ते । किन्तु यदा कदाचित् तादृशः कश्चित् प्रसङ्ग उपस्थितो भवति येनाऽस्मादृशाः सामान्या जनाः 'अहो ! अशक्यप्रायमेतद्' इति कृत्वा तं चमत्काररूपेण प्रस्तुवन्ति । वस्तुतस्तु तत्र तेषां महापुरुषाणां दृढसत्त्वेन विशुद्धचारित्र्येण चाऽऽकृष्टा देवाः स्वयं सन्निधिं कृत्वा कार्यं साधयन्ति ।
एतादृश एव कश्चित् प्रसङ्गो वि.सं. १९९०तमवर्षे समुपस्थितः । श्रेष्ठिवर्यश्रीमाणेकलाल-मनसुखभाई-श्राद्धेन परमगुरुभगवतां शासनसम्राजां सान्निध्ये राजनगरात् श्रीशत्रुञ्जयमहातीर्थस्य पदयात्रासङ्घ आयोजितः । (स हि पदयात्रा-सङ्घोऽद्याऽपि 'माकुभाई-श्रेष्ठिनः सङ्घः' इति कृत्वा पुनः पुनः स्मर्यते जनैः ।) सार्धमासपर्यन्तं शासनसम्राड्-गुरुभगवतां सान्निध्यं सम्प्राप्स्यत इति कृत्वा समग्रादपि भारतवर्षाद् यात्रालवः समुपस्थिता बभूवुः । तस्मिंश्च सङ्के यात्रिकाणां त्रयोदशसहस्री सम्मीलिताऽभूत् । अन्या च रथशकट-चलमन्दिर-हस्त्यादिका विपुला सामग्री त्वासीदेव ।
"कथमेतन्निर्विघ्नं सम्पत्स्यते ?' इति कस्यचिच्छ्रावकस्य मनसि शङ्का समुद्भूता । स हि गुरुभगवतां समक्षमुपस्थितोऽभूत् । गुरुभगवन्तस्तु
0000000ood
ON
OODON
७८
शासनसम्राड्-विशेषः
Page #86
--------------------------------------------------------------------------
________________
स्वस्थाः परमप्रसन्नाश्चैवाऽऽसन् । चिन्तालेशोऽपि तेषां मुखे न दृश्यमान आसीत् । चिन्ताचान्तमुखं तमागतं श्राद्धं निरीक्ष्य पूज्याः पृष्टवन्तः - 'किं रे ! किमस्ति ?'
'सर्वं शोभनमेव भगवन् ! ..... किन्तु चिन्ता काचिद् मां बाधते !' 'का चिन्ता ?'
'महामन्त्रिवस्तुपाल-तेजपालादिमहापुरुषायोजितसङ्घानुकारी विशालोऽयं सङ्को निर्विघ्नं सम्पत्स्यतेऽपि? उदधिकल्पो जनसमुदायः, बहुमूल्या च सामग्री ! - मार्गे काऽपि बाधा तु नैवोपस्थास्यति किल?'
'मैवं भैषीः । शासनरक्षका देवा उपस्थिता एव सन्ति । त एव सर्वं निर्विघ्नं विधास्यन्ति ।'
एवमुक्त्वा पूज्या जनं कञ्चित् श्रीफलान्यानेतुमुक्तवन्तः । शीघ्रमेव श्रीफलान्यानायितानि । 'एतान्यूर्ध्वमाकाशे उच्छालयन्तु' इति पूज्या आदिष्टवन्तः । श्राद्धस्तथा कृतम् । सर्वेऽपि तत्रोपस्थिताः साश्चर्यमनुभूतवन्तो यत् श्रीफलानां छल्लयः कवचाश्चैवाऽध आगता नाऽन्तः फलम् ! एतदेव च देवानां सान्निध्यस्य प्रमाणमासीत् ।
श्राद्धोऽपि सोऽनेन नि:संशयोऽभूत् । सङ्घोऽपि स विना विघ्नं सम्पन्नोऽभूत् । एतादृश आसीत् पूज्यशासनसम्राड्-गुरुभगवतां सत्त्वस्य चारित्रस्य च प्रभातः ।
म
><
गिरयो गुरवस्तेभ्योऽप्यूर्वी गुर्वी ततोऽपि जगदण्डम् । तस्मादप्यतिगुरवः प्रलयेऽप्यचला महात्मानः ॥
pooooooood vaccccc
dिdddddo
शासनसम्राड्-विशेषः
७९
Page #87
--------------------------------------------------------------------------
________________
वचनसिद्धिः
__मुनिधर्मकीर्तिविजय: a) यो महानस्ति स न महान् भवितुं प्रयतते, यश्च प्रयतते स न कदाऽपि महान् भवति । अद्य जनाः प्रसिद्ध्यर्थमितस्ततोऽटाट्यन्ते, तदर्थं च विविधान् प्रयोगानपि कुर्वन्ति । तेष्वेकः प्रयोगोऽस्ति चमत्कारः । जनाः चमत्कृतिरागिणः सन्ति । “यत्र ) चमत्कारस्तत्र नमस्कारः" इति जनश्रुतिमनुसृत्य 'चमत्कृतिः' इति नाममात्रमपि निशम्याऽद्य बुद्धिमन्तः पण्डिताः संस्कारिणः श्रेष्ठिनश्चाऽपि सनेत्रनिमीलनमुन्मत्ता इव धावन्ति । अद्य केषाञ्चिज्जनानां हस्तात् कुङ्कम क्षरति, मन्दिरादिष्वमृतस्रवणं भवति, केषुचित् स्थानेषु रक्षणार्थं सर्पराज आगच्छति, केषाञ्चिज्जनानां देहेषु माणिभद्र-पद्मावती-कालिका-अम्बिका- इति देवदेव्यः प्रविशन्ति । अहो ! समाजे किं किं न प्रचलति ! चमत्कारस्य व्याजेन बहवो मायाविन: पापिनश्च जना मुग्धजनान् वञ्चयन्ति, स्वमायापाशे च बध्नन्ति । अत्र सत्यं कियदस्ति, इति तु चिन्तनीयमस्ति।
यः सात्त्विकः सज्जनः सरलः सत्यवादी चाऽस्ति स न कदाऽप्येवं करोति । एतादृशगुणवान् तु यद् यद् वदति तदवश्यंतया फलति, कार्यं चाऽपि सिद्ध्यत्येव । तथाऽपि सज्जना गुणिजनाश्च तं चमत्कृतिरूपेण पर्णयन्ति, न च स्वभक्तद्वारेणाऽपि प्रसिद्धयन्ति ।
__ अस्माकं गुरुदेवः पूज्यपाद-शासनसम्राटश्रीनेमिसूरीश्वरमहाराज एतादृशः सात्त्विकः सरलः सत्यभाषी चाऽऽसीत् । स मनोवाक्काययोगेन निर्मल आसीत् । स सदैव प्रसिद्धितो मायाप्रपञ्चतोऽसत्याचरणाच्च दूरमेव वसति स्म । एवं तस्य चित्तस्य विशुद्धिवशात् स यद् वदति स्म तत् सफलीभवति स्मैव । अतः स वचनसिद्धो महापुरुष आसीत् । तस्य पूज्यपादस्य जीवने चमत्काररूपेण कथ्यमाना बहवः प्रसङ्गाः सञ्जाताः । तथाऽपि न कदाचिदपि स्वयमन्येन वा चमत्कारस्य व्याजेन प्रसिद्धिमवाप्तुं प्रयतवान् । तस्य जीवने घटित एकः प्रसङ्गोऽत्र लिख्यते मया।
-
शासनसम्राड्-विशेषः
Page #88
--------------------------------------------------------------------------
________________
वि. सं. १९७२ वर्षे पूज्यपादः शासनसम्राट् सूरीश्वरो राजस्थानमध्ये 'फलोधी' ग्रामे चतुर्मासी स्थित आसीत् । तदा हि बहवः साधुवरा ज्वरेण पीडिता
आसन् । ततस्तेषां ज्वरपीडितानां साधुजनानां कृते स्थैण्डिलशुद्ध्यर्थं निर्जीवभूमेरावश्यकताऽऽसीत् । तदर्थं पूज्यपादेन श्रावकवर्यस्य 'श्रीफूलचन्दजी गोलेच्छा' महोदयस्य निर्जनमेकं स्थानं याचितम् । तेन महोदयेनाऽपि दत्ताऽनुमतिः ।
एकदा श्रीपद्मविजयमहाराजोऽस्मिन् स्थाने स्थण्डिलशुद्ध्यर्थं गतवानासीत् । तस्मिन्नैव काले गोलेच्छामहोदयस्य सेवकस्तत्राऽऽगतवान् । तेन तत्स्थानस्य द्वारमुद्घाटितं दृष्टम् । 'कथमुद्घाटितम् ? अन्तः कोऽप्यस्ति न वा?' इति किमप्यविचिन्त्य तेन द्वारं पिहितम् । स तु ततो निर्गतवान् ।
इतस्तेन श्रीपद्मविजयमहाराजेन तद्द्वारमुद्घाटयितुं बहवः प्रयत्नाः कृताः, किन्तु सर्वेऽपि ते प्रयत्ना निष्फला जाताः । पश्चात्तेन मुनिराजेन श्रीउदयविजयमुनिराजस्य नाम्नोच्चैराह्वानं कृतं, केनाऽपि न श्रुतम् । दीर्घकालो व्यतीतः । अतः पूज्यपादस्य मनसि प्रश्न उद्भूतः - 'एष साधुर्दीर्घकालाद् गतः, कथं पुनर्नाऽऽगतवान् ?' इति । तत्क्षणमेव तत्साधोरन्वेषणार्थं केचित् साधवो बहिर्गतवन्तः। अन्ते, कारणं ज्ञातम् । द्वारमुद्घाटितम् ।
पूज्यपादस्य चित्तमुद्विग्नं जातम् । तेन स सेवक आहूतः । उक्तश्च - 'भो ! वयं तु जैनसाधवः, सर्वमपि सहामहे । किन्तु भवता कदाऽपि संन्यासिनः । फकीरादयश्चाऽपि न सन्तापनीयाः । सर्पदशनादिदुष्फलं तेन प्राप्यते' ।
सोऽप्येतदङ्गीकृत्य ततो गतवान् । दैवात् स तत्स्थाने एवैकत्र स्थितं वत्सं निरीक्षितुं गतवान् । वत्सस्य पार्वे स्थितस्य घासपुञ्जस्य मध्ये कश्चित् सर्प आसीत् । स च तं तदा दष्टवान् । मूर्छामापन्नः स भूमौ पतितः । तं तथा दृष्ट्वा कश्चिद् गोलेच्छामहोदयाय निवेदितवान् । स हि त्वरितं तत्र प्राप्तवान् । गोलेच्छामहोदयस्य माता पूज्यपादस्य सकाशं गत्वाऽनुनीतवती यद् ‘माताऽस्य वृद्धाऽस्ति । तस्याश्चाऽयमेकल एव पुत्रः । अतः कृपां विधायाऽस्य रक्षणं कुर्वन्तु भवन्तः ।'
(
१. प्रस्रवणमलादिविसर्जनार्थम् ।
शासनसम्राड्-विशेषः
Page #89
--------------------------------------------------------------------------
________________
एतच्छुत्वा दयासागरो गुरुवरोऽपि खेदमाप्तवान् उक्तवांश्च – 'तस्मै घृतं पाययतु । सर्वं सुस्थं भविष्यति' । पूज्यपादस्य निर्देशानुसारेण घृतपानान्तरं झटित्येव निर्विषः स सञ्जातः । सुप्तोत्थित इवाऽक्षिणी उन्मील्योपविष्टवांश्च । सर्वेऽपि प्रसन्ना जाताः ।
सहजतयोच्चरितमपि महापुरुषाणां वचनं कथं फलवद् भवतीति प्रसङ्गेनैतेन ज्ञायते । एतादृशस्य वचनसिद्धस्य पूज्यपादस्य श्रीनेमिसूरीश्वरभगवतश्चरणयोः शताब्दीवर्षे कोटीशो वन्दनावलिः ।
अणुरपि मणिः प्राणत्राणक्षमो विषभक्षिणां शिशुरपि राजा सिंहीसूनु: समाहयते गजान् । तनुरपि तरुस्कन्धोद्धतो दहत्यनलो वनं प्रकृतिमहतां जात्यं तेजो न मूर्तिमपेक्षते ॥
८२
शासनसम्राड्-विशेषः
Page #90
--------------------------------------------------------------------------
________________
W
AAAAAAAAAAAAAAAAAAA
शासनसम्राड्-विशेषः
3
Page #91
--------------------------------------------------------------------------
________________
भज जिनराजम्
[ रागः भज गोविन्दं ]
भज जिनराजं भज जिनराजं भज जिनराजं चतुरमते ! पारावारे इह संसारे नहि किञ्चित् तव शरणं वाsरे ! ॥
मुनिकल्याणकीर्तिविजयः
क्रोधवशादन्धीभूतस्त्वं दर्पाल्लीनं ते नम्रत्वम् । मायावेशाद् विषधरसि त्वं लोभान्मुञ्चसि नैव ममत्वम् ॥
यौवनमदतो निर्जरायसे गुरूपदेशं नैव मन्यसे । वार्धक्ये ननु किं करिष्यसे ? दुरितशतैर्नूनं हनिष्यसे ॥
विरचय विशदां विषयविरक्तिं विमुञ्च पुद्गलद्रव्यासक्तिम् । शुचिभावनया कुरु जिनभक्तिं महाजनानां श्रुत्वा सूक्तिम् ॥
सावहितं कुरु चित्तनिरीक्षां कुरुष्व सन्ततमात्मपरीक्षाम् । स्वीकुरु सहजां शरीरशिक्षां ह्याद्रियस्व स्वयमेव सुदीक्षाम् ॥
कुरु गुरुवचनसुधारसपानं भक्त्या गाय च जिनगुणगानम् । धारय शीलं दृढमविगानं प्राप्नुहि धीर ! रुचिरकल्याणम् ॥
८४
Page #92
--------------------------------------------------------------------------
________________
-
सरस्वत्या वन्दनम्
डॉ. आचार्यरामकिशोर मिश्रः
हे श्वेतहंसपरिवाहिनि ! वन्दनीये ! गन्धर्वदेवदितिसूनुमनुष्यपूज्ये ! कुन्देन्दुशङनिभभास्वरगौररूपे !
वीणाप्रवादिनि सरस्वति ! देवि ! चन्दे ॥ १ ॥ पृथ्व्यात्मकं जननि ! गन्धमहं ददामि, धूपं ददामि पवनात्मकमत्र तुभ्यम् । दीपं च ते हि दहनात्मकमर्पयामि,
सर्वोपचारमयि देवि ! समर्पये ते ॥ २ ॥ सम्पादयित्रि ! नतभक्तमनोमुदो हे ! विज्ञानतत्त्वरसदे ! वदे ! यशोदे ! वेदान्तदे ! दह च मे जडतां सुवर्णे !
वीणाप्रवादिनि ! सरस्वति ! देवि ! वन्दे ॥३॥ वीणाधरे ! कमलवासिनि ! शुभ्रगात्रि ! ताराधिनाथवदने ! कविकीर्तनीये ! वागीश्वरि ! प्रथितपुस्तकधारयित्रि !
बुद्धिं प्रदेहि कवितावरदे ! नमस्ते ॥ ४ ॥ आनन्ददायिनि ! बुधार्चितपादपद्मे ! त्वामाह्वयामि हृदये कविताप्रदात्रि ! ज्ञानेश्वरी त्वमसि मङ्गलदे ! प्रसीद,
वीणाप्रवादिनि ! सरस्वति ! देवि ! वन्दे ॥५॥ अग्रे नमामि पुरतः प्रणमामि पश्चात्, भूमौ नमामि गगने प्रणमामि चोर्ध्वम् ।
अब्धौ नमामि च सरित्सु सरोवरेषु, वीणाप्रवादिनि ! सरस्वति ! देवि ! वन्दे ॥६॥
२९५/पट्टीरामपुरम्, खेकड़ा (बागपत) उत्तरप्रदेशः २५०१०१
,
Page #93
--------------------------------------------------------------------------
________________
गलज्जलिकाः
प्रा. अभिराजराजेन्द्रमिश्रः ।
(१)
निद्रिते लोचने
रोचते नो किमपि निद्रिते लोचने मोदते नो किमपि निद्रिते लोचने ॥ १ ॥ उर्वशीमेनकारुपराशिर्वृथा काम्यते नो किमपि निद्रिते लोचने ॥ २ ॥ भोज्यजातं सुधास्वादु नानाविधम् स्वाद्यते नो किमपि निद्रिते लोचने ॥ ३ ॥ नैव वंशीरवो नाऽपि वीणाध्वनिः गाहते नो किमपि निद्रिते लोचने ॥४॥ नैव भार्या, न पुत्रः कुटुम्बोऽथवा सेवते नो किमपि निद्रिते लोचने ॥ ५ ॥ हन्त, मृत्योः पदक्षेपरावे श्रुते चिन्त्यते नो किमपि निद्रिते लोचने ॥६॥ जीवनं नूनमम्भःपृषत्सन्निभम् इत्यपि ज्ञायते निद्रिते. लोचने ॥ ७ ॥ क्वाऽपयातं बलं भोगझञ्झास्पदम् ? नो परित्रायते निद्रिते लोचने ॥ ८ ॥ सर्वमासीन्ममैव, स्वयं साम्प्रतम् मुच्यते, का गतिर्निद्रिते लोचने ॥ ९ ॥
८६
Page #94
--------------------------------------------------------------------------
________________
(२)
यूयं यूयं वयं वयम् !! विश्वमिदं नूनं गृहकल्पं जगत् कुटुम्बं जानीमः तदपि समुत्थे स्वार्थारम्भे, यूयं यूयं वयं वयम् ॥ १ ॥ आकाश्मीरात् सिन्धुं यावन्निखिलमेव भारतमेकम् । किन्तूत्तरदक्षिणवादे सति, यूयं यूयं वयं वयम् ॥ २ ॥ सङ्गच्छामः सम्पश्यामः सन्तिष्ठामः क्षणे क्षणे संसदि किन्तु हते निजपक्षे, यूयं यूयं वयं वयम् ॥ ३ ॥ राष्ट्रमेकमस्माकं बन्धो ! वयं भारतीयाः सर्वे परं स्वजनपदपक्षरक्षणे, यूयं यूयं वयं वयम् ॥ ४ ॥ उपदिशन्ति नेतारो मञ्चे जातिधर्मयोः समभावम् । गृहमासाद्य परं मन्यन्ते, यूयं यूयं वयं वयम् ॥ ५ ॥ एक एव जगदीशः सकलं धुवं निर्ममे संसारम् । समीक्षिते ननु धर्मसम्बले, यूयं यूयं वयं वयम् ॥ ६ ॥ दक्षिणगङ्गाधिया न कैदक्षिणे स्तूयते कावेरी ?। किन्तु तदीये जलविभाजने, यूयं यूयं वयं वयम् ॥ ७ ॥ परकीये क्षेत्रे वयमेके सहयोद्धारो मानार्थम् । स्वात्मकुटुम्बे परं विभक्ता, यूयं यूयं वयं वयम् ॥ ८ ॥ मम गेहे, तव चक्रे बदरी - बादरायणः सम्बन्धः । ननु गन्त्रीरोहणनिवेदने, यूयं यूयं वयं वयम् ॥ ९ ॥ द्विशरीराः प्रमेकात्मानः सम्पतिते सङ्कटक्षणे । किन्तूत्सवमङ्गलवेलायां, यूयं यूयं वयं वयम् ॥ १० ॥ केयं शिक्षा कोऽयं धर्मः कीदृशमिदं तु बन्धुत्वम् ? । सत्स्वपि येषु जना मन्यन्ते, यूयं यूयं वयं वयम् ॥ ११ ॥
AL
८७
Page #95
--------------------------------------------------------------------------
________________
(३)
व्याहरामो वयं स्वागतं स्वागतम् !!
अस्मदीये कुटीरे भवानागतो व्याहरामो वयं स्वागतं स्वागतम् । हे महामान्य ! पूजार्ह ! वन्द्यातिथे ! कुर्महे ते वयं स्वागतं स्वागतम् ॥ १ ॥
शैलतुल्या क्च ते सद्गुणोत्तुङ्गता क्वाऽस्मदीयं लघुत्वं शिशुत्वाञ्चितम् । प्रीतिपूतैर्वचोभिस्तथापि प्रभो ! व्याहरामो वयं स्वागतं स्वागतम् ॥ २ ॥
नाऽस्ति पाद्यं न वायूँ न वा विष्टरं नापि नैवेद्यजातं किमप्यालये । भक्तिभावैरसीमैस्तथाऽपि प्रभो ! व्याहरामो वयं स्वागतं स्वागतम् ॥ ३ ॥
दीप्तभानुं यथा पङ्कजानां वनी श्लाघते पूर्णचन्द्रं त्रियामा यथा । पक्षिणश्चाऽभिनन्दन्ति कुजं यथा व्याहरामस्तथा तावकं स्वागतम् ॥ ४ ॥
त्वं समर्थप्रभुर्हन्त भक्ता वयम् वन्दनीयो भवान् वन्दनार्ता वयम् । आवयोरस्ति सम्बन्ध एषोऽनघो व्याहरामस्ततः स्वागतं स्वागतम् ॥ ५ ॥
८८
Page #96
--------------------------------------------------------------------------
________________
आशिषा श्रीमतां जीवनं चिन्मयम् धीमयं श्रीमयं ज्ञानदीपं भवेत् । राष्ट्रसौभाग्यरक्षाकराः रमो वयं व्याहरामो भवत्स्वागतं स्वागतम् ॥ ६ ॥
नैव भाषा, न भावो, न पूजाविधिनाऽपि लोकोपचारे समर्था वयम् । मुग्धमुग्धा वयं बालकल्पा विभो ! व्याहरामो भवत्स्वागतं स्वागतम् ॥ ७ ॥
हे गुरो ! त्वत्पदाम्भोजधूलीचयै
नमेतत्पवित्रीकृतं मन्दिरम् । धन्यधन्याः कृतार्था गृहीता वयं व्याहरामो भवत्वागतं स्वागतम् ॥ ८ ॥
सनराइज़ विला
लोअर समर हिल शिमला - १७१००५ (हि.प्र.)
कटु क्वणन्तो मलदायकाः खलास्तुदन्त्यलं बन्धनशृङ्खला इव । मनस्तु साधुध्वनिभिः पदे पदे हरन्ति सन्तो मणिनुपूरा इव ।।
Page #97
--------------------------------------------------------------------------
________________
гулуллулулл
नमो नमः श्रीगुरूनेमिसूरये ।।
HAR
मुनिधर्मकीर्तिविजयः
आत्मीयबन्धो ! चेतन !
धर्मलाभोऽस्तु । तव स्वास्थ्यमनुकूलं वर्तेत । वयं सर्वेऽपि कुशला निरामयदेहाश्च स्मः । सौराष्ट्रदेशस्य विहारयात्रां समाप्य चातुर्मास्यर्थं कर्णावतीनगरे आगतवन्तो वयम् ।
अद्य पाश्चात्यशिक्षणमुपलक्ष्य किञ्चिद् लिखामि । शिक्षणस्य विशेषत आवश्यकताऽस्ति, इति बोधोऽद्य देशस्य सर्वासामपि व्यक्तीनां चित्ते प्रवर्तते । बाल्यकालादेव बालमानसे पठनस्य तीव्रभारश्चिन्ता च विद्यते । अद्य बालकस्य बौद्धिकविकासो विशेषो दृश्यते । बाह्यदृष्ट्या पञ्चाशद्वर्षीयजनस्य बोधादपि पञ्चदशवर्षीयबालकस्य बोधो विशेषः सूक्ष्मश्च विज्ञायते । अत्र पाश्चात्यशिक्षणस्य प्रभाव एव कारणम् । अद्य प्रतिदिनं देशे समाजे च पाश्चात्यशिक्षणस्य महत्ता वृद्धि गता दरीदृश्यते । अहो ! पाश्चात्यशिक्षणं त्वस्माकं प्रतिष्ठाविषयः (status) कुलगौरवं चाऽस्तीति मन्यतेऽस्माभिः । गूर्जरभाषयाऽन्यभाषया च पठन् बालको हीनोऽस्तीति विचारधाराऽपि प्रवर्तते । तत एवाऽऽर्थिकस्थित्या मध्यमवर्गीयाः सामान्यजनाश्चाऽपि पाश्चात्यशिक्षणस्य दुराग्रहमासेवन्ते ।
बन्धो ! पाश्चात्यैर्भारतदेशे पाश्चात्यशिक्षणस्यैतादृश्या महत्तायाः स्थापनार्थं कथं बहुशो विविधाश्च प्रयत्नाः क्रियन्ते, इति किं त्वं जानासि ? भो ! अत्राऽपि तेषामाङ्ग्लजनानां दुराशयोऽस्ति । अद्यावधि तैराङ्ग्लजनैरार्यसंस्कृत्या नाशार्थं बहुशो बहुरीत्या च प्रयत्नाः कृताः, किन्तु सर्वेऽपि ते प्रयत्ना निरर्थका जाताः । विश्वस्मिन् विश्वेऽद्याऽऽर्यसंस्कृतिः सर्वमान्या विद्यते । आर्यजनैरेव तेषां पाश्चात्यानां शरणं नोररीकृतम् । एवमार्यजना एव तेषां दुष्टनीति दुराशयं च प्रत्याह्वयन्त्यपि । अतोऽन्ते तैः पाश्चात्यैरेतस्याः शिक्षणशैल्या आश्रयः कृतः । अस्माकं दुर्भाग्यं यदेषा
Page #98
--------------------------------------------------------------------------
________________
शिक्षणशैली विशेषतः सफलीभूता । वयं सर्वेऽपि सानन्दं सगौरवं च स्वकीयानां पुत्रादीनां सत्संस्काराणां विनाशकं पाश्चात्यशिक्षणं स्वीकुर्मः ।
भोः ! किमेतत् शिक्षणं मान्यमस्ति ? एतेन शिक्षणेन का का हानिर्भवतीति जानासि त्वम् ?
- बालकस्य शिरसि पठनस्यैतादृशो भार आरोपितो येन बालकैः स्वकीया नैसर्गिकी क्रीडैव विस्मृता । कौटुम्बिकजनैर्मेलनं सम्भाषणं धर्मचर्चा चैवं देवपूजनं गुरुपूजनं चेति सर्वमपि विस्मृतम् । एतेन बालका: शारीरिकदृष्ट्याऽपि दुर्बला जातास्तथा सत्संस्कारेभ्यो दूरीभूताः ।
- शालायाम् 'ईशुख्रिस्तस्य प्रार्थनं नमनं चाऽवश्यंतया करणीयम् । तस्यैव चिह्नमप्यङ्गीकरणीयमस्ति । न तु स्वकीयानां श्रद्धेयभगवतां नमनं स्तुति वा कर्तुं शक्ताः केऽपि जनाः । एवं श्रद्धानुरूपं तिलकं रक्षादवरकं रक्षायन्त्रं चाऽपि धारयितुं न शक्यन्ते । एतत्सर्वं त्वन्धश्रद्धायाः सूचकमित्युक्त्वाऽस्माकं महावीर-कृष्णराम-हनुमत्-शम्भ्वादीनां देवानामवमाननं कुर्वन्ति ते शिक्षकाः । एवं रीत्या स्वेष्टदेवताभ्यः स्वधर्मश्रद्धातश्च विमुखान् कुर्वन्ति । प्रभूणां पूजनं, तेषां भक्तिकरणे धनव्ययः, तपश्चरणमिति सर्वं निरर्थकम् । पीडितजनानां सेवा, तेभ्यश्च साहाय्यं करणीयम्, तदेव सत्यं सफलं च तथा वस्तुतो धर्मोऽपि तदेवेति वदन्ति ते शिक्षकाः ।
एवं शिक्षणस्य व्याजेनैते पाश्चात्या अस्माकं भगवतामुपर्यश्रद्धामरुचि चोत्पादयन्ति, तथाऽऽर्यसंस्कारेभ्यो विमुखान् कुर्वन्ति । एवं सत्यप्यस्माभिराङ्ग्लभाषाया एतादृश आदरः कृतो येनाऽद्य भारतदेशस्य सर्वेष्वपि राज्येष्वा
ङ्ग्लभाषायाः प्रभुत्वं वर्तते । अन्यराज्येषु त्वेतां भाषां विना सामान्यव्यवहारकरणेऽपि बाधाऽनुभूयते खलु । आङ्ग्लभाषां प्रत्यस्माकमेतादृशासक्तिवशादस्माभिरस्माकं संस्कारपोषणकाः संस्कृतभाषाया नितरामुपेक्षा कृता । अद्य कः संस्कृतं जानाति ? कस्य तां प्रत्यभिरुचिविद्यते ? को वा तत्पठनार्थं तथा तस्योत्थानस्य कृते प्रयत्नमपि करोति ? | बहवो जनास्तु तादृशाः सन्ति, येषां मनसि
Page #99
--------------------------------------------------------------------------
________________
ллллллллл
संस्कृतं प्रति घृणा (Alergy) वर्तते । यस्या भाषायाः प्रभावाद् वयं संस्कृताः स्मस्तस्या एतादृश्युपेक्षा ? न केवलं सामान्यजना अपि तु सर्वकारीया अधिकारिणः शिक्षणमन्त्रिणश्चाऽपि संस्कृतभाषाया उपेक्षामाचरन्ति । अन्यभाषाया विकासनार्थं तत्राऽप्याङ्ग्लभाषायाश्चोत्थानार्थं यादृग्रीत्या यावन्तः प्रयत्नाः क्रियन्ते, तदपेक्षया संस्कृतभाषाया उत्थानस्य कृते किं कृतम् ? किं च क्रियते ? संस्कृतभाषा परकीया दुहिता स्यादिति व्यवहरन्ति सर्वेऽपि जना अधिकारिणश्च । अन्यभाषया विद्वत्तां प्राप्नुवतामध्यापकानां समाजे महती प्रतिष्ठा भवति, आर्थिकवेतनं चाऽपि तैर्विशेषतः प्राप्यते । संस्कृताध्यपकानां समाजे किं गौरवं का वा प्रतिष्ठा ? तेभ्यश्च वेतनमपि किं दीयते ?
भो ! दौर्भाग्यबलेन गतवर्षे एका दुर्घटना जाता । उत्तरप्रदेशस्य राज्यपालो बनारसनगरे वर्तमानस्य सम्पूर्णानन्दविश्वविद्यालयस्य च कुलपतिः 'टी.वी. राजेश्वरवर्य' आसीत् । तेन महोदयेन विश्वविद्यालयस्य संस्कृतसमारोहे संस्कृतस्य कियदवमाननं कृतम् ? आङ्ग्लभाषां पठन्तु, तयैवोद्धारोऽस्ति, तयैव समाजे प्रतिष्ठा सन्माननं च प्राप्यते । यदि धनेच्छा स्यात् तर्हि आङ्ग्लभाषैव पठनीया । एवं संस्कृतभाषाया अवहेलनं विधायाऽऽङ्ग्लभाषाया महत्त्व वर्णिता प्रस्थापिता च तेन महोदयेन । संस्कृतविद्यालयस्य कुलपतिरेतादृशं यथातथं प्रलपति, तथाऽपि वयं शृणुमः । न कोऽपि प्रतीकारः क्रियतेऽस्माभिः-इत्यतोऽधिका दयनीया लज्जनीया वा का स्थितिः स्यात् ! ।
संस्कृतिरक्षणस्य व्याजेनाऽऽरार्टि कुर्वन्तः, कण्ठं विस्फोट्य भाषणं दधानाः, तुमुलं च कुर्वन्तः, रामस्य कृष्णस्य महावीरस्य च व्याजेन क्लेशं कुर्वन्त आर्यजनाः संस्कृतिरक्षकाश्च कुत्र गतवन्तः ? युष्माकं शक्तिः कुत्राऽन्तर्धानं प्राप्ता ? रामस्याऽवमाननं कुर्वतः प्रति किमपि न करणीयम् ? यस्याः संस्कृतभाषायाः प्रभावेनैव वयमेतादृशाः सज्जनाः सदाचारिणश्च स्मः, शान्तिपूर्वकं प्रेमपूर्वकं च वसामः । अन्यथा पाश्चात्यजनानामिव वयमपि संस्कारशून्याः क्रूराश्च स्याम । जगत्समक्षमेव दुराचारं हिंसनं मद्यपानादिकं च कुर्वन्तः स्याम । एवमेतस्याः संस्कृतभाषाया अस्माकमुपरि
Page #100
--------------------------------------------------------------------------
________________
महान् उपकारोऽस्ति, तथाऽप्येतस्या एवोपेक्षा ? एतत्त्वस्माकं पतनस्य सूचनमस्ति, इति ज्ञेयम् ।
इदानीमस्माकं संस्कृतिधर्मः कला संस्कारो जीवनरीतिश्चेत्यादीनां सर्वेषामपि प्रतिदिनं हासोऽनुभूयते । साम्प्रतं वयं बाह्यसम्पत्त्या धनाढ्याः स्मः, किन्तु संस्कारैराभ्यन्तरसम्पदा च नितरां दरिद्राः स्मः । वस्तुतस्तु धनिका न संस्कारिणोऽपि तु ये सदाचारादिगुणान्विता ते एव संस्कारिणः सन्ति । अधुना तु विपरीतं वर्तते । ये धनिकाः सत्ताधीशाः प्रतिष्ठिताश्च ते संस्कारिणः कथ्यन्तेऽस्माभिः । किन्तु | तन्नोचितमस्ति, यतो धनाढ्यता श्रीमत्ता च संस्कारिताया न प्रमाणपत्रमपि तु नीतिमत्ता सदाचारश्चैव । इदानीं देशे धनिकैः सत्ताधीशैश्च याऽराजकताऽशान्तिश्च प्रसारिता, साऽक्षम्याऽसह्या चाऽस्ति । अतो न कदाचिदपि धनिकाः संस्कारिण एव स्युः, इति भ्रम आसेव्यः । एतदपेक्षया 'वयं दरिद्रा' इत्युक्तं मया ।
बन्धो ! अस्माकं संस्कारदरिद्रतायाः कारणमेकमेवाऽस्ति- संस्कृतभाषाया उपेक्षा । भारतवर्षे विद्यमानानां सर्वेषामपि धर्माणां शास्त्राणि प्राय: संस्कृतप्राकृतभाषामयानि सन्ति । एषा भाषा तु देवभाषा मन्यते । एवं च पुरातनकालादेषा | भाषैव सर्वमान्या सर्वग्राहिणी चाऽऽसीत्, तथाऽधुनाऽप्यस्ति । पश्यतु, भारतवर्षे सर्वेषु ग्रामेषु नगरेषु, एवं विदेशेषु चाऽपि संस्कृतभाषैकरीत्यैव प्रवर्तते, न काचिदप्यन्या। गूर्जरभाषा केवलं गूर्जरराज्ये, कच्छीभाषा कच्छप्रदेशे, कन्नडभाषा कर्णाटकराज्ये किन्तु संस्कृतभाषा तु सर्वत्र प्रचलति । एतदेव प्रमाणीकरोति यत् | संस्कृतभाषैव सर्वमान्या सर्वग्राहिणी चाऽस्ति । भारतदेशे विद्यमानानां सर्वासां भाषाणामुपरि प्रायः संस्कृतभाषायाः प्रभावो दृश्यते, तत्राऽपि गूर्जरभाषाया उपरि तु विशेषतः प्रभावो दृश्यते । एवं संस्कृतभाषैवाऽऽर्यसंस्कृतेः प्राणरूपा गौरवप्रदा चाऽस्ति । दौर्भाग्यादेषैव भाषोपेक्षिताऽस्माभिः । भो ! मानवस्य जीवनविकासे केवलं वायु जलं वृक्षः पर्यावरणं चैव न कारणं, किन्तु मातृभाषा जीवनरीतिर्लोकगीतिः संस्कारिता चाऽपि कारणमस्तीति न विस्मर्तव्यम् । यदि यया भाषयाऽस्माकं जीवनविकासो भवति तस्या एव भाषाया उपेक्षा भवेत्तर्हि विकासः कथं स्यात् ?
Page #101
--------------------------------------------------------------------------
________________
अस्माभिः संस्कृतभाषायाः कृताया उपेक्षायाः फलमेतदेव यदद्य देशे आङ्ग्लभाषा सर्वत्र मान्या बभूव, संस्कृतभाषा च गौणीभूता । एवं विद्यालयेष्वपि आङ्ग्लभाषाऽनिवार्यरूपेण पाठ्यते तथा संस्कृतभाषा वैकल्पिकरूपेण पाठ्यते । अहो ! आर्यदेशे एव संस्कृतभाषाया ईदृश्युपेक्षा ?
बन्धो ! एवं लिखित्वाऽऽङ्ग्लभाषायास्तिरस्कारं नाऽहं करोमि, न च तत्पठनस्य विरोधमपि विदधामि । किन्त्वस्माभिः संस्कारपोषिकां संस्कृतभाषामवगणय्य याऽऽङ्ग्लभाषाया महत्ता प्रस्थापिता सा नोचिता, अत एवैतल्लिखितम् ।
अन्ते, त्वमपि पाश्चात्यशिक्षणेन जायमानां हानि विज्ञाय यथाशक्ति संस्कृतं पठ, अन्याश्च प्रेरय, संस्कृतं पठतां जनानां साहाय्यं कुरु, तथा संस्कृतभाषाया उद्धारार्थं प्रयतस्वेत्यपेक्षेऽहम् ।
лллллллл
आः किमर्थमिदं चेतः सतामम्भोधिदुर्धरम् । इति क्रुधेव दुधाः परदुःखैरपूरयत् ।।
Khan
९४
Page #102
--------------------------------------------------------------------------
________________
स्मरणम्
मुनिधर्मकीर्तिविजयः
पूज्यपादगुरुवर्यैः सह वयं सर्वेऽपि वर्षत्रयात् पूर्वं गूर्जरराज्यस्थे 'कच्छ'प्रदेशे दर विहरामः स्म । 'मांडवी-सुथरी-लाला-जखौ-नलिया' इत्यादीनां विभिन्नक्षेत्राणां तीर्थरूपाणि नयनरम्याणि कलाकृतिमयानि च जिनमन्दिराणि दृष्टानि । एवं तत्रस्थानां पुरातनकालीनानां चित्ताह्लादकारिणीनां प्रशान्तवदनानां च जिनप्रतिमानां दर्शनं विधाय प्रफुल्लितमानसा वयं विहरन्तः 'तेरा' ग्रामे आगतवन्तः ।
सायङ्काले भिक्षार्थमहं गतवान् । तत्र न कानिचिदपि श्राद्धानां गृहाण्यासन्, तत आहारार्थं भोजनशालायामेव गन्तव्यमासीत् । आवश्यकमाहारादिकं गृहीत्वोपाश्रयं समागतोऽहम् । कारणवशाच्च पुनस्तत्राऽहं गतवान् । ततो यदा प्रतिनिवर्तमान आसं तदा वर्त्मन्येका दीर्घकाया हृष्टपुष्टा तीक्ष्णशृङ्गा रक्तवर्णा च गौर्मे सम्मुखमागच्छन्ती दृष्टा मया । मां निरीक्ष्य प्रत्यक्षमेव स्थितवती सा । पश्चात्तु यथा यथाऽग्रे गन्तुं प्रयते स्माऽहं तथा तथा साऽपि मां प्रत्यागच्छन्त्यासीत् । मां दर्श दर्शं शृङ्गमूर्वीकृत्य ताडयितुमुद्यतेव साऽऽसीत् । नाऽग्रे गन्तुं न च प्रत्यावर्तयितुमपि शक्त आसमहम् । अग्रे गन्तुं कृताः सर्वेऽपि प्रयत्ना निष्फला जाताः । एवं दशक्षणा व्यतीताः । अहं तु नितरां भीत: ! द्रस्तस्थानि पात्राणि पतिष्यन्ति, गृहीत आहारो भूमौ पतेत्, हस्तपादा अपि व्रणिता भवेयुः । अतः 'किं भवेत् ?' इति चिन्तयतो मे देहे कम्पनमारब्धं, श्वासोच्छवासस्य गतिरपि वृद्धि गता, समग्रो देहः स्वेदक्लिन्नो जातः । ।
स मार्गोऽपि निर्जन आसीत् । वर्त्मनि गमनागमनं कुर्वन्तो न केऽपि जना | दृष्टिपथमागच्छन् । अन्ते, शनैः शनैर्मार्जारपदेन पृष्ठपादेन च मया भोजनशालां | प्रत्यावर्तयितुं प्रयत्न आरब्धः । सक्रोधं रक्तनेत्रवती साऽपि तामेव दिशं प्रत्येवाऽऽगतवती।
यदा मया भोजनशाला दृष्टा तदाऽतित्वरया गत्या धावमानोऽहमन्तः प्रविश्य द्वारं | पिहितवान् । साऽप्युच्छलन्ती सक्रोधं भोजनशालायाः प्राङ्गणे प्रविश्य नेत्रकर्णमूर्वीकृत्योत्थिता। तदा तत्रत्यैर्जनैः पृष्टोऽहं सर्वं कथितवान् । अन्ते तैर्जनैः
Page #103
--------------------------------------------------------------------------
________________
किञ्चिदाहारं पुनः पुनः सन्दUऽन्यस्यां दिश्याकृष्टा सा । यदा साऽऽहारं भक्षयितुं प्रवृत्ता तदाऽहं विना शब्दं सभयं च बहिनिर्गतवान् । पुनः पुनः पृष्ठतो दृष्टिं प्रकुर्वन् झटिति प्रविष्टवानुपाश्रयम् । शीतकालेऽपि सर्वाणि वस्त्राणि स्वेदक्लिन्नानि जातानि । मन्दरक्तसम्मर्दानां यादृशी स्थितिर्भवति तादृशी स्थितिर्मे जाता ।
गुरुदेवेन पृष्टम् - भोः !! किं जातम् ? कथं कम्पसे ? कथं भयभीतो दृश्यसे? कथं च वस्त्राण्यपि सर्वाण्यार्दीभूतानि जातानि ?
मया सर्वमपि कथितम् । सर्वेऽपि मित्रमुनिवरा हसितवन्तः । अहमपि हसितवान् । किन्तु यदा यदा प्रसङ्गमेतं स्मरामि तदा क्षणं तु देहे भयं प्रसरति । ।
UUUUU
nnnnnn
Ki
17
UUUU
MEL: unny
mmmmmmmmmmmmmm अद्याऽपि दुर्निवारं स्तुतिकन्या भजति शुद्धकौमारम् | सद्यो न रोचते सा सन्ताऽप्यस्यै न राचन्ते ।।
९६
Page #104
--------------------------------------------------------------------------
________________
अनुवादः। सौन्दर्यस्य नवं द्वारम्
__ मू. - जेरोम वीडमनः अनु. - मुनिरत्नकीर्तिविजयः
एकदा कस्यचित् प्रसिद्धजनस्य गृहे भोजनायाऽहं निमन्त्रणं प्राप्तवान् । भोजनानन्तरं दृश्यद्वयं दृष्ट्वाऽहं किञ्चिदस्वस्थोऽभवम् । एकं तु, सेवकास्तत्र चतुष्पदीनां विन्यासं कुर्वाणा आसन् । अन्यच्च समक्षमेव भित्त्याः समीपे वाद्यानि स्थापितान्यासन् । मयाऽद्य सङ्गीतं श्रोतव्यं भविष्यतीति तेनाऽहं कल्पितवान् ।
'श्रोतव्यं भविष्यतीति शब्दप्रयोगोऽयं मम साभिप्रायोऽस्ति । यतः सङ्गीतं हि मम कृते सर्वथाऽर्थशून्यमेवाऽऽसीत् । प्रायोऽहं स्वरबधिर एवाऽऽसम् । सामान्यानपि स्वरानहं बहुप्रयत्नेनैवाऽभिज्ञातुं शक्नुयाम्; तत्राऽपि गभीरं वा शास्त्रीयसङ्गीतं तु मम कृते विविधानां ध्वनीनां मिश्रणमेव केवलमासीत् । अतो हि यत्र कुत्राऽप्यहमेवं पाशबन्धनमिवाऽनुभवेयं तदा यां रीतिं प्रयुज्यां तामेव रीतिमहमत्राऽप्युपयुक्तवान् – एकत्र स्थानं गृहीत्वा मुखं च बोधभावेन प्रशंसाभावेन चोपलिप्य कर्णव्यापारं च स्थगयित्वा विचारपरम्परायामहं लीनो जातः ।
किञ्चित्कालानन्तरमहमनुभूतवान् यन्मां परित उपविष्टा जनाः करतलध्वनिना सङ्गीतविषयकं स्वकीयमानन्दमभिव्यञ्जन्ति स्म । अतो मयाऽपि सावधानेन भवितव्यमित्यहं विचारितवान् । तावद् मृदुरपि विस्मयावहो हृदयस्पर्शी कश्चिद् ध्वनिमया श्रुतः - 'बाकमहाशयस्य सङ्गीतं भवते रोचते खलु ?' इति ।
बाकविषयकं मम ज्ञानं तावदेवाऽऽसीद् यावदणुविस्फोटनविषयकम् । किन्तु, नित्यमोष्ठद्वयमध्यस्थितधूमवर्तिकस्य विकीर्णश्वेतकेशस्य विश्वप्रसिद्धस्य च तस्य जनस्य मम सम्यक् परिचय आसीत् - अहं हि 'आल्बर्ट आइन्स्टाइन'महोदयस्य समीप उपविष्ट आसम् ।
. 'हं.....' अस्वस्थतयाऽहं प्रत्युत्तरितवान्; किञ्चित् क्षोभमपि प्राप्तवान् । प्रश्नोऽयं स्वाभाविकतयैव पृष्ट आसीत् । प्रत्युत्तरं हि मया कदाचिदुपेक्षया प्रदत्तं स्यादपि किन्तु मम समीपोपविष्टस्य तस्य महाशयस्याऽनन्यसाधारणी दृष्टिरेवं सूचयन्त्यासीद् यन्नैष व्यवहार औपचारिकः केवलम् । वार्तालापस्याऽस्य मम
९७
.
Page #105
--------------------------------------------------------------------------
________________
Coboob
मनसि किञ्चिन्मात्रमपि मूल्यं न स्यात् किन्तु तस्य कृते तु तन्महत्त्वपूर्णमासीत् । अपरं च तस्य प्रतिभैव तादृश्यासीद् यदस्य पुरतोऽसत्यभाषणं स्वल्पमपि कर्तुं नोचितमित्यहमनुभूतवान् !
'बाकविषयेऽहं किमपि न जानामि' - किञ्चिद् दुविधयाऽहमुक्तवान् - 'तस्य सङ्गीतं हि पूर्वं कदाऽपि मया नैव श्रुतम्' ।
आइन्स्टाइनमहोदयस्य मुखेऽपि व्यग्रतामिश्रितमाश्चर्यं प्रसृतम् । 'अपि बाकमहोदयस्य सङ्गीतं नैव श्रुतं भवता ? ' तस्य घोष एव तादृश आसीद्, यथा कश्चित् पृच्छतीव-अपि भवता कदाऽपि स्नानमेव न कृतम् ? इति ।
मया त्वरितं प्रत्युत्तरितम् - 'सङ्गीतविषयेऽहं बधिरप्रायोऽस्मि । कस्याऽपि सङ्गीतं मया श्रुतं नाऽस्तीत्येव सत्यम्' इति ।
वयोवृद्धस्य तस्य महाशयस्य मुखे चिन्ता व्याप्ता । 'अपि मया सहाऽऽगमिष्यति भवान् ?' अकस्मादेव स पृष्टवान् ।
उत्थाय च स मम हस्तं गृहीतवान् । जनसम्मर्दमध्यात् स मां बहिर्नीतवान् । विकला च मम दृष्टिरास्तरण एव कीलितेव जाता । एतद् दृष्ट्वाऽऽश्चर्यचकितेषु जनेषु मन्दं मन्दं जायमानः कलकलध्वनिः खण्डाद् बहिर्निर्गमनं यावदस्माभिः श्रुतः । किन्तु, आइन्स्टाइनमहाशयस्तं बाढ मुपेक्षितवान् ।
दृढतया स मां गृहस्योपरितनभूमिकां नीतवान् । स हि तद्गृहस्य व्यवस्थया सम्यक् परिचितोऽस्तीति तस्य व्यवहारेण प्रतीयते स्म । खण्डमेकमुदघाट्य स मामन्तरुपवेशितवान् । स्वयं च तस्य द्वारं पिहितवान् । पश्चाद् वेदनामिश्रितेन स्मितेन स मां पृष्टवान् - 'अथ कथयतु नाम यत्-सङ्गीतविषये एतादृशो भावः कियता कालेन प्रवर्तते ?'
'आ प्रारम्भादेव' - अहमुक्तवान् । अनेनाऽस्वास्थ्यमहमनुभवन्नासम् । अत: - ‘डॉ. आइन्स्टाइनमहोदय ! अहमिच्छामि यद् भवानधः सभायामुपविश्य सङ्गीतमास्वादयतु नाम । अहं तदास्वादयितुं न शक्नोमीत्यस्य नाऽस्ति तावत् किमपि महत्त्वम्' इति कथितवानहम् ।
एतच्छ्रुत्वा स तथा मस्तकं व्यधूनयद् यथा मया किमप्यसम्बद्धं
९८
Page #106
--------------------------------------------------------------------------
________________
Post:
प्रलपितं स्यात् ।
'अप्यस्ति तादृशं किमपि सङ्गीतं यद् तुभ्यं
'हम्... हम्.... सशब्दं यत् स्याद् यस्य च स्वराणामनुगुञ्जनं मम शक्यं स्यात् तादृशं हि सङ्गीतं मह्यं रोचेताऽपि ।
पुनः स पृष्टवान्
रोचेत ?' इति ।
सस्मितं स मस्तकमधुनोत् । मम प्रत्युत्तरेण स आनन्दितो जात इत्येतेन स्पष्टं ज्ञायते स्म ।
'उदाहरणतः ?'
....
'चित्रपटसङ्गीतगायकस्य बिंगक्रोस्बीमहाशयस्य यत्किमपि गीतम् ' सधैर्यमहं प्रत्युत्तरितवान् ।
'साधु साधु ।' पुनः स मस्तकं व्यधूनयत् । प्रकोष्ठस्य कोणे स्थिताद् लघुकोष्ठाच्च ध्वनिमुद्रिकान्वेषणं स प्रारब्धवान् । अहं ह्यस्वस्थतयैव तच्चेष्टितं निरीक्षमाण आसम् । अन्ततस्तस्य मुखं विकसितमिवाऽभूत् 'आह !' इत्यानन्दोद्गारस्ततो निःसृतः ।
स हि ग्रामोफोन-यन्त्र सञ्चालितवान् । पञ्चषनिमेषैरेव च बिंगक्रोस्बीमहाशयस्य - 'व्हेर ध ब्लु ओफ ध नाइट मिट्स ध गोल्ड ऑफ ध डे (यत्र हि रात्र्या नीलिमा दिवसस्य सुवर्णमाश्लिष्यति) इति गीतेन खण्ड: स समग्रतया व्याप्तो जातः । त्रिचतुरपङ्क्तयो गीतस्य प्रवृत्ता । अनन्तरम् आइन्स्टाइनमहोदयः सानन्दं मां प्रति दृष्ट्वा पृष्टवान् - 'अथ कथयेत् किल यद् भवता किं श्रुत' मिति ?
गीतस्य गानमेव प्रश्नस्यैतस्य सरलमुत्तरमासीत् । महता कष्टेनाऽहं मम स्वरभङ्गं संरुध्य यथाशक्यं माधुर्येण तदगायम् । तेन आइन्स्टाइनमहोदयस्य मुखे यो भावः समुद्गतः स उदीयमानस्य सूर्यस्य प्रकाशतुल्य आसीत् । 'अरे वाह !' मम गानेन समुल्लसित: स उक्तवान् - 'भवान् सङ्गीतं बुध्यत एव !' इति ।
-
' तत्तु मम प्रियं गीतमासीत् । बहुशश्च तन्मया श्रुतमप्यासीद्, अतो नाऽस्त्यस्य गाने किमपि वैशिष्ट्यम्' इत्यादिरूपं किमपि तदाऽहं स्वगतमिव
जल्पितवान् ।
९९
Page #107
--------------------------------------------------------------------------
________________
) X ५
आइन्स्टाइन उक्तवान् - 'अरे ! मैवं चिन्तयतु । इदमेव विशिष्टं महत्त्वपूर्ण चाऽपि । अपि स्मरति भवान् यद् विद्यालये गणितं कथं शिक्ष्यते ? प्रथमं तावदकानां परिचयो दीयते । अथाऽङ्कानां परिचयदानानन्तरमेव यदि बहुलानामङ्कानां गुणनं विभजनं वा शिक्षयितुमारभेत तदा किं भवान् तत कर्तुं शक्नुयात् ?'
"नैव, किल ! "
'आम् सत्यम् !' आइन्स्टाइनमहाशयो विजयीव मुद्रां कृतवान् - 'सत्यमेवैतद् यद् भवान् तथा कर्तुं नैवाऽशक्ष्यत । अपि च तदर्थं दुःखमपि भवतः स्यादेव । गणितविषये भवत उत्साहोऽपि मन्दोऽभविष्यत् । परिणामतः
शिक्षकस्यैतादृश्या लघ्व्या अपि क्षतेः कारणादाजीवनं भवान् गणितस्य 5) सौन्दर्यमानन्दं वा नैव प्राप्स्यत् ।'
धूमवर्तिका तस्य पुनस्तरङ्गिता जाता - 'किन्तु, गणितशिक्षणस्य प्रथम एव दिवसे न कोऽपि शिक्षक एतादृशं मूर्खत्वमाचरेदपि । प्रथमं स सामान्यबोधं दद्यात् । अङ्कानां सुकरं गुणनं विभजनं वा स प्रथमं शिक्षेत । पश्चाच्च शनैः शनैः स कठिनं गुणनादिकं शिक्षेत । सङ्गीतविषयेऽप्येषैव रीतिः' - आइन्स्टाइनमहोदयो बिंगक्रोस्बीमहाशयस्य ध्वनिमुद्रिकां गृहीतवान् – 'एतन्मधुरमपि सुबोध गीतं सामान्यगुणनविभजनतुल्यमस्ति । तत्तु भवता सम्यग् ज्ञातम् । अथो भवानतोऽपि किञ्चित् कठिनं सङ्गीतमवबोद्भुमर्हति ।'
स ह्यन्यां ध्वनिमुद्रिकां मृगयित्वा वादितवान् । 'ध ट्रम्पेटर' इति गायतो जोह्नमेक्कोरमेकस्य मधुरो ध्वनिः सर्वत्र प्रसृतः । पञ्चषनिमेषानन्तरं स गीतं स्थगितवान् - 'अथ भवानस्याऽनुगानं करिष्यति, सत्यम् ?'
अत्यन्तं जागरूकतया स्वयमपि चाऽहमाश्चर्यं प्राप्नुयां तावताऽवधानेनाऽहं तस्य गानं कृतवान् । आइन्स्टाइनमहोदयो मां निरीक्षमाण आसीत् । तदा हि तस्य वदने यादृशो भावः समुद्भूतस्तादृशं भावमहं जीवने तत्पूर्वमेकश एव दृष्टवानासम् : विद्यालयस्याऽन्तिमे दिने यदाऽहं वक्तव्यं कृतवान् तदा मम पितुर्वदने तादृशो भावः समुद्गत आसीत् ।
_ 'सुन्दरम् !' मम गानानन्तरम् आइन्स्टाइनमहाशय उक्तवान् 'अद्भुतम् । अथ चेदम्-'
अमा
१००
Page #108
--------------------------------------------------------------------------
________________
Rohi
तदनन्तरं गीतं ततोऽपि कठिनमासीत्; किन्तु तथाऽप्यहं प्रयतवान् । तेन च आइन्स्टाइनमहोदयस्य वदनमाह्लादेन प्रकाशितमिवाऽभूत् ।
तदनु च प्रायोऽन्या द्वादश ध्वनिमुद्रिका वादिता: । अस्य महतो जनस्यैनां पद्धतिमधिकृत्याऽहं प्रथमत एवाऽस्वास्थ्यमनुभवन्नासम् । आकस्मिकतयैवाऽहं तस्य सन्निधिं प्राप्तवानासम्; अधुना चाऽत्र यत् प्रवर्तमानमासीत् तत्र हि स तथैकाग्रो जातो यथाऽहमेव केवलं तस्य चिन्ताया मध्यबिन्दुः स्याम् ।
एवमेव शनैः शनैरस्माकमियं सङ्गीतयात्रा शब्दरहितसङ्गीतपर्यन्तमागता । अथ मया शब्दशून्यानां केवलं स्वराणामेवाऽनुगानं करणीयमासीत् । उच्चैश्च स्वरालापो मया प्रारब्ध: । तच्छ्रुत्वा आइन्स्टाइनमहोदयस्य वदनं विकसितमिव जातम् । मस्तकं च तस्य पश्चाद् गतम् । मदर्थं चाऽप्राप्यप्रायं मम प्रापयितुं साहाय्यं चिकीर्षुरिव तस्य तच्चेष्टितमासीत् !
स हि ग्रामोफोन - यन्त्रं स्थगितवान् ।
'अथ'... स्वहस्तेन मम हस्तं स गृहीतवान् : 'बाक-सङ्गीताय वयं सज्जाः किल ! '
सभामध्ये आवयोः स्थानमावां पुनर्गृहीतवन्तौ । तदा च गायकास्तत्र नवीनं कञ्चित् स्वरं संयोजयन्त आसन् । 'मुक्तमनसा केवलं शृणोतु तावत् ' आइन्स्टाइन - महोदयो मम कर्णे मन्दमुक्तवान् : 'नाऽधिकं किमपि करणीयम् ।'
किन्त्वधिकं तु तेनैव कृतमासीत् । कस्यचित् सर्वथाऽपरिचितस्य जनस्य कृते ये प्रयत्नास्तेन कृतास्ते यदि न कृताः स्युस्तर्हि बाकमहोदयस्य 'शीप मे सेइफली ग्रेझ' - इति गीतं मया कदाऽप्यास्वादितं न स्यात् । तदनु च तद्गीतं मयाऽनेकशः श्रुतम् ; तच्छ्रवणेन च न कदाऽपि मया खेदोऽनुभूतः । यतो नाऽहं कदापि तदेकलः शृणोमि, किन्तु यदा कदाऽप्यहं तच्छृणोमि तदा श्वेतविकीर्णकेशस्य ओष्ठद्वयमध्यस्थितधूमवर्तिकस्य विस्मयसम्भृतनेत्रस्य तस्य जनस्य सान्निध्यं सततमनुभवाम्येव ।
समारम्भसमाप्तौ मया यः करतलध्वनिः कृतः स मम हार्दिक - मानन्दमेवाऽभिव्यनक्ति स्म ।
सहसैव कार्यक्रमस्य निमन्त्रणदात्री स्त्री अस्माकं पुरः समुपस्थिता 'अहं बहु विषण्णाऽस्मि, डॉ. आइन्स्टाइनमहोदय !' म्लानदृष्ट्या मां निरीक्षमाणा
१०१
Page #109
--------------------------------------------------------------------------
________________
कक
सा जल्पितवती - 'यद् भवान् सङ्गीतस्य बहुलानंशान् श्रोतुं नाऽशक्नोत्' इति ।
स
आवामुभावपि तत उदतिष्ठताम् – 'अहमपि विषण्णोऽस्मि' 'एवं सत्यप्यहं मम मित्रं च विश्वेऽस्मिन् मनुष्येण कर्तुं
प्रत्युत्तरितवान् शक्यायां श्रेष्ठप्रवृत्तौ प्रवृत्तावास्ताम्' इति ।
-
'सत्यं किल ? का सा प्रवृत्तिः ?' निमन्त्रिकायाः स्त्रिया मुखे व्याकुलता प्रकटितेवाऽभूत् ।
आइन्स्टाइनमहोदयः स्मितं कृतवान् मम स्कन्धोपरि च स्वहस्तं स्थापितवान् । पश्चात् स यदुक्तवान् तदर्थमेकोऽप्ययं जनस्तस्याऽनन्तमृणभारं सदैवाऽनुभविष्यति । तदेव तस्य वचनं तत्पुण्यस्मृतावञ्जलिरूपेण प्रत्यर्प्यते'सौन्दर्यस्यैकं नवं द्वारमस्माभिरुद्घाटितम्' इति ।
विगृहीतः पदाक्रान्तो भूयो भूयश्व खण्डितः । माधुर्यमेवाssवहति सुश्लोक इव सज्जनः ॥
-
१०२
Page #110
--------------------------------------------------------------------------
________________
कथानायी
मुनिकल्याणकीर्तिविजयः
(१) भगवन्नाम्नः शक्तिः
एकदा एकः कश्चिद् राजा निरागसं कञ्चिद् ब्राह्मणं हतवान् । पश्चात् तेन स्वीयो दोषो ज्ञातः । अतः पश्चात्तापपूर्णः सन् स ब्रह्मवधस्य घोरपापात् स्वात्मनो मोचनार्थं प्रायश्चित्तं कर्तुं स कस्यचिद् ऋषेराश्रमं गतवान् । ऋषिस्तु कार्यवशात् कुत्रचिद् गतवान् आसीत् । अतो राज्ञा तच्छिष्याग्रे स्वपापं प्रकटितं प्रायश्चित्तं च पृष्टम् । शिष्येण किञ्चिद् विचार्य कथितं - 'भो राजन् ! शुद्धेन मनसा भवान् त्रिभगवतो नाम गृह्णातु, भवतः सर्वोऽपि दोषो विनक्ष्यति शुद्धश्च भवान् भविष्यति।' राजा तं नमस्कृत्य स्वनगरं प्रतिनिवृत्तः ।
इत आश्रमे प्रतिनिवृत्त ऋषिः शिष्यमुखाद् राज्ञः प्रायश्चित्तविधानं श्रुत्वाऽतीव रुष्टो जातः । स स्वशिष्यमुपालब्धवान् - 'भो ! केवलमेकवारमेव गृहीतमपि भगवन्नामाऽसङ्ख्यानां जन्मनां पापानि नाशयितुं समर्थमस्ति । तथाऽपि भवता राजे त्रिर्भगवन्नाम जपितुमादिष्टं तद् भवतः श्रद्धाया ऊनत्वं ज्ञापयति ।'
(२) कैतवम्
एकस्य सज्जनस्य पार्श्वे एक उत्तमोऽश्व आसीत् । अत्यन्तं सुन्दरो जात्यश्च सोऽश्वस्तस्मै अत्यधिकं प्रिय आसीत् । कदाचित् स तमश्वमारुह्याऽश्वचालनं कुर्वन् केनचिद् धनिकेन वणिजा विलोकितः । अश्वं दृष्ट्वैव स वणिग् विस्मयमुग्धो जातः । तेन चिन्तितं यद् 'यद्ययमश्वो मदीयः स्यात् तदा कियद् वरम् ? अहमप्यसाविवाऽश्वचालनानन्दं प्राप्नुयाम् । जनेषु च मम गौरववृद्धिरपि भवेत् ।'
ततः स तस्य सज्जनस्य गृहसङ्केतं प्राप्य तत्पावें गतः । तेनाऽपि स वणिक् सम्यक् सत्कृत्योचिते आसने उपवेशितः । विविधं वार्तालापं कुर्वन् सोऽवसरं प्राप्य तस्याऽश्वस्य विक्रयणार्थं तं प्रार्थितवान् । किन्तु सज्जनेन तत्प्रार्थनं निराकृतम् ।।
१०३
Page #111
--------------------------------------------------------------------------
________________
तदाऽनेन पुष्कलं धनं नैके चोष्ट्रास्तदश्वात् प्रति निवेदितास्तथाऽपि तेन सज्जनेन स्वोऽश्वोऽ तिप्रियत्वात् नैवाऽर्पितस्तस्मै ।
अथ च स वणिक् 'कथमप्ययमश्वो मया हस्तसात् कर्तव्य एवे 'ति निश्चयं कृत्वा तत्प्राप्त्युपायांश्चिन्तितवान् । 'अयं ह्येवमेव मेऽश्वं नैव दास्यत्यत एनं वञ्चयित्वैवाऽश्वं हरिष्यामि' - इति विचार्य स रोगिणो भिक्षुकस्य वेषेण राजमार्गे उपविष्टः । यदा स सज्जनस्तेनैव मार्गेणाऽश्वचालनं कुर्वन् समागतस्तदा तस्य भिक्षुकस्य दुरवस्थां दृष्ट्वा तच्चित्ते करुणा समुत्पन्ना । तत्समीपं गत्वा स कथितवान् • 'भोः ! कुत्र जिगमिषति भवान् ? उपविशतु ममाऽश्वोपरि । गन्तव्यस्थाने भवन्तं प्रापय्याऽहं प्रत्यागमिष्यामि ।' कपटभिक्षुकोऽपि तन्निशम्य शनैः शनैरश्वमारूढः । सज्जनश्चाऽयं यावत् पदातिरेव गन्तुं प्रवृत्तस्तावता स वणिक् कशयाऽश्वं प्रहृत्य वेगेन गच्छन्नुक्तवान् - ‘भो ! भवता तदा मया बहुशो याचितेऽपि महता मूल्येनाऽपि मेऽश्वो न दत्तस्ततो मया भवानेवं वञ्चितो भवदश्वं प्राप्तुम् ।'
तदाऽयं सज्जन उच्चैस्तं कथितवान् - 'भो ! यदि भवता कैतवेन ममाऽश्वो गृहीतस्तदा भवत्वेवं नाम । भवानश्वं गृहीत्वा गच्छतु तं च सम्यक् पालयतु । किन्तु भवता कस्यचिदपि वञ्चनवार्तेयं न कथयितव्या । अन्यथा जनाः सर्वेऽप्यत्यधिकं सावधाना भविष्यन्ति दीन-दु:खिनां च सहायकरणे साशङ्का भविष्यन्ति कदाचिद् विरंस्यन्ति चाऽपि । अनेन च बहवो दुःखिनः सहायं न प्राप्स्यन्ति ।'
1
एतच्छ्रुत्वा स भिक्षुवेषी धनिको बहु लज्जितो जातस्तदैव चाऽश्वतोऽवरुह्य तस्य सज्जनस्य पादयोः पतितः, तस्मै चाऽश्वं प्रत्यर्प्य तेन सह मैत्रीं कृतवान् ।
(३) भाग्यं फलति छदिषोऽपि
सोऽतीव सौम्यो भद्रिको नीतिमांश्चाऽऽसीत् । यद्यपि दारिद्यं तं बहु पीडयति स्म, तथाऽपि कुमार्गैर्धनमर्जयितुं स्वप्नेऽपि न विचारयन् स सन्तोषेणैव निजजीवनं यापयति स्म । सौभाग्येन तत्पल्यपि तत्सदृश्येव स्वभावेनाऽऽसीत् । अतः सुखेन • तयोः सहजीवनं प्रचलति स्म ।
१०४
Page #112
--------------------------------------------------------------------------
________________
एकदा केनचित् कार्येण राजमार्गानिःसृतस्य तस्य पादः शिलाखण्डेनैकेन में पथि पतितेन घट्टितो जातः । तीव्रवेदनया पीडितः स तत्रैवोपविष्टः । किञ्चिद्वेलानन्तरं
दरोपशान्तवेदनः स चिन्तितवान् यद् 'अयं शिलाखण्डो यद्यत्रैव पतितः स्यात् तर्हि बहूनां जनानां सङ्घट्टनं भविष्यति पीडाव्रणादिकं चाऽपि भविष्यन्ति । अत एनमित उत्थाप्याऽन्यत्र स्थापयेयं येन कस्यचिदपि बाधा न भवेत् ।'
ततो यावत् स तं शिलाखण्डमुन्नीतवान् तावता तदधः सुवर्णमुद्राभिः पूरित एकस्ताम्रघटस्तत्दृष्टिपथमायातः । तं घटं दृष्ट्वाऽनेन चिन्तितं यत्, 'केनाऽपि स्वीयं धनमत्र निधिरूपेण गोपितमस्ति तत्प्रत्यभिज्ञार्थं च सङ्केतोऽपि कृतोऽस्तीति ज्ञायते, अतो न मयाऽयं परकीयो निधिग्रहीतव्यः, अत्रैवाऽयं तिष्ठतु नाम ।' एवं विचार्य स ततो निर्गत्य गृहं प्राप्तः ।
रात्रौ वेदनार्ते पादे औषधं लेपयन् स स्वपत्नी तत्सर्वं सुवर्णमुद्रापूरितघटादिवृत्तं कथितवान् । अथ तद् वृत्तं तदैव तस्य गृहे चौर्यार्थमागतश्चौरः कश्चिच्छृतवान् । 'अहो ! विनाऽऽयासेनैव यद्येतावद् धनं प्राप्येत तर्हि कः क्षात्रादिपरिश्रमं वा कुर्यात् ?' इति चिन्तयन् स चौरस्तेन निर्दिष्टं स्थानं गत्वा झटित्येव तं शिलाखण्डमपनीतवान् । ततो लघुदीपसाहाय्येन यावत् तदन्तः पश्यति तावत् तत्र वृश्चिकैः पूर्णो घटस्तेन दृष्टः । तदा क्रोधेन, 'हुम्-इयती वञ्चना ! इदमिदानीमेव तस्य वञ्चनायाः फलं दर्शयामि' इत्यादि चिन्तयन्नसौ तं घटं गृहीत्वा तस्य जनस्य गृहं प्राप्तो, गृहोपर्यारुह्य पटलं चाऽपसार्य गृहमध्ये एव तं घटं 'सर्वे वृश्चिका एनं दशन्तु' इति बुद्ध्याऽधोमुखीकृतवान् । तावता खणणण--- इति ध्वनि कुर्वत्यः सर्वा अपि सुवर्णमुद्रास्तस्य जनस्योपर्येव पतिता।
____एतद् दृष्ट्वाऽतीव हृष्टः स कथितवान् यद् 'यदा भाग्यं फलति तदा छदिषं पाटयित्वाऽपि ददाती'ति ।
१०५
Page #113
--------------------------------------------------------------------------
________________
स आसीन्मम तातपादः
प्रा. अभिराजराजेन्द्रमिश्रः इलाहाबादनगरस्य दारागञ्जश्मसानघटे तस्य शवो दह्यमान आसीत् ममाऽनुगतानां कार्यालयीयाधीनस्थकर्मचारिणामन्येषां च परिचितमित्राणां विशालसमवायो मा सहैव तत्र स्थित आसीत् । विचित्रैवाऽऽसीदुभयोः स्थितिः - ममाऽपि च, सम्मर्दस्य चाऽपि ।
शवोऽयं न मम पितुः, पितृव्यस्य, कुटुम्बिनो, ज्ञातिजनस्य वाऽऽसीत् - इति a निपुणं जानन्त एव तत्रस्था जना न मां तथा सान्त्वयितुमुद्यता आसन् यथा ते दिवङ्ग 8 सति कस्मिन्नपि ममाऽऽत्मीयेऽभविष्यन् । तथाऽपि मया क्रियमाणायामस्यामन्त्येष्ट्यां, 15 यस्य कस्याऽपि वा, ते सर्वेऽपि सम्मिलिता आसन् ।
. सर्वेषामेव मुखमण्डलं निर्लेखकर्गजपर्णमिव प्रत्यभासत । सर्वेषामेव नयनयोः ० प्रश्नाः प्लवन्त इव पर्यलक्ष्यन्त । तत्सर्वमहं न ज्ञातवान् इति न । तथाऽप्यनवसरवशाद
वयं सर्वेऽपि मौनमेवाऽऽश्रित्य स्थिताः । एवं सत्यपि केचित् केषाञ्चित् कर्णेषु । Bor किञ्चिदुद्वमन्त आसन् । तदहं सम्यक्तया ज्ञातवान् । वस्तुतो यद्रहस्यं ते मां निवेदयितुमैच्छन्, *
तथा कर्तुमशक्ताः सन्तस्तदेव तेषां सहस्थानां कर्णेषु विन्यस्यन्ति स्म । परन्तु तावताऽपि 8 तेषामुत्कण्ठाप्रशमनं न जातमित्यहं तर्कितवान् । यतो हि महताऽऽदरभावेन दाह्यमानोऽयं ॐ जनो मया सह केन सम्बन्धेन सम्बद्ध आसीदित्यहं स्वयं न ज्ञातवान् । का कथा र पुनरपरेषाम् ? R अन्त्येष्टिः सम्पन्ना। मृतात्मने, मया मत्सहचरैश्च समवेतैः श्रद्धाञ्जलयोऽर्पिताः । 9. भागीरथ्या जलेन शवदाहभूमिं शीतलीकृत्य वयं सर्वेऽपि स्वगेहानुपावृत्ताः । मार्गेऽपि, - पदातय एवाऽग्रेसरन्तो वयं स्वमौनव्रतं सम्यक्तया नियूंढवन्तः । ततश्च गृहमासाद्य,
पूर्वत एव स्थापितं तत्रत्यमग्निमुपस्पृश्य निम्बपर्णं च दन्तैरीषन्निकृत्य सर्वेऽपि 8 सहयायिनः स्वगृहं प्रस्थिताः ।
अहमप्येकादशदिनानि यावद् मृतकाशौचं निर्वहन्, सायं प्रातर्गङ्गातटं गत्वा । तस्मै प्रेतात्मने जलाञ्जलिं दत्त्वा, पिप्पलतरुशाखावलम्बितं घटं जलेनाऽऽपूर्य ,
पक्वश्यामाकचूर्णनिर्मितं पिण्डं प्रदाय धूपदीपादिकं च प्रदाऽन्ते साञ्जलिपुटप्रणाम १० क्षमायाचनं च कृत्वा गृहमागच्छम् । सकृदेव सायङ्काले स्वहस्तनिर्मितं स्वादुभोजनं
१०६
Page #114
--------------------------------------------------------------------------
________________
:::
कृतवान् । कदाचित् घृतशर्कराप्रचुरं पायसं कदाचित् पूरिकाशाकं, कदाचिमाषराजमाषमिश्रितं कृशरं, कदाचिदापणादानीतं रसगोलकजातं, कदाचिच्च सक्तुगर्भा शष्कुलीं वृन्ताकालुकचौक्षसहितामशित्वा परमां प्रीतिमुपगतोऽहम् । यावदेव स्वादु भोजनं भक्ष्यते तावदेव परितुष्टिर्जायते प्रेतात्मन इति कुलवृद्धा मां समुपादिशन् ।
ततश्च दशमे दिने दशगात्रकर्म सम्पन्नम् । महापात्रः पिण्डदानादिकार्यं सम्पाद्य शाखालम्बितघटं स्फोटितवान् । गृहसदस्याश्च सर्वे शिरोमुण्डनं कारितवन्तः । मृतकाशौचमद्य परिसमाप्तम् । पृथग्भोजनमप्यवसितम् ।
अन्येद्युः श्राद्धकर्म प्रारब्धम् । तदासीन्निखिलदिवसव्यापि । श्वेतवस्त्राच्छादिते शरपत्रच्छदियुक्ते विस्तृतमण्डपे सर्वमपि कार्यं धर्मानुष्ठानं च सम्पन्नं जातम् । पार्श्ववर्तिन्यां 'वैतरण्यां सवत्सां धेनुं संस्थाप्य मया सा सरिदुत्तीर्णा । सपिण्डीकरणाऽनन्तरं महापात्रं वैकुण्ठमण्डपे समुपवेश्य यथाशक्ति प्रदत्तदक्षिणाभिस्तं प्रसादमावमापाद्यऽऽत्मानं कृतकृत्यं धन्यधन्यं तातपादादनृणं चाऽहं कृतवान् । त्रयोदशे दिवसे ब्राह्मणभोजनाख्यः सामाजिकः कश्चिदुपक्रमोऽपि पूर्तिमभजत् । वस्तुतो ब्रह्मभोजेन सहैव सर्वमपि गृहवातावरण सामान्यं जायते ।
स आसीन्मम तातपादः ।
परन्तु ममानेन कथनेन को लाभः ? यतो हि ममाऽस्मिन्नङ्गीकारेऽप्यासन् अनेके प्रत्यवायाः । यदि नामाऽसौ मम तातपाद एवाऽऽसीत् तर्हि कथं न मया सह ममाऽऽवासेऽवसत् ? कथं न मया सहैवऽभुङ्क्त ? इतः प्राक् क्वाऽऽसीदसौ ? न या कदाप्यसौ मध्येमित्रमण्डलं चर्चितः परिचायितो वा ! सर्वेऽपि नागरिका मां पितृविहीनं कुटुम्बिजनविरहितमेव परिचिन्वन्ति । आत्रिंशद्वर्षेभ्यो नगरेऽस्मिन् एकल एव स्थितोऽस्मि । विवाहानन्तरमेव पुत्रकलत्रतृतीयोऽस्मि सञ्जातः ।
इत्यपि सर्वे चिन्तयन्ति स्म यत् को नु जन्मदाता पिता मत्सदृशस्य श्रेष्ठाधिकारिपदप्रतिष्ठितस्य विद्याविनयसम्पन्नस्य पुत्रस्य गर्वं नोवहति ? यदि पुनर्दिवङ्गतोऽसौ जन: परमार्थत एवाssसीन्मम जन्मदाता पिता तत्कथं नु मत्तः पृथगवस्थातुमशकत् ? नाऽऽसीदसावसाध्यरोगजर्जरो, न वा विरक्तः संन्यासी, न चाऽपि मया परित्यक्तो बहिष्कृतो वा ? तत्कथमासीदसौ मम तातपादः ?
प्रश्नमिमं समाधातुमेव पाठकानतीतेऽनेहसि नयामि ।
१०७
०४४०४०००
०४:००:
Page #115
--------------------------------------------------------------------------
________________
द्वादशकक्षां प्रथमश्रेण्यां समुत्तीर्य शिक्षाग्रहणार्थं प्रयागमागत आसम् । ग्रामटिकामृत्तिकायां समुत्पन्नस्तावता कालेन इलाहाबादनगरमपि सम्यक्तया न ज्ञातवान् । । परन्तु ममैव ग्रामस्य निवासी श्रीपालः प्रयागनगरे रिक्शायानं चालयति स्म । अन्त्यजकुलोत्पन्नोऽसौ मया सहैव पञ्चमी कक्षां यावत् शिक्षामग्रहीत् । पश्चादसौ . गृहदैन्यवशात् पठितुं नाऽशकत् । परन्तु सहाध्ययनकाले मयि नितरामसौ स्निग्ध *
आसीत् । ततश्चाऽसौ कुटुम्बपोषणार्थं किञ्चिदर्जितुं निजावुत्तेन सार्धमिलाहाबाद- नगरमुपागमत् । विगतसप्तवर्षेभ्योऽसौ तत्रैवाऽऽसीत् ।
यदाऽसौ मां प्रथमश्रेण्यामुत्तीर्णं श्रुतवान् तदा स्वहर्षं प्रकटयितुं मामपश्यत् । चिरकालानन्तरमावयोः सङ्गमो जातः । स कदाचिदेव ग्राममागच्छति स्म । o आगतोऽप्यसौ प्रायेण स्ववसतावेव निरुद्ध आसीत् । यावदहं तमागतं शृणोमि, तं
च मिलितुं निश्चिनोमि तावदसौ प्रयागं प्रतिष्ठितोऽश्रूयत । विचित्रैवाऽऽसीदावयोः । स्थितिः ।
परन्तु सम्प्रत्यावां सम्मुखीनौ जातौ । स मां महतोत्साहेन हर्षेण च BF वर्धापितवान् । भूयोऽप्यवदत् ।
- बन्धो ! ग्रामेऽस्मिन् रत्नकल्पोऽसि । कुलं ग्रामः क्षेत्रं जनपदः सर्वेऽपि भवता *
सदर्थिताः । भवत्सहपाठित्वेनाऽहमपि धन्यो जातः । मातृपितृसुखवञ्चितोऽपि समाजैकशरणो भवान् यथा शिक्षां गृहीतवान् तन्निदर्शनभूतमन्येषां कृते ।
सम्प्रति क्व पठितुमभिलषति भवान् ? - श्रीपाल ! पार्श्ववर्तिनि महाविद्यालय एव गन्तुमिच्छामि ! - बदलापुरस्थे प्रतापगञ्जस्थे वा ? श्रीपालोऽपृच्छत् । - यत्र कुत्रापि सरलतयाऽर्थसाहाय्यमुपलभ्येत । सर्वमेव जानाति भवान् ।
भोजनस्याऽपि सम्यक् प्रबन्धो न वर्तते । अत एव नगरस्थे विद्यालये क्वचिद् गन्तुं क्व मे शक्तिः ? मया भणितम् । - भ्रातः ! स्वर्णकुद्दालो दर्शनाय भवति न पुनर्धरित्रीखननाय । यद्यल्पशिक्षितोऽहम् । इलाहाबादनगरमुपगन्तुं समर्थोऽभूवं तहि कथं न भवान् तत्रस्थे विश्वविश्रुतविश्वविद्यालये शिक्षां गृहीतुं समर्थः ? सोऽपि मयि तत्र विद्यमाने ? - श्रीपाल ! बन्धो ! तव स्नेह एवं भाषते । जानामि भवदीयं हृदयम् । तथाऽपि
१०८
Page #116
--------------------------------------------------------------------------
________________
नगरनिवासव्ययो न मया सोढुं शक्यते । यद्यपि सुनिश्चितमिदं यत् छात्रवृत्तिर्मयोपलप्स्यते, तथाऽपि प्रारम्भे तु सर्वतोभावि कृच्छ्रमेव समवलोक्यते । न मम भालपट्टेऽङ्कितः प्रयागविश्वविद्यालयः । - साधूक्तं भवता । नाऽङ्कितो भवद्भालपट्टे प्रयागविश्वविद्यालयः । तत्कार्यमहं
करिष्यामि । साट्टहासमवादीत् श्रीपालः ।
बन्धो ! जानात्येव भवान् यन्मूर्तिकारा न भवन्ति भगवन्माहात्म्यविशारदाः । शिलालेखटाङ्किका न भवन्ति पण्डिताः श्लोकार्थवेत्तारः । कविप्रणीतं पद्यजातं • जयघोषणादिकं दर्श दर्शमेव सयत्नं तत्सर्वमुट्टङ्कयन्ति ।
एवमेव भवबालमित्रमहमपि पञ्चमकक्षोत्तीर्णो भवद्भविष्यमजानन्नपि भवद्भालपट्टे प्रयागविश्वविद्यालयं लिखामि ।
पश्य बन्धो ! इलाहाबादनगरोपकण्ठस्थिते गडरियापुरनाम्नि ग्रामे वयं प्रायेण . विंशतिमिता रिक्शाचालका निवसामः । कस्यचिदाभीरस्य तद् गृहम् । तत्रैवाऽस्माभिः सह भवानपि कोणे कस्मिंश्चित् निवसतु । स्वकीयं भोजनं स्वयमेव पचतु । यथाऽहमात्मनः कृते गोधूमचूर्ण-द्विदल-तैल-लवण-शाकादिकस्य प्रबन्धं करोमि । * तथैव भवतोऽपि प्रबन्धं विधास्ये !
बन्धो महेश्वर ! पण्डितकुलोत्पन्नोऽसि । अत्र ग्रामटिकाविद्यालये न ते प्रतिभा विकासमवाप्स्यति । पामराणां सङ्गतौ क्व परिष्कारः ? परन्तु तत्र प्रयागे सुरुचिसम्पन्नानां साहचर्ये भवज्जीवनं देदीप्यमानं भविष्यति । - तदलं विचार्य । मया सहैव प्रस्थातव्यम् । शापितोऽसि भवान् आवयोः
सौहृदेन । अस्मिन् विषये न केनाऽपि सह काऽपि मन्त्रणा कार्या, न वा . साहाय्यं ग्राह्यम् । अहमस्मि भवता सहैव !
इति श्रुत्वैवाऽहं श्रीपालं सप्रणयमाकृष्य सपरीरम्भं क्रोडे कृतवान् । दिनद्वयानन्तरमेवाऽहं श्रीपालेन सार्धमिलाहाबादमागतवान् । यथाऽऽख्यातमासीत् र श्रीपालेन तत्सत्यमासीत् । विविधजात्युत्पन्नाः सर्वेऽपि रिक्शाचालका बन्धुत्वरज्जुनिबद्धा ,
महता प्रेम्णा तत्राऽऽभीरगृहे निवसन्ति स्म । केचन दिवाकाले, केचिच्च रात्रौ रिक्शां*
चालयन्ति स्म । केषाञ्चित् समवेतभोजनव्यवस्थाऽसीत् । कश्चिच्चैकल एव पचति : * स्म । प्रायेण सर्वेऽपि प्रतिवेशिग्रामवासिनो मिथ: परिचिता आसन् । तेषु द्वित्रा ० निर्धनब्राह्मणकुलोत्पन्ना युवानोऽप्यासन् ।
१०९
Page #117
--------------------------------------------------------------------------
________________
श्रीपालः सविशेष निवेद्य, तैः साकमेव ममाऽपि भोजनप्रबन्धं कृतवान् । सर्वमिदानी सम्पन्नं जातम् । परिचये घनीभूते, प्रीतिरपि प्रगाढात् प्रगाढतरा जाता। सर्वेऽपि रिक्शाचालका मय्यतितरां स्निह्यन्ति स्म । यः कोऽपि विश्वविद्यालयदिशि
आगच्छन् मामपि सप्रणयं सनिर्बन्धं निर्भाटकमानयति स्म । सायङ्कालेऽपि प्रायेण * नगरादावासमुपावर्तमानः पथि मिलितः कोऽपि मां गडरियापुरं यावदानयति स्म ।
मम भाग्यद्वारमपावृतमासीदिदानीम् । श्रीपालकृपया सम्प्रत्यहं प्राच्यकेम्ब्रिजपदवाच्ये इलाहाबादविश्वविद्यालये प्रविष्टो जातः । संस्कृतेतिहासाङ्ग्लभाषाश्चेति त्रयो
मम पाठ्यविषया आसन् । E कतिपयमासनन्तरमेव छात्रवृत्तिरप्यवाप्ता । छात्रावासे कश्चित्कक्षोऽपि - मह्यमावण्टितः । सजलनयनः सन् सर्वान् रिक्शाचालकानकारणबन्धून् प्रणम्य, ॐ श्रीपालं च भूयो भूयः प्रचुम्ब्य, समालिङ्ग्याऽहं छात्रावासमागतवान् ।
. ताराचन्दच्छात्रावासात् नाऽतिदूर आसीद् विश्वविद्यालयः । अत एवाऽहं 3 पदातिरेव प्रायेण सार्धनववादने कक्षान्निष्क्रम्य कोषागार(बैङ्क)मार्गेणाऽऽसाद्य र पक्षद्वारदिशात एव विश्वविद्यालयमागतवान् । एवङ्करणे पञ्चदशनिमेषा एवाऽपेक्ष्यन्ते ।
कस्मिंश्चिद् दिने मम दृष्टिः क्वचित् केन्द्रिता जाता । अयमासीत् कश्चिदन्धो P भिक्षुकः । स खलु कोषागारमार्गस्थ एव कस्मिंश्चिद् वटवृक्षाधःस्थले स्थितो 'राम
राम ! राम राम !' इतिमात्रं रटन् परिलक्ष्यते स्म । न कोऽपि याञ्चाशब्दः, न वा । - किमपि निवेदनम् । न केनाऽपि सह वार्ता । न चाऽपि रामशब्दोच्चारणक्रमे काऽपि
त्रुटिः, भङ्गोऽवरोधो वा । सर्वथा निरपेक्षभावेन रामस्मरणं कुर्वन्नसौ महान् तपस्वी र प्रतीयते स्म ।
प्रथमदृष्टौ न मे किमप्यधिकमाकर्षणं जातम् । दशपणकानां मुद्रां कामपि तस्मै दत्त्वाऽहं विश्वविद्यालयं गतवान् । एवमेव कदाचित् किमपि दत्त्वा, कदाचिदत्त्वा, - कदाचिदुत्तरमनपेक्ष्याऽपि स्वप्रणामं निवेद्य, कदाचिच्च कतिपयनिमेषान् यावत् तस्य * रामस्मरणमुद्रामात्रं सश्रद्धमवेक्ष्याऽहं गतागतानि समपादयम् ।
स खलु धूसरप्रच्छदं स्वकीयमास्तीर्योपविशति स्म । पार्श्व एव तस्य लघ्वी वंशयष्टिः समुद्गकं चेति द्वयं दृश्यते स्म । कदाऽयमायाति, कुत आयाति, सायङ्काले 96 कुत्र गच्छति, रामस्मरणमध्यावधौ कदा मेहननिमित्तमुत्तिष्ठति, कदा वा जलं पिबति
११०
Page #118
--------------------------------------------------------------------------
________________
किञ्चिदश्नाति वा-इत्येते प्रश्ना ममाऽन्तरालोपवने झञ्झामिव समुत्थापितवन्तः । स
खलु निरन्तरमेव करतलद्वयं भूमौ संस्थाप्य, कायं प्रणिधाय, स्मिताननः सन् १ * रामनामस्मरणं कृतवान् । C विचित्र एवाऽऽसीदसौ भिक्षुकः । शतावधानः प्रतीयते स्म । काचिन्महिला * तस्मै पायसं प्रयच्छन्ती कथयति स्म-साधो ! अद्य मम गृहे पुत्रजन्मोत्सव आसीत् । 8
भवत्कृते पायसमानीतं मया । एतदिदं भवत्समुद्गके स्थाप्यते । अवसरमवाप्य , भुञ्जीथाः । तत्सर्वमाकर्पोऽप्यसौ स्मितकमात्रं प्रकटितवान्, स्वरामनामस्मरणं न
जातु स्थगयति स्म । एवमेव नित्यायायिनः केचन परिचयवशाद् निमेषमात्रं स्थित्वा 7 तस्य कुशलमनामयं पृष्ट्वैवाऽग्रेसरन्ति स्म ।
स खलु सर्वेषां वचनानि, प्रस्तावानशृणोत् । कदाचिद् द्वित्राणां पञ्चषाणां वा 5 वार्ता एकैकशोऽशृणोत्,सम्भूय वाऽशृणोत् । परन्तु समेषां प्रियजनानां कृते B तदुत्तरमेकमेवाऽसीत् - लघुस्मितकमात्रं रामनामसहकृतम् । इयमेवाऽऽसीत् तस्य
शतावधानता । अयमेवाऽऽसीत् तस्य समाधिर्योगो वा । कूर्मोऽङ्गानीव सर्वान्
बाह्यविषयान् सर्वश आत्मनि संहृत्य रामनाम्नि स्थितोऽसौ प्रकृत्यैव स्थितप्रज्ञः ॐ प्रतीयते स्म ।
मम पदगतिमेव प्रत्यभिज्ञायाऽसौ मुखमुद्यम्य स्मितं प्रकटयति स्म । यथा नु पृच्छत्येव माम्-वत्स ! विश्वविद्यालयं गच्छसि ? अपि सर्वं कुशलम् ? अध्ययन . सम्यक्तया प्रवर्तते ? काऽपि समस्या बाधते किम् ?
एते प्रश्नास्तेनाऽपृष्टाः सन्तोऽपि पृष्टा एव प्रतिभान्ति स्म । अहमपि कल्पितमात्रं तदीयं वात्सल्यसमुदाचारमनुभूय प्रत्यङ्ग प्रहृष्ट इव सञ्जातः ।
शनैः शनैर्ममाऽऽसक्तिस्तस्मिन् प्रगाढा सञ्जाता । इयमासीन्मदीया भक्तिर्वा निष्ठा वा? जिज्ञासा वा समुत्कण्ठा वा ? कुतूहलोपशान्तिप्रयत्नो वा तद्रहस्याधिगमप्रयासो वा? एतत्सर्वं नाऽहं वेद । तथाऽपि लौहखण्डमिव चुम्बकस्य तस्याऽऽकर्षणं मां प्रसह्याऽऽचकर्ष बबन्ध च ।
ततश्च कस्मिंश्चिद् दिनेऽहं सान्ध्यकाले तमुपगतः । अद्य मया सङ्कल्पितमासीद् । यद्रामनामस्मरणावसान एव तं द्रक्ष्यामि । सान्ध्यविद्युद्दीपा राजमार्गेषु गृहेषु चाऽपि
सन्दीप्ता आसन् । स खलु साञ्जलिपुटप्रणामं भगवन्तं प्रणम्य नामजपं परिसमाप्य । 1 प्रच्छदविकीर्णा दशपणक-विंशतिपणक-पञ्चाशत्पणकमुद्रा अन्विष्याऽन्विष्य संहर्तुं ।
१११
Page #119
--------------------------------------------------------------------------
________________
on प्रायतत । तावदेव पार्श्वमुपेत्य नमस्कृतं मया ।
- अये वत्स ! इयति सान्ध्यकाले उपावर्तसे ? अपि सर्वं कुशलम् ? - तात ! भवद्वचनं श्रोतुं कातरीभूता मे प्राणाः । षण्मासा व्यतीताः । न ते
वाणी मया श्रुता । केवलं स्मितकेनोत्तरमाशीर्वादं वा प्रयच्छसि । नाऽहं भवन्तं रामनामस्मरणारम्भात् प्राक् न चाऽप्यनन्तरं दृष्टवान् । ततोऽद्य सर्वमपि कार्यजातं हित्वा, भीष्मप्रतिज्ञां च कृत्वा समायातोऽस्मि । अद्य भवता सहैव भवदावासं गमिष्यामि ! मयोक्तम् ।
तदुपश्रुत्य भिक्षुकोऽसौ निर्भरं हसितुमारब्धवान् । तं तथा प्रहसन्तमवेक्ष्य सोत्कण्ठमहं पृष्टवान् - कस्मादेवं प्रहसति भवान् ?
- प्रहसामि यत् त्वमद्य मम गृहं गन्तुमिच्छसि । वत्स ! श्वापदस्येव न मम 18 किमपि गृहम् । यत्र कुत्राऽपि भूविवरमवाप्नोमि तत्रैव निर्भरं स्वपिमि । भगवत्या गङ्गायास्तटमेव मम गृहं जीवनयापनक्षेत्रं च । तत्र गत्वाऽपि किं करिष्यसि ? - भवदीयं भिक्षान्नपिटकं वहन् भवता सह वार्ता करिष्ये । - कियन्ति दिनानि यावत् ? - यावदत्र इलाहाबादनगरे स्थितोऽस्मि । यावच्च भवान् जीवति ! - वत्स ! मैवम् । किमिदं भणसि ? वहतो नीरस्य रममाणस्य योगिनो वा न कोऽपि निश्चितो मार्गः, न काऽपि नियता दिशा । लालि नवयुवा, . अहमस्मि वृद्धः । किं नु साम्यमावयोरवस्थयोः ? चिरञ्जीव शतञ्जीव इत्येव कामयेऽहम् । वत्स ! यन्निमित्तमागतोऽसि तदेव पूरय । शिक्षामवाप्य वृत्ति चोपलभ्य
सुखय स्वपितरौ कुटुम्बिनश्च । गच्छेदानीम् । सोऽवदत् ! -- तात ! नाऽहमद्य भवन्तं त्यक्ष्यामि । भवता सहैव गङ्गातटं यावत् चलिष्यामि ।
इति कथयित्वैवाऽहमन्धभिक्षुकस्य वंशयष्टिकां तद्धस्ते दत्त्वा, तत्समुद्गकं च । 8 वामस्मकन्धेनाऽवलम्ब्य तेन सह प्रस्थितः । चिरपरिचिते मार्गेऽसौ तथा निर्भयमग्रेऽसरद् 8 ॐ यथा दृष्टिसम्पन्नः स्यात् । अर्धहोरानन्तरमेव तेन साकमहं गङ्गापुलिनं यावदागतवान् । 8 स खलु मां दारागञ्जोपनगरसमीपस्थे सघनलतावृक्षनिचिते कस्मिंश्चित् कुटीरे समानयत् ।
११२
Page #120
--------------------------------------------------------------------------
________________
. इदं कुटीरं बन्धमार्गं निकषैवाऽऽसीत् । पार्श्व एव केचनाऽऽभीरा निवसन्ति स्म महिषीदुग्धव्यापारसंलग्नाः । अत एव तत्र पेयजलादिव्यवस्थाऽप्युपलब्धाऽऽसीत् । इतो गङ्गातटं नातिदूरस्थमासीत् । इदमेवाऽऽसीद् भिक्षुकस्य तस्य निवासमन्दिरम् । चिरं यावदहं तत्रैव स्थित आसम् । बन्धमार्गस्योपरिभागे केनचित् साधुना देवस्थानं निर्मापितमासीत् । दर्शनार्थिनां सम्मर्दः प्रातः सन्ध्यायां च तत्र दृश्यते स्म । तत्रैव चायपानादिकस्याऽपि व्यवस्थाऽऽसीत् । आगच्छतैव मया तत्सर्वं निपुणमवलोकितम् । अत एव वार्तामध्य एव तात ! सम्प्रत्येवाऽऽगच्छामीत्युक्त्वाऽहं बन्धमार्गोपरि गतवान् मल्लकद्वये चाऽत्युष्णचायपेयं निधाय समागतः ।
तात ! चायं गृहाण ?
बाढं बाढम् ! सम्यग् ज्ञातम् । मया चिन्तितं यन्मेहनार्थं गतोऽसि ! इदानीं ज्ञायते यच्चायपेयमानेतुं गतवानासी:- प्रसन्नतां प्रकटयन्निव सोऽवदत् । चायं पिबतोरावयोर्वार्ता प्रारब्धा । अहमिव सोऽपि मद्विषये परिज्ञातुं सोत्कण्ठ वाऽसीत् । आत्मविषये मया किमाख्येयमासीत् ? आख्यात्री जननी तु शैशव एव मां विहाय दिवङ्गता । तदाऽहं दशवर्षदेशीय एवाऽसम् । केवलमेतावदेव स्मृतिपथमायाति यन्मम गृहे भग्नावशेषबहुले न किञ्चिदप्यासीत् । प्रबलवर्षाभिमृत्तिकानिर्मितं सकलमपि गृहं धराशायि जातम् । खर्परच्छदि निर्माणाय धनमपेक्ष्यते । तदेव मम मातुः पार्श्वे नाऽऽसीत् । न हलं, न वृषभौ, न कोऽपि हलवाह: ! कृषिकर्माऽप्यसम्भवमासीत् ।
ပိုင်း င်း တိုင်း ပိုင်း ပိုင်း တိုင်း တိုင်း ပိုင် ပိုင်း တိုင်း ပိုင်း ပိုင်း တိုင်း တိုင်း ပိုင်း
-
एकस्मिन्नेवाऽवशिष्टे कक्षे जननी मामुत्सङ्गे कृत्वा शेते स्म । प्रायेणाऽसौ सम्मेलनव्याजेन मामादाय प्रतिवेशिनीनां गृहेषु पर्यटति स्म । परन्तु तस्या वास्तविकं लक्ष्यमासीत् क्षुत्क्षामकण्ठस्य मम कृते भोजनप्रबन्धः । काचिद् दयमाना प्रतिवेशिनी स्नेहवशादपृच्छदेव-वत्स ! महेश्वर ! किञ्चिद् भुक्तं न वा ? तच्छ्रुत्वा मयि स्तिमितनयने जाते सत्येव विदितयथार्था सा गृहलक्ष्मीर्मामुदरम्भरि भोजयति स्म । मां भुक्तवन्तं दृष्ट्वैव मम मातुरपि सम्यक्तृप्तिरिव जायते स्म ।
सप्तवर्षीयः सन्नहं शिक्षामवाप्तुं क्रोशत्रयदूरस्थे विद्यालये गतवान् । आसप्ताहं तत्रैवाऽध्यापकगृहे निवसन् शनिवासरे जननीं द्रष्टुं ग्राममागच्छम् । सप्ताहमध्ये जातु जनन्यपि वात्सल्यवशान्मां द्रष्टुं विद्यालयमागतवती । तदसौ कस्मिंश्चित् पात्रे पक्वं वास्तुकशाकं सर्षपतैललवणसम्मिश्रितं मत्कृते आनयति स्म । परन्तु रोटिकाया
११३
००००००००००००००० ०० ००० ००० ००० ००० ००० ००० ००० ००० ०० ०
Page #121
--------------------------------------------------------------------------
________________
अभावे कथं भक्षणीयः शाकः ?
अद्याऽऽत्मविषयेऽन्धभिक्षुकेण सदयं पृष्टः सन् तत्सर्वं स्मृतवान् । हन्त ! साऽकिञ्चना सत्यपि मत्सर्वस्वभूता जननी करालकालेन प्रसह्य लुण्ठिता । द्वादशवर्षदेशीय एवाऽऽसं यदा ममाऽम्बा दुर्निवारप्लेगाख्यसङ्क्रामकरोगेणाऽपहृता । तत एवैकलोऽहं जात: । केषाञ्चित् सानुकम्पमहानुभावानां साहाय्येन, कासाञ्चिच्चाऽन्नपूर्णानां जननीनां वात्सल्येन, मृत्योर्वारितः सन् द्वादशकक्षामुत्तीर्णवानहम् । तत्सर्वं मया यथास्मृति तातपादाय निवेदितम् । कथान्ते च स्वबालमित्रस्याऽन्त्यजकुलोत्पन्नस्य श्रीपालस्याऽपि कृपावृत्तं वर्णितं मया ।
ममाऽऽख्यानमाकण्र्यैव भिक्षुकोऽसौ स्फुटितहृदयः सन् गाढगाढं रोदितुं प्रवृत्तः । किंकर्तव्यविमूढोऽहं जातः । किमपराद्धं मयेति ममाऽप्यज्ञेयमेवाऽऽसीत् । तात ! कथं रोदिति भवान् ? ससाध्वसं पृष्टवानहम् ।
-
-
न किमपि न किमपि वत्स ! अश्रूणि प्रोञ्छन्या मार्जयन् सोऽवदत् । वत्स महेश्वर ! अतीव करुणा ते जीवनकथा । बहु दुःखं सोढं त्वया ! हे राम ! हे प्रभो ! किमेवं शातयसि निर्दोषान् ?
तात ! मर्मनिकृन्तनीं मम व्यथां भवानिदानीमपि न जानाति । तामपि भवते निवेदयिष्ये । निर्भयमवदमहम् ।
काऽसौ वत्स ? सविस्मयमन्धभिक्षुः प्रावदत् ।
तात ! ग्रामे एतादृशोऽपि लोकापवादो मद्विषये परिव्याप्त आसाद्यत् पितर्युपरते सति, महता विलम्बेनाऽहं मातृगर्भात् समुत्पन्नः । एवंवादिनां जाल्मानां किमुद्देश्यं किं वा विवक्षितमासीदिति भवानपि सम्यक्तया वेत्ति । परन्तु तथ्यमिदं न केनाऽपि प्रत्यक्षमभिहितं न चाऽपि मया प्रत्यक्षं श्रुतम् । तथाऽपि सर्वमिदं श्रुत्वा जाबालायां सत्यवत इव ममाऽप्यास्था जन्मदात्र्यां दृढीभूता । साधु साधु ! चिरञ्जीव वत्स ! इत्यसकृद् ब्रुवाणोऽन्धभिक्षुर्बाहू प्रसार्य मामुत्सङ्गे समाकुञ्च्य बहुश: प्रचुम्बितबान् । चिरं यावन्न कोऽपि भूयोऽप्याननमुद्घाटितवान् । मामकीं व्यथाकथां निशम्य स भिक्षुवरस्तु करतलद्वयं ललाटस्थले विन्यस्य शान्तशान्तोऽतिष्ठत् ।
तावदेव मया भणितम् - मन्येऽवसादितो मया भवान् । तत् क्षन्तव्योऽहमस्मि ।
११४
:::::
******६:४२:००:०४:०
Page #122
--------------------------------------------------------------------------
________________
6 एतदपराधभयादेव भवद्विषये नाऽद्य किञ्चित् पृच्छामि । सम्प्रति गमिष्यामि । % अन्यथा भोजनकालेऽतिक्रान्ते सति भोजनालयकक्षोऽर्गलित एव सन्द्रक्ष्यते । , 9 भूयोऽप्यागमिष्यामि । इत्युक्त्वा यावदेवाऽहं गन्तुमैच्छं तावदेव तातोचितादेशगिरा मां सम्बोधयन्नसौ भिक्षुरवदत् - - वत्स ! मदिच्छाविरुद्धमेव मय्यासक्तोऽसि जातः । मदिच्छाविरुद्धमेव मया :
सह मत्कुटीरं यावत् समागतोऽसि । अहमपि तावदीश्वरेच्छां मत्वा सर्वमपि । तव प्रस्ताव स्वीकृतवान् । ईश्वरेच्छयैव प्रेरितः सन् स्वकीये दारुणदुर्घटितप्रचुरे जीवने प्रवेष्टुं त्वामहमनुमतवान् । सर्वथाऽसम्बद्धमपि दृष्टिहीनमिमं भिक्षुकं तातपदेन सम्बोध्य समादृतवानसि । तदिदानी ताताधिकारेणैव त्वामहमनुशासिष्यामि । ममाऽऽदेशं स्वीकरिष्यसि नवा ? मह्यं वचनं देहि। तातोऽवदत् । - तात ! कोऽयं सन्देहः ? त्वत्कृते जीवनमपीदं समर्पितम् । कथं न भवद्वचनं
करिष्ये ? अहमुक्तवान् ।। - साधु, तर्हि समोदं गच्छ । श्वस्तने सान्ध्यकाले भूयोऽपि वार्तां करिष्ये । ___ततश्च छात्रावासमहमुपावृत्तः । परन्तु मध्येमार्ग चिन्तेयं नितरां बाधिततवती * यत् किमनुशासिष्यति मां तातपादः ? किं मां भूयोऽप्यागन्तुं निषेधिष्यति ? उताऽहो वर्धमानं सम्बन्धमुच्छेत्तुं कथयिष्यति ? यद्येवमभूत् तर्हि दत्तपरिपालनवचनः किमहं करिष्ये ? कथं नाऽद्यैव सर्वं स्फुटीकृतं मया ?
एवं चिन्तयमान एवाऽहं छात्रावासमुपावृत्तः । ततश्चाऽग्रिमेऽहनि सान्ध्यकाले भूयोऽप्यहं भिक्षुवरेण सार्धं तत्कुटीरमगच्छम् । परन्त्वद्याऽऽवयोः साहचर्ये मुखरता नाऽऽसीत् । अहमपि भीत इवाऽऽसम् । साधुरपि प्रायेण मौनमेव समाश्रयत् ।। - अथ मां ह्यस्तनं वृत्तं स्मारयन् भिक्षुकोऽसौ निजात्मकथामश्रावयत् -
पार्श्ववर्तिन्येव कस्मिंश्चिद् ग्रामेऽसौ निवसति स्म । पापपरायणाः प्रतिवेशिनः * धनवैभवोन्मत्ताः तद्गृहस्थाने काञ्चित् कर्मशाला निर्मापयितुमैच्छन् । परन्त्वसौ
स्वपितृपितामहानां भवनं भूमिं च परित्यक्तुं कथमपि समुद्यतो नाऽऽसीत् । तत एव. 8 ईर्ष्याद्वेषरोषोपहतचेतसस्ते जाल्माः कस्याञ्चिद् रात्रौ तस्य पत्नीं पुत्रं च निर्दयं हतवन्तः।
तस्याऽपि गृहपतेर्नयनयोविषाक्तं क्षाररसं भृतवन्तः ।।
-
-
११५
.
Page #123
--------------------------------------------------------------------------
________________
कुटुम्बविनाशसन्तप्तो विनष्टदृष्टिश्च मासं यावदसौ नेत्रौषधालयेऽवसत् । परन्तु कृतेऽपि बहुश उपचारे नेत्रज्योतिर्न मनागप्यवाप्तम् । स्फुटितनेत्रोऽसौ भूयोऽपि स्वग्रामं 100 नैवोपावर्तत । व्यथितो हताशः सन्तप्तः सन् सर्वमिदं स्वपूर्वजन्माचरितदुष्कर्मपरिपाकमानं . मत्वाऽसौ रामनामस्मरणमेव जीवनालम्बनं विधाय प्रयाग एव स्थितो जातः । पुत्रकलत्रहीनोऽधुना कं नु द्रष्टुं ग्रामं गच्छेत् ?
रोदनपुरस्सरं कथेयं मया श्रुता । आसीन्मे मनसि - हे परमेश्वर ! एवंविधाः 8 पापा अपि मनुष्या एव कथ्यन्ते ? आत्महिताय परेषां विनाशः ? स्वकर्मशाला
निर्मापयितुं परकीयभवनोत्पाटनम् ? कुतस्त्योऽयं न्यायः ? आः दैव ! तातपादानां
सर्वानन्दोपनिचितः कुटुम्ब एव क्षयमुपनीतः ? क्रोधामर्षवशान्ममाऽन्तराले भूकम्प 5 इव समुत्थः । शोकवेगं यथाकथाञ्चिन्नियम्य मयोक्तम् ।
-- तात ! इतोऽग्रे भवच्छातकानां विनाश एव भविष्यति मज्जीवनलक्ष्यम् । तान् ।
पापानहमवश्यं न्यायालयकोष्ठागारे स्थापयिष्यामि । सरोषमवदम् । - न, न । न कदाऽपि । वत्स ! मैवम् । प्रतिज्ञातं त्वया ह्यस्तनसन्ध्यायाम् ।
ममाऽनुशासनं स्वीकरिष्यसीति दत्तवचनोऽसि त्वम् । तत् सावधानं शृणु यत् ।
कथयामि । भूयोऽपि नाऽहं किञ्चिद् भणिष्यामि । - तात ! कथय । एष शृणोम्यहम् । - महेश्वर ! एवं प्रतीयते यथा दिवङ्गतं स्वपुत्रं पुनरपि प्राप्तवानहम् । इतः प्रभृति त्वमेव मत्पुत्रोऽसि । अहमिच्छामि यद्धनाभावस्तवाऽध्ययनमार्गे प्रत्यवायो न भवेत् । अत एव रामनामस्मरणावाप्तदक्षिणाधनराशिं यं कमपि कोषागारे , निक्षिप्तवानहं तमुपयोजय त्वमात्मकार्येषु । वत्स ! इतोऽग्रेऽहं परमार्थतस्तव तातपाद एव । सम्बन्धमिमं स्वीकरोम्यात्मधन्यतया । परन्तु नाऽयं सम्बन्धो लोके प्रकाशनीयः । लोकदृष्ट्या तु भिक्षुरेव भविष्याम्यहम् । महेश्वर ! कतिपयवर्षानन्तरमेव स्वाध्ययनं परिसमाप्य किमप्यधिकारिपदमवाप्स्यसि । स्वभवनं कुटुम्बमपि स्वकीयं कल्पिष्यसि । परन्तु वत्स! न मां कदाऽप्यात्मभवने स्थिरमवस्थातुमनुरोत्स्यसि । अहमाजीवनं स्थास्यामि स्वकुटीर एवाऽस्मिन् ।
११६
Page #124
--------------------------------------------------------------------------
________________
एतदेव ममाऽनुशासनम् । यदि नामैतत् सर्वं तेऽभिमतं स्यात् तर्हि आवयोः । पितृपुत्रात्मकः सम्बन्धोऽक्षुण्णतामुपयाति । अन्यथा इतोऽग्रे न मां तातसम्बोधनेनोद्वेजयिष्यसि न चाऽपि दुर्भाग्यग्रस्तं मामनुसरिष्यसि !
सम्प्रत्याचक्षस्व । किमुच्यते त्वया ? - तात ! भवता तु सर्वं ममाऽपहतमेव । न किमपि दत्तम् । किमपि दास्यसि
न वा ? मयोक्तम् । - दास्यामि, दास्यामि । परन्तु तदेव, तावन्मात्रमेव यन्ममाऽधिकारे भविष्यति ।
तातोऽवदत् । - सम्यगाह भवान् । तद् वस्तुद्वयं याचे यद् वर्तते भवदधिकारे । तात ! यदि भवदाशिषाऽध्ययनानन्तरं मया किमपि प्रतिष्ठास्पदं पदमवाप्तं, पदप्राप्त्यनन्तरं च यदि निवासभवनं किमपि निर्मापितं तर्हि भवनं तद् भवदीयनाम्नैव ख्यातं भविष्यति । द्वितीयाऽपि याच्या भवदधिकार एव तिष्ठति । शरीरत्यागानन्तरं शवदाहादारभ्य त्रयोदशाहसंस्कारं यावत् सम्पाद्यमानं सर्वमपि पुत्रोचितं धामिकं कार्यजातं केवलमहमेव सम्पादयिष्यामि । स्वीक्रियते भवतैतत् न वा ? मयोक्तम् । - स्वीकृतं स्वीकृतम् । स्मेराननः सन् वदति स्म तातः । भूयोऽप्याह-परन्तु
वत्स ! केन नाम्ना स्वभवनं ख्यापयिष्यसि ? मन्नाम तु न कदाऽपि त्वया
पृष्टम्। - यथाऽवसरं प्रक्ष्यामि । तन्मणिबन्धमाकुञ्च्य कथितवानहम् । - मा मैवम् । श्वकरणीयमद्यैव कार्यं धीमता । मन्त्रामाऽस्ति पुरुषोत्तमपाण्डेयः। अत एव त्वमपि पुरुषोत्तमभवनमेव निर्मापयिष्यसि । रोचते न वा? स आसीन्मम तातपादः ।।
सम्प्रति पाठकाः सम्यगवगताः स्युः । तदिच्छां समाहत्यैव न मयाऽऽवयोः सम्बन्धो मध्येसुहृत्समुदायं मध्येसमाज वा कदाऽपि प्रकाशितश्चर्चितो वा । सर्वेऽपि % मम सखायः परिचिताश्च केवलमेतावन्मानं ज्ञातवन्तो यदन्धभिक्षुके तस्मिन् मदीया ,
११७
Page #125
--------------------------------------------------------------------------
________________
8
प्रगाढा भक्तिर्वर्तते तदैन्यवशात् तद्विकलाङ्गतावशादेव । इतोऽधिकं न कोऽपि वेद। 9 आन्तरः कोऽपि हेतुरावां व्यतिषजतीति न कोऽपि ज्ञातवान् !
मम भवनस्य नामाऽस्ति - पुरुषोत्तमभवनमिति । परन्तु भवननामकरणरहस्यमपि रहस्यमेव वर्तते । द्वित्रैः सुहृद्भिः पृष्टमपि - भोः कथं न महेश्वरभवनमित्येव B समुट्टङ्कितम् । यथा पुरुषोत्तमो विष्णुस्तथैव महेश्वरोऽपि देवाधिदेवः शम्भुः । मयोक्तं
नर्मणा - किं न जानाति भवान् यन्महेश्वरोऽपि महान् वैष्णव एव ? शिवस्य ॐ विष्णुभक्तिस्तु प्रसिद्धा ।
तातपादप्रदत्ताधिकारेणैव मया तदौर्बदैहिकं सर्वमपि कृत्यं सम्पादितम् । तातपादनिदेशं शिरसि धृत्वैव च मया न तदपकारिणः पापिष्ठा दुर्जना अन्विष्टा दण्डिता वा । तातपादस्य सर्वमपि धनं मया, पुरुषोत्तमन्यासं संस्थाप्य, तदीयकोष एव संरक्षितम् ।
नगरनिगमाधिकारिणामनुमतिमवाप्य तातपादस्य कुटीरस्थाने पुरुषोत्तममन्दिरं, कोषागारमार्गेऽपि च वटवृक्षतले कामपि प्रपां निर्मातुमिच्छामि ।
दमा ककककककककककककककककbhhoon
सन्तः स्वतः प्रकाशन्ते गुणा न परतो नृणाम् ।। आमोदो नहि कस्तूर्याः शपथेन विभाव्यते ॥॥
११८
Page #126
--------------------------------------------------------------------------
________________
कण्ठाभूषणम्
डॉ. आचार्यरामकिशोरमिश्रः लोपामुद्रा मुनेरगस्त्यस्य धर्मपरायणा कर्मनिष्ठा च भार्याऽऽसीत् । सा पत्या सह तपोवने निवसति स्म । राजा ऋषेरगस्त्यस्याऽऽश्रममागच्छति यदा कदा स्वपत्न्या सह तस्य दर्शनार्थमाशीर्वादाय च । राज्ञी सुन्दराभूषणावृता भवति स्म । तां दृष्ट्वा लोपामुद्राया हृदये वाञ्छा जागरिता, यत्तस्याः पार्वेऽप्याभूषणानि सन्तु । अतः सा
स्वपतिमेकदा कथितवती-स्वामिन् ! तस्याः समीपे किमपि सुवर्णाभूषणं नास्ति । X तस्याः कण्ठे त्वेकं सुवर्णाभूषणमवश्यमेव स्यात् । ऋषिरगस्त्यस्तस्या इच्छां
पश्यंस्तामुक्तवान्-प्रिये ! कस्मिन्नपि दिने राजानमेकं कण्ठाभूषणं याचित्वा तुभ्यं प्रदास्यामि ।
__ एकदा मुनिरगस्त्यो राजप्रासादं गतः । स एकं कण्ठाभूषणं स्वपत्न्यै राजानं याचितवान् । राजा यदा कण्ठाभूषणं प्रदातुं राज्ञी जगाद, तदा मुनिना कथितम् -' राजन् ! यत्कण्ठाभूषणं भवान् मम पत्न्यै प्रदास्यति, तद् भवदर्जितधनस्य भवेत्, प्रजाया धनस्य न स्यादिति । राज्ञा निवेदितम् - 'मुने ! यानि सुवर्णस्याऽऽभूषणानि भवन्ति, तानि सर्वाणि प्रजासकाशात् प्राप्तैर्धनैर्निर्मितानि सन्ति ।' ऋषिणा प्रजाधनेन निर्मितं कण्ठाभूषणं ग्रहीतुं निषेधः कृतः । आश्रममागत्याऽगस्त्येन स्वपत्नी लोपामुद्रा कथिता - राज्ञः समीपे तदर्जितधननिर्मितं किमपि सुवर्णाभूषणं नाऽस्ति । अतः प्रिये ! मा प्रजाधननिर्मितं कण्ठाभूषणं न गृहीतम् ।।
लोपामुद्रा स्वपतिमगस्त्यं कथितवती - स्वामिन् ! भवता प्रजाधननिर्मितं कण्ठाभूषणं न गृहीत्वा शुभं कृतम् । न जाने, प्रजाधनं कीदृशं स्यात् ? राजकोषस्तु प्रजाधनेनैव परिपूर्णो भवति । राजा प्रजासकाशात् कररूपेण सुवर्णाभूषणान्यपि प्राप्नोति । प्रजाभूषणान्येव राजभूषणानि भवन्ति । अतो राजधनमधर्मार्जितधनं भवति । अधर्मार्जितं राज्ञ आभूषणमस्माकं पुण्यानि नाशयितुं समर्थं सम्भवति । अतः स्वामिन् ! अस्माकं तप एवाऽस्मदीयं कण्ठाभूषणमस्ति । प्रिये ! सत्यमुक्तं त्वया । एहि, तपस्तप्तुं संलग्नौ भवेव ।
२९५/१४, पट्टीरामपुरम्, प खेकड़ा (बागपत) उ.प्र. २५०१०१
११९
Page #127
--------------------------------------------------------------------------
________________
भृत्यः
एक:
अपरः
गृहस्वामिनी अहो अहो ! भोः ! तव शब्दा न प्राप्यन्ते मम च गृहमध्ये कानिचिद्
भाजनानि न प्राप्यन्ते !!
मर्म - नर्म
स्वामिनि ! नाऽहं मूर्खः । अहं भवत्यै कथं प्रत्याययेयम् ? मया शब्दा एव न प्राप्यन्ते ।
चतुरः भोः ! तव जन्मदिनं कस्यां तिथौ ? सार्धचतुरः ऑक्टोबर्-मासस्य त्रयोदश्यां तिथौ ।
चतुरः परं कस्मिन् वर्षे ?
सार्धचतुरः कीदृशं प्रश्नं पृच्छति भवान् ? प्रत्येकस्मिन् वर्षे भोः !
पत्नी
पति:
भो ! किमिति भवान् वारं वारं मुखं विकृतं करोति ?
तत् तु, चिकित्सकेन मम 'स्तोक- स्तोकवेलायां हसनीय' मिति कथितमस्ति ।
कीर्तित्रयी
भवान् किमर्थं निद्रायामुच्चैः क्रोशनं करोति ?
स्वप्नेऽपि त्वं मे कथनं नैव मन्यसे, अतः |
SSSSSSSSSSSSSSSSSSSSSSSSSSSSS
१२०
SSSSSSSSSSSSSSSSSSSSSSSSSSSSS
Page #128
--------------------------------------------------------------------------
________________
(जीवविज्ञानस्य प्रयोगिकीपरीक्षायां शिक्षकेणैकस्मै विद्यार्थिने कस्यचित् पक्षिणः
पादमेकं दर्शयित्वा पृष्टं) शिक्षकः वदतु भोः ! कस्य पक्षिणोऽयं पादः ? विद्यार्थी नैव जानामि महोदय ! शिक्षकः एवं तर्हि त्वं परीक्षायामनुत्तीर्णो भविता । वदतु किं वा ते नाम ? विद्यार्थी (पादमूर्वीकृत्य) यदि भवता ज्ञायेत तहि लिखतु !!
पतिः त्वं ममैकस्मिन्नपि कथने सम्मतिं न दर्शयसि । किमहं मूल् वा ? पत्नी भवतु । अस्मिन् कथने मम पूर्णा सम्मतिरस्ति ।
SSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSS5151925
(एकदा द्वौ ग्रामीणौ नगरं गतौ सन्तौ सङ्ग्रहालयमेकं द्रष्टुं गतौ । तत्रैकं इजिप्तदेशीयं
पुराणं शवं. प्रदर्शनार्थं स्थापितमासीत् । तस्योपरि बह्वीः पट्टिका बद्धा
दृष्ट्वा -) एकः नूनं लोरी-यानेन सहाऽस्याऽपघातो जात इति प्रतिभाति । द्वितीयः आम्, सत्यम् । पश्यत्वत्र लोरी-यानस्य क्रमाङ्कोऽपि B.C. 1760
इत्युल्लिखितोऽस्ति।
SSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSS
१२१
Page #129
--------------------------------------------------------------------------
________________
पत्नी
पति:
चैत्रः
मैत्र:
चैत्र:
पत्नी पति:
अहं भवते यदपि कथयामि तद् भवानेककर्णेन श्रुत्वाऽपरकर्णतः निष्कासयति ।
किन्तु अहं यत् कथयामि तद् त्वं द्वाभ्यां कर्णाभ्यां श्रुत्वा मुखतो निष्कासयसि खलु !
मम, पन्या सह यदाऽपि मम क्लेशो भवेत् तदाऽन्ते सा मम कथनं मन्यते एव ।
पं. राजेन्द्र शाह
डीसा
एवं कथं वा सम्भवेत् ?
कथमेवं न भवेत् ? यतः प्रान्तेऽहं तस्यै एवं विज्ञपयामि यत् सर्वाऽपि क्षतिर्ममैव । कृपया क्षमस्व माम् ।
स्वातन्त्र्यदिनं कदा वाऽऽयाति ? यदा त्वं पितृगृहं गच्छसि तदा !
SSSSSSSSSSSSSSSSSSSSSSSSSSS
१२२
SSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSS
Page #130
--------------------------------------------------------------------------
________________
८ प्राकृतविभागः
पाशु अषाभुडम् - प्राकृतप्राभूतम्
अरैयर् श्रीरामशर्मा
(१)
(२)
(४)
(८)
(९)
(१०)
(११)
(१२)
(१३)
(१४)
(१५)
इन्दो
मङ्गळम्
कविसओ
सावअसिद्धा
पाउअविचारो
थिई
सिवो
कन्हो
गोआदेवी
अन्तरङ्गम्
म्हणी
वसन्दो
पुष्पं- भवँरो
नारिकेलो
मम्
संपुत्तिवअणम्
१२३
कवीन्द्रः
मङ्गलम्
कविविषयः
श्रावक सिद्धाः
प्राकृतविचारः
राष्ट्रस्थितिः
शिव:
कृष्णः
गोदादेवी
काश्मीरतरुणी
वसन्तः
पुष्पं-भ्रमरः
नालिकेर:
निगमनम् संपूर्तिवचनम्
Page #131
--------------------------------------------------------------------------
________________
पाशुभपाकम् - प्राकृनषाभूनम कअिन्दो : - कण्णाडजअसेलविट्टविण्णत्तिअरो सिरिरामो कवीन्द्रः - कर्णाटयदुशैलविष्णुविज्ञप्तिकरः श्रीरामः
ne
मङ्गळम् - मङ्गलम् सिरिवेङ्कटणामज्जं म्हण मादूणज्जमुज्झिआवज्जम् । विज्जाविळाससेज्जं णमामि पाअअअवज्झअिन्दज्जम् ॥ १ ॥ श्रीवेंकटनामार्यं अस्माकं मातुरायं अज्झितावद्यम् । विद्याविलासशय्यां नमामि प्राकृतोपाध्यायेन्द्रार्यम् ॥१॥ देवी लच्छी जस्स णु तस्स णु सेवं करेमि करणिज्जम् । संअलं भुवणं जस्सा जीवअि भिक्खालवेण किदकज्जम् ॥ २ ॥ देवी लक्ष्मीर्यस्य नु तस्य नु सेवां करोमि करणीयाम् । सकलं भुवनं यस्या जीवति भिक्षालवेन कृतकार्यम् ॥ २ ॥
-06
णमह अ णमो णमेत्ति अ वअणेण णमन्तअन्तरंगेणेब्वम् । कम्म अ णाणं भत्ती जस्स पदे होन्ति तुरगसीसं देव्यम् ॥ ३ ॥ नमत च नमो नम इति च वचनेन नमदन्तरङ्गेणैवम् । कर्म च ज्ञानं भक्तिर्यस्य पदे भवन्ति तुरगशीर्षं देवम् ॥ ३ ॥
कअिविसओ-कविविषयः म्हण वासो गिरिदेसो जअपअिलच्छीकडक्कसंवेसो सो । कव्वेरुत्तरसीसो पम्मगिरिन्दप्पहावपुब्बासासो ॥ ४ ॥ मम वासो गिरिदेशो यदुपतिलक्ष्मीकटाक्षसंवेशः सः । कावेर्युत्तरशीर्षः पद्मगिरीन्द्रप्रभावपूर्वाश्वासः ॥ ४ ॥
हं म्हि ण जिणो ण जीणो जणो म्हि जाणो म्हि जाणअ जणा ! ओ ! मुक्को एक्को जीणो, मुक्को एक्को जिणो खु सव्वगुणो ॥ ५ ॥ अहमस्मि न जिनो न जीनो जनोऽस्मि ज्ञानवानस्मि जानत जना हे ! । मूर्ख एको जीनो, मुक्त एको जिनः खलु सर्वगुणः ॥ ५ ॥
१२४
Page #132
--------------------------------------------------------------------------
________________
सक्कअगुरुकणुत्थिअपा अभासित्थियेहिँ गहिदमिमम् । कण्णडदामिळसुमुही रसेहिँ सिञ्चअि कअिन्दवाणी मम् ॥ ६ ॥ संस्कृतगुरुकणोत्थितप्राकृतभाषास्त्रीभिर्गृहीतमिमम् । कर्णाटद्राविडसुमुखी रसैः सिञ्चति कवीन्द्रवाणी माम् ॥ ६ ॥
खणदासी गणदासी गुणदासी मं हुवीअ घडदासी अम् ! अणजणमुज्झिअ गेण्हिअ अण पा अकण्णिा रसेअि णिअम् ॥ ७ ॥ क्षणदासी गणदासी गुणदासी मां भूत्वा घटदासी अहो । पुनर्जनमुज्झित्वा, गृहीत्वा पुनः प्राकृतकन्यका रसयति निजम् ॥ ७ ॥
सावअसिद्धा - श्रावक सिद्धाः पा अभारतरट्टिअमेळनपढमज्ज ! चारुकित्तीभट्टा ! पा अपुल्लिअमुत्तापुप्पाअं अपेक्ख दाणि रामकअिट्टा ! ॥ ८ ॥ प्राकृतभारतराष्ट्रीयमेळनप्रथमार्य ! चारुकीर्तिभट्टारक ! । प्राकृतफुलितमुक्तापुष्पाणि च पश्येदानी रामकवीष्ट ! ॥ ८ ॥ पाशुअसिद्धकअिन्दा ! तुम्हाणं गुणेहिँ गेण्हिअव्व पदायिँ । सक्कअजट्टिसमत्थो डोम्बिअणटुं जणस्स दंसेमि ॥ ९ ॥ प्राकृतसिद्धकवीन्द्रा युष्माकं गुणैर्गृहीत्वैव पदानि । संस्कृतयष्टिसमस्थो डोम्बिकनाट्यं जनस्य दर्शयामि ॥ ९ ॥
पा अविआरो-पाकृतविचारः सव्वमुणिन्देन्दं तं दक्खिणवाअं अअत्तिअं पणुमो । अज्ज वि अज्जो जस्स णु सम्बो सीसेण पाशुअं धरधि ॥ १० ॥ सर्वमुनीन्द्रेन्द्रं तं दक्षिणवाचमगस्त्यं प्रणुमः । अद्याऽप्यार्यो यस्य नु सर्वः शीर्षेण पादुकामिव प्राकृतं धारयति ॥ १० ॥ जिणमुणिवरठाणकलिअं गुणमणिसरपुण्णवण्णिअज्जलिअम् । पणमामि पा अं तं जणस्स जाणस्स मुद्दवाणी ॥ ११ ॥ जिनमुनिवरगणकलितं(तां) गुणमणिसरपुण्यवर्णिकोज्ज्वलितम् (ताम्) । . प्रणमामि प्राकृतं तं (पादुकां तां) जनस्य ज्ञानिनो मुग्धवाण्याः ॥११॥
-
१२५
Page #133
--------------------------------------------------------------------------
________________
रामायणसमयस्स वि पुव्वं पा अकअिन्दविन्दो वन्दो । सक्कदअिन्दचन्दो वम्मिअपुत्तो तदो णु आदिकअिन्दो ॥ १२ ॥ . रामायणसमयादपि पूर्वं प्राकृतकवीन्द्रवून्दो वन्द्यः । संस्कृतकवीन्द्रचन्द्रो वल्मीकपुत्रः ततो नु आदिकवीन्द्रः ॥१२॥
परुसोवि सरिसहरिसो सक्कअपुरुसो पिओ णु राअरिसी । मिझुआ वि सरिसहरिसा पासुअबासेत्थिआ पिआ णु सा मअिसी ॥ १३ ॥ पुरुषोऽवि सदृशहर्षः संस्कृतपुरुषः प्रियो नु राजर्षिः । मृदुकाऽपि सदृशहर्षा प्राकृतभाषास्त्री प्रिया नु सा महिषी ॥१३॥
पा अकहाणुलावा होन्ति म्ह पुराणु अदयणस्स कआ । पेम्मलकहाणुहावा ता अज्ज कहिं वि टेलिविजनभीआ ॥ १४ ॥ प्राकृतकथानुलापा भवन्ति स्म पुरा नु सुदयनस्य कृताः । प्रेमलकथानुभाताः तेऽद्य क्वाऽपि टेलिविजन्भीताः ॥ १४ ॥
पा अजणो खु अण्णो, पा अभासाजणो वि अण्णो खु । पा अजणहिअअम्मि अ पा अजीअं रेदि अज्जलिअम् ॥ १५ ॥ प्राकृतजनः खल्वन्यः, प्राकृतभाषाजनोऽप्यन्यः खलु । प्राकृतजनहृदये च प्राकूतजीवं कारयत्युज्ज्वलितम् ॥ १५ ॥
कअिरामेण को झुण कच्चे सव्वेसनिअणसंकप्पमये । पा अजणस्स पा अपेम्मरसो होअि णीदिपुप्पेहिँ जुओ ॥ १६ ॥ कविरामेण कृते पुनः काव्ये सर्वेशनिपुणसङ्कल्पमये । प्राकृतजनस्य प्राकृतप्रेमरसो भवति नीतिपुष्पैर्युते ॥ १६ ॥
पा अमहाक अिन्दो जअि को वि अ अज्ज होअि तस्स णमो । जअि को अि ण होअि म्हण कवित्तणस्सेव्व सव्वणमो ॥ १७ ॥ प्राकृतमहाकवीन्द्रो यदि कोऽपि चाऽद्य भवति; तस्मै नमः । यदि कोऽपि न भवति; मम कवित्वस्यैव सर्वनमः ॥ १७ ॥
१२६
Page #134
--------------------------------------------------------------------------
________________
दामिळ केरळ-तोळव-कण्णाडन्धअमहोड्डवंगा अंगा। मागध-मज्झअ-गुज्जर-सैन्धव-कम्हीर-नेवुळुच्चंगा ॥ १८ ॥ द्राविडकेरळतौळवकर्णाटान्धकमहोद्रवङ्गा अङ्गाः । मागधमध्यक गुर्जरसैन्धवकाश्मीरनेपाळोत्सङ्गाः ॥ १८ ॥
टंकण-बम्म-पुलिन्दा तुळुक्ख-जवना अ पारसीयज्जा । बलि-जव-मलया चीना सिंहळपुब्बा अ पासुआ देसा ॥ १९ ॥ टङ्कणब्रह्मपुळिन्दाः तुरुष्कयवनाश्च पारसीकाद्याः ।। बलियवमलयाश्वीनाः सिंहळपूर्वाश्च प्राकृता देशाः ॥ १९ ॥
|New G6
देसो सेसो को णु खु पा अहीणो ? ण को वि दीसेदि । देव्वाण लोअ अँव णु अित्थिअभासेत्ति पा अं जअअि ॥ २० ॥ देशः शेषः को नु खलु प्राकृतहीनः ? न कोऽपि दृश्यते । देवानां लोक एव नु स्त्रीभाषेति प्राकृतं जयति ॥ २० ॥
शुब्विअपा अभासाकव्वकहं अक्कलक्खणुब्बेल्लिअभोअम् । कप्पविकप्पाकप्पं कप्पिअ करेदु दुलहकअिन्दसुहजोअम् ॥ २१ ॥ षड्विधप्राकृतभाषाकाव्यकथां एकलक्षणोद्वेल्लितभोगाम् । कल्पविकल्पाकल्पां कल्पयित्वा कारयतु दुर्लभकवीन्द्रसुख्खयोगम् ॥ २१ ॥
सद्दो अत्थो भावो सिक्खिअपुब्बो वि दिट्ठमग्गेण । अज्ज कवित्तणकाळे अदिट्ठमग्गक्कमेण पडिवाअि ॥ २२ ॥ शब्दोऽर्थो भावः शिक्षितपूर्वोऽपि दृष्टमार्गेण । अद्य कवित्वकाले अदृष्टमार्गक्रमेण प्रतिभाति ॥ २२ ॥
आलिंगिआ वि बाला मादुळकण्णा वहू हुवीअ पुणो । अवगूढा णवजवणणवरसदुग्घी अदिट्ठपुदरसा ॥ २३ ॥ आलिङ्गिताऽपि बाला मातुलकन्या वधूर्भूत्वा पुनः । उपगूढा नवयौवननवरसदोग्धी अदृष्टपूर्वरसा ॥ २३ ॥
१२७
Page #135
--------------------------------------------------------------------------
________________
शालिवाहननरेन्दशालिआ काळिदासपरेन्दपालिआ । रामणामअकअिन्दघोळिआ पा आमिअरसद्दपोळिया ॥ २४ ॥ शालिवाहननरेन्द्रशालिता कालिदासप्रवरेन्द्रपालिता। रामनामककवीन्द्रगोलिता प्राकृतामृतरसार्द्रपोलिका ॥ ४ ॥
वारिआवि अ पुणो वि वारिआ कारिआ महुरपुण्णपूरिआ । कारिओव्व म्हण वेसिआ पिआ भूरि अव्व रसिओहिँ भोअिआ ॥ २५ ॥ वारिताऽपि च पुनरपि वारिता कारिका मधुरपूर्णपूरिका(ता)। कारितैव मम वेषिता प्रिया भूर्येव रसिकै जिता ॥ २५ ॥
पा आमिअकळामयी कहा पासुआ मिअकळामयी अ आ ! जत्थ जाणपदमग्गजोअिआ तत्थ सब्बसुहुगामिणी कआ ॥ २६ ॥ प्राकृतामृतकलामयी कथा पादुका मृगकलामयी च आः । यत्र जानपदमार्गयोजिता तत्र सर्वसुखगामिनी कृता ॥ २६ ॥
छविहपा अकव्वकहा वि णु सुब्बअि णो सुजणाणू सवेसु । अज्ज णु दुज्जणभज्जणअग्गिणो जुज्जअि वुत्तकहा हिअॲसु ॥ २७ ॥ षड्विधप्राकृतकाव्यकथाऽपि नु श्रूयते नो सुजनानां श्रवस्सु । अद्य नु दुर्जनभर्जनकाग्नेः योज्यते वृत्तकथा हृदयेषु ॥ २७ ॥
रट्टत्थिी -राष्ट्रस्थितिः भारतरटें अज्जवि सन्तिगुणं केवलं कहिज्जेदि । सन्तिगुणधम्मकहणो मुस्लिमलोओ वि हन्त ! सन्तगुणो ॥ २८ ॥ भारतराष्ट्र अद्यापि शान्तिगुणं केवलं कथयिष्यति । शान्तिगुणधर्मकथनो मुस्लिमलोकोऽपि हन्त ! शान्तगुणः ॥ २८ ॥
तित्थकरा भुवणम्मि अ जत्थ दया तत्थ होन्ति दे दे अण णु । जत्थ रणं कळहं वा तत्थ णु दीणे दया णु करणिज्जा णु ॥ २९ ॥ तीर्थकरा भुवने च यत्र दया तब भवन्ति ते ते पुनर्नु । यत्र रण: कलहो वा तत्र नु दीने दया नु करणीया नु ॥ २९ ॥
१२८
Page #136
--------------------------------------------------------------------------
________________
म्हण रामो म्हण कण्णो म्हण अण्णो को वि दुल्लहो ण झुण देवो । कित्तो वा अल्लाहो सिद्धो बुद्दो सिवो वि हिअअ णन्तवो ॥ ३० ॥ मम रामो मम कृष्णो ममाऽन्यः कोऽपि दुर्लभो न पुनर्देवः ।। क्रिस्तो वाऽलाहः सिद्धो बुद्धः शिवोऽपि हृदय नन्तव्यः ॥ ३० ॥
भण भण भणे ब्व भण भण रामस्स णु सव्वदेव पुण्णं णामम् । धण धण धणेति मा भण, धणदो जक्को वि अक्कपिंगो होअि ॥ ३१ ॥ भण भण भणैव भण भण रामस्य नु सर्वदैव पुण्यं नाम । धन ! धन ! धनेति मा भण; धनदो यक्षोऽप्येकपिङ्गो भवति ॥ ३१ ॥
सिवो - शिवः कन्धे सप्पो, हत्थे सीसअसिप्पी अ भम्म कायम्मि । पिट्टे वाघियचम्म अ अग्गी भालम्मि हन्त ! सिवो ॥ ३२ ॥ स्कन्धे सर्पो, हस्ते शीर्षककपालश्च, भस्म काये । पृष्ठे व्याघीयचर्म च, अग्निः फाले, हन्त ! शिवः ॥ ३२ ॥
सो पवीत्थणविहूअिविहूसिअंगो, गंगाजळप्पडिकिदीहुअचन्दलेहो । सप्पाहिरायणवगन्दिअमालिअंको, कैळासडोळणमहाणटणम्मि देवो ॥ ३३ ॥ स पार्वतीस्तनविभूतिविभूषिताङ्गो, गङ्गाजलप्रतिकृतीभूतचन्द्रलेखः । साधिराजनवगन्धिकमालिकाङ्कः, कैलासडोलनमहानटने देवः ॥ ३३ ॥
जो चन्दकोरअिअजूडलदाविदान-पज्जनमुग्गकमलुक्करसांझराओ। संझाणडुण्णडविळासविडम्बिआसो, संझाविलम्बिरअिमण्डलवन्दिओ सो ॥ ३४ ॥ यश्चन्द्रकोरकितजूटलतावितान-पर्यन्तमुग्धकमलोत्करसान्ध्यरागः । सन्ध्यानतोन्नतविलासविडम्बिताशः, सन्ध्याविलम्बिरविमण्डलवन्दितः सः ॥३४॥
१२९
Page #137
--------------------------------------------------------------------------
________________
कन्हो - कृष्णः अप्पाकिदो वि पाकिदलोआणं लोअणाणं जो चन्दो । सो गोअिन्दो मह तह किदनामो दाणि होदु आणन्दो ॥ ३५ ॥ अप्राकृतोऽपि प्राकृतलोकानां लोचनानां यश्चन्द्रः । स गोविन्दो मम तथा कृतनामेदानी भवत्वानन्दः ॥ ३५ ॥
भालं सपुण्डं, वअणं समण्डं, सीसं सिहण्डं, हिअअं सहण्डम् । कर सडण्डं, चलणं सहिण्डं, कण्णस्स सव्वं मम कलखण्डम् ॥ ३६ ॥ फालं सपुण्ड्रं, वदनं समण्डं, शीर्षं शिखण्डं, हृदयं सहण्डम् । कर: सदण्डश्वलनं सहिण्डं, कृष्णस्य सर्वं मम कल्यखण्डम् ॥ ३६ ॥
दुज्जणदुल्लह ! सज्जणवल्लह ! अज्ज णु सज्जेहि म्हण रज्जोी । कमळ िब णु हिअआझिं म्हण विमळाअि अ होन्तु विअसनदरसाअिम् ॥३७॥ दुर्जनदुर्लभ ! सज्जनवल्लभ ! अद्य नु सज्जस्वास्माकं रव्यु(त्यु)द्योगी। कमलानीव नु हृदयान्यस्माकं विमलानि च भवन्तु विकसनार्द्ररसानि ॥ ३७ ॥
सिहंडाणं मुदं सिहरमणिलुई जह महाप्पहाणं मोळीणं महमहिअरण्णुज्जलतरम् । अहीणं णच्चेसु प्पडिकलिअमोराँणणडणं तहम्हाणं देव्यो सअळसमभावो रअअदि ॥ ३८ ॥ शिखण्डानां मुग्धं शिखरमनिलोय यथा महाप्रभाणां मौलीनां महमहितरलोज्ज्वलतरम् । अहीनां नृत्येषु प्रतिकलितमायूरनटनं तथाऽरमाकं देवः सकलसमभावो रचयति ॥ ३८ ॥
गोआदेवी - गोदादेवी सअमहमणिणीळा चारुकल्लारहत्था त्थणभरणमिअङ्गी वच्चलत्ताणहिन्दू । अळक विणिहितेहिं कित्तणाहा सजेहिं विळसअि सिरिगोआ विट्टचित्तस्स बन्दू ॥ ३९ ॥
१३०
Page #138
--------------------------------------------------------------------------
________________
शतमखमणिनीला चारुकल्हारहस्ता स्तनभरनमिताङ्गी वत्सलत्वसिन्धुः । अलक विनिहिताभिः कृष्टनाथा स्रग्भिः विलसति श्रीगोदा विष्णुचित्तस्य बन्धुः ॥ ३९ ॥
सक्क अमूळम् जहा- वे अन्तदेसिअस्स संस्कृतमूलम् यथा: - वेदान्तदेशिक स्य
शतमखमणिनीला चारुकल्हारहस्ता स्तनभरनमिताङ्गी सान्द्रवात्सल्यसिन्धुः । अलक विनिहिताभिः स्रग्भिराकृष्टनाथा विलसतु हृदि गोदा विष्णुचित्तात्मजा नः ॥
है
क म्हीरतलुणी-काश्मीरतरुणी
कम्हीरजणपदाणं जम्मट्ठाणं णु जम्मुसंठाणम् । दे होन्ति सोणवण्णा, ण जम्मुवण्णा अिदं णु चित्ताणम् ॥ ४० ॥ काश्मीरजनपदानां जन्मस्थानं नु जम्बूसंस्थानम् ।
ते भवन्ति स्वर्णवर्णा न जम्बूवर्णाः इदं नु चित्रम् ॥ ४० ॥
पावारण कलिआ तरुणी तुरुक्की । चन्दंसुमुद्दमुहमण्डलकोमुआआ । दिट्ठा विदिट्टिसुहमुज्झअि मीलिअच्छी पक्कत्थणाहगुरुलोअणवारिओव्व ॥ ४१ ॥ प्रावारकेण कलिता तरुणी तुरुष्की चन्द्रांशुमुग्धमुखमण्डलकौमुदीका । दृष्टाऽपि दृष्टिसुखमुज्झति मीलिताक्षी पक्षस्थनाथगुरुलोचनवारितेव ॥ ४१ ॥
( पक्षस्तना ह गुरुलोचनवारितेव ॥)
१३१
Page #139
--------------------------------------------------------------------------
________________
पावारण गुरुणा तरुणी परीदा वावारअिच्चअि कहं णु सुहं कडक्कम् । दावाणळेण गहणम्मि मिी परीदा सा वारि वांछअि अ किं सुलहं तडकम् ॥ ४२ ॥
प्रावारकेण गुरुणा तरुणी पीता व्यापारयिष्यति कथं नु सुखं कटाक्षम् । दावानलेन गहने मृगी परीता सा वारि वाञ्छति च, किं सुलभस्तटाकः ॥ ४२ ॥
वसन्तो - वसन्तः हिअअ ! कहेहि किं णु कोअिलाअिं महुरवसन्दमहुस्सवेसु मतो ! भ,रवरविळासिणीहिँ किं वा सरिसतरेहिँ सुसंगमो पमोदो ॥ ४३ ॥ अअि ! महरवसन्दलच्छिजुत्तो णववणमालिअमाहवो विदग्यो । मह णु वि तुह संगमस्स काळो विअ हि कपोदअकूअिआअि होन्ति ॥ ४४ ॥ हृदय ! कथय किन्नु कोकिलाभिः मधुरवसन्तमहोत्सवेषु मत्तः ! भ्रमरवरविलासिनीभिः किं वा ! सदृशतरैः सुसङ्गमः प्रमोदः ॥ ४३ ॥ अयि ! मधुरवसन्तलक्ष्मीयुक्तः नववनमालिकमाधवो विदग्धः । मम वपि तव सङ्गमस्य कालः इव हि कपोतककूजितानि भवन्ति ॥ ४४ ॥
GOOG
Page #140
--------------------------------------------------------------------------
________________
पुष्पं भवँरो - पुष्पं भ्रमरः कुरविअकुसुमाणं णीलवण्णाणं रूवं मिअदळपरिसाणं सोम्मसोहग्गलेवम् । कुसुमसरसभोअठ्ठाणभोअिन्दिराणं फुरअि रअिसिणिद्दप्फुल्लमिन्दिन्दिराणम् ॥ ४५ ॥ कुरविककुसुमानां नीलवर्णानां रूपं मृदुदलस्पर्शानां सौम्यसौभाग्यलेपम् । कुसुमसरसभोगस्थानभोगीन्द्राणां स्फुरति रवि(ति)सिग्धफुल्लमिन्दिन्दिराणाम् ॥ ४५ ॥
नाळिकेरो-नालिकेरः अग्गं पत्तफलेहिँ पुण्णमक्सिं, मज्झं वि दण्डन्तरं मुग्गं मूलणिवेसणं वि मिळिअं पज्जन्तकुण्डेहिँ दे । झुग्गम्मीअ रसादळेण भुवणं संभाळ्यन्तो भवं सग्गं सग्गसुहं रसं अ सअळं अ ! णारिकेळ ! म्हणम् ॥ ४६ ॥ अग्रं पत्रफलैः, पूर्णमकृशं, मध्यमपि दण्डान्तरं मुग्धं मूलनिवेशनमपि मिलितं पर्यन्तकुण्डैः ते । उद्गम्य रसतलेन भुवनं सम्भालयन् भवान् स्वर्गः स्वर्गसुखं रसश्च सकलं हे ! नालिकेर ! अस्माकम् ॥ ४६ ॥
णिगमणम् - निगमनम् बालस्स मह कव्वेऽस्मि कअि होन्ति पुणो गुणा । दोसा अवि अ होन्तिब्ब, किं दोसे हिँ, गुणा गुणा ॥ ४७ ॥ सज्जणाणं णु दासो म्हि अिअि मे दूसणं जअि । दुज्जणा वि परं सच्चं भावुआ अिअि कप्पअि ॥ ४८ ॥ हं म्हि रामो किमेदेण, सब्बे रामा वि किं पुणो । जअि पा असीदाओ से बन्धो वि होअि णो ॥ ४९ ॥ अिअि मे कअिरामस्स सत्थहोअि णु पत्थणा । राअअद्दिग सारं मे ! (सारत्थो) होदु पा अपाअडम् ॥ ५० ॥
१३३
Page #141
--------------------------------------------------------------------------
________________
संपुत्तिवअणम् - संपूर्तिवचनम् कअित्तणे समो णत्थि लेहणम्मि समो बहु ॥
अिअि ज पअिकुळसेहरसिरिरामप्पिअभअवन्तसन्तठ्ठाणम्मि, जअसेलसक्कअमहाविज्जासालद्दिकमहाकज्जपज्जळिअसमत्थत्तणविअडविज्जाविळासेण, विण्णत्तिअरवंसमुत्ताफळकळाळंकिदेण, सक्कअपाशुअकण्णडदामिळहिन्दिअप्पहुदिभासेत्थिआन्तरंगवल्लहेण, सिरि
गुरुमादामहसाअित्तरणजग्गुवेंगडज्ज
करुणा कडक्कतडक्कसंफुल्लसरसकमळविमळसअळमाणसेण, भारअपा अप्पढमरट्टिअमहासम्मेलनदंसणुब्बुद्धपुराणपा अप्पडिहाप्पहावकिदपा अमुत्तावचायप्पा अपुप्पावचायाभिक्खपा असअअद्दिगणिम्माणणिझुणणिव्वट्टिअपा अ
वाणीचरणसेवणेण,सवणवेळगोळक्खेत्तराओसिरिचारुकित्तिभट्टारअसवणसिद्धाणुहावबन्धुरेण, कअिरामेण किदं अिदं पा अपाझुडं
जाव संपुण्णम् ॥ मंगळमहासिरी ।।
निगमनम् बालस्य मम काव्येऽस्मिन् कति भवन्ति पुनर्गुणाः । दोषा अपि च भवन्त्येव, किं दोषैः ? गुणा गुणाः ॥ ४७ ॥ सज्जनानां नु दासोऽस्मि इति मे दूषणं यदि । दुर्जना अपि रं सत्यं भावुका इति कल्प्यते ॥ ४८ ॥ अहमरिम् रामः किमेतेन ! सर्वे रामा अपि किं पुनः ? । यदि प्राकृतसीतायै सेतुबन्धोऽपि भवति नो ॥ ४९ ॥
१३४
Page #142
--------------------------------------------------------------------------
________________
अिति मे कविरामस्य अत्र भवति तु प्रार्थना । शतकद्विकसारार्थो भवतु प्राकृतप्राभूतम् ॥ ५० ॥
सम्पूर्तिवचनम् । "कवितायां श्रमो नाऽस्ति लेखने तु श्रमो बहुः"
इति यदुपतिकुलशेखर श्रीरामप्रियभगवत्सत्स्थाने, यदुशैलसंस्कृतमहाविद्याशालाध्यक्ष्यमहाकार्यप्रज्वलितसमर्थत्वविकटविद्याविलासेन, विज्ञप्तिकरवंशमुक्ताफलकलालङ्कृतेन, संस्कृतप्राकृतकर्णाटद्राविडहिन्दीप्रभृतिभाषास्त्रीअन्तरङ्गवल्लभेन, श्रीगुरुमातामहसाहित्यरत्नजग्गुवेङ्कटार्यकरुणाकटाक्षतटाकसम्फुल्लसरसकमलविमलसकलमानसेन, भारतप्राकृतप्रथमराष्ट्रीयमहासम्मेलनदर्शनोबुद्धपुराणप्राकृतप्रतिभाप्रभावकृतप्राकृतमुक्तावचायप्राकृतपुष्पापचायाभिख्यप्राकृतशतकद्विकनिर्माणनिपुणनिर्वतितप्राकृतवाणीचरणसेवनेन, श्रवणबेळुगोळक्षेत्र
राजर्षिश्रीचारुकीर्तिभट्टारकश्रमणसिद्धानुभावबन्धुरेण, कविरामेण कृतं इदं प्राकृतप्राभृतं यावत् सम्पूर्णम् ॥ मङ्गलमहाश्रीः ॥
काव्यपुरणसमयः भीमाष्टमी - प्रमोदसंवत्सरमाघशक्लपक्षः क्रिश २३-१-१९९१ दि० स्वयं लेखकः अरैयीरामशर्मा रामानुजदासः कविः, स्थानं यदुशैले स्वकीयं गृहम
285, UPUNEERUBAVI-BEEDI MELUKOTE, (MANDYA DIST)
KARNATAKA-571431
လလလ
१३५
Page #143
--------------------------------------------------------------------------
________________
20172015
SSVERSUS 25
S
2013726730152016
__ पाइयविनाणकहा
आचार्यविजयकस्तूरसूरिः (१) वुड्डमंतिणो कहा सच्चनायस्स दाउणो, मंतिणो संति थोवया ।
जह अब्भुयनायंमि, वुड्डमंतिनिदसणं ॥ १ ॥
एगस्स सेट्ठिवरस्स खत्तियपुत्तो लेहवाहगो अस्थि । सो दुब्बलो वि अईव निब्भओ अत्थि । एगया सिट्ठिणो लेहं गहिऊणं गामंतरे गओ। अडवीए एगो सिंघो 1 मिलिओ । तेण सह जुद्धं काऊण असिणा हंतूण अग्गओ गओ । तत्थ कोवि
रायसुहडो समागओ । मयं सीहं दट्ठण, मए एसो हओ त्ति जंपतो निवस्स पुरओ S गओ । नरिंदो संतुट्ठो सिंघवहाओ । पारितोसिअं तस्स दिण्णं । सव्वलोएहिं सो ५ पसंसिओ । सो खत्तियपुत्तो कचं काऊण पच्छा नियग्गामे आगओ । सीहवहवुत्तंतो
सेट्ठिणो कहिओ । सेट्ठी बेइ - 'तुं असच्चपलावी असि । कहं किसीभूएण तए सिंघो 2. हओ' ? । तेण उत्तं- 'मए च्चिअ हओ' इअ सच्चं कहिअं । तया सेट्ठिणा नरिंदस्स तं पण्णविअं - ‘एएण खत्तियपुत्तेण सीहो हओ, न तुम्ह सुहडेण' ।
निवेण सुहडो बोल्लाविओ पुच्छिओ य । सो कहेइ ‘मए हओ' । निवेण निण्णयत्थं ते दुण्णि पुरिसा वुड्डमंतिस्स समप्पिआ । तेणाऽवि निणथं भिण्णभिण्णावरगे दुण्णि ठविआ । सो मंती नियदाढिआए दीहं तणं धरिऊण पुत्थयं पढंतो आसि । तंमि समए पढमं रायसुहडो आहूओ । सो आगओ, मंतिं च पढंतं दट्ठण दाढिगाए तिणं दट्ठण तिणस्स अवणयणत्थं हत्थं उप्पाडेइ । तया सो मंतिणा हुँ हं' ति वोत्तूण भयं पाविओ, भयाउलो सो भग्गो । पच्छा सो खत्तियपुत्तो आहूओ। म तेण वि दाढिगाठिअतिणावणयणत्थं हत्थो उप्पाडिओ, तया सो मंती हुंकारं मुंचइ ।
सो निब्भओ दाढिअं मुट्ठीए गिण्हइ, न मुंचइ । तया मंतिणा जाणिअं-जं एसो चेव खत्तियउत्तो सिंघवहगो अत्थि । तं निवपुरओ नेऊण कहिअं 'एसो च्चिअ सिंघवहगो जाणियव्वो' । कहं ?, तेण सव्वं वुत्तं कहिअं । एसो किसो वि निब्भओ, सुहडो थूलो वि सभओ, भयाउलो कहं सीहं हणिज्ज त्ति ? । निवेण सो सुहडो धिक्कारिओ निक्कासिओ य । खत्तियउत्तो सम्माणिओ, पाहुडं तस्स दिण्णं ।।
ESSORIES FOR SARI SISSEASTS
१३६
.
Page #144
--------------------------------------------------------------------------
________________
उवएसो
सच्च-नायपयामि, वुड्ढमंतिसमस्सियं । सोच्चा अक्खाणगं रम्मं, जएह तह निण्णए ॥ २ ॥ ॥ सच्चनायपयाणे वुड्डमंतिणो कहा समत्ता ॥
- गुज्जरभासाकहाए
BUILIELFILTELEFELETTE 1225
वुड्ढाए कहा परिणामं समिक्खित्ता, तहा सम्माणकारगा ।। अप्पा संति जए लोगा, वुड्ढाए एत्थ नायगं ॥ १ ॥
एगया घय-चम्मवावारिणो घयचम्मगहणत्थं नियगामाओ निग्गया । कम्मि 4 वि गामे एगाए थेरीए गिहे भोयणत्थं गया । सा थेरी भावओ बोल्लावेइ, भोयणावसरे S घयवावारिं गिहब्भंतरे, चम्मवावारियं गिहाओ बाहिरं भोयावेइ, भोत्तूण गामंतरे गया। 1 जया पुणो घय-चम्माइं किणिऊण आगया ते दुण्णि थेरीए गेहे । तया भोयणावसरे चम्मवावारिं गिहब्भंतरं, घयवावारिं च गिहाओ बाहिरं भोयावेइ ।
__ भोयणंते तेहिं कमभेयकारणं वुड्डा पुट्ठा । सा कहेइ- "पुव्वं तुम्हे जया आगया तया घयवावारिणो चित्तं विसुद्धं हुवीअ, जेण अहुणा जइ पसुधणं बहुं होइ तया सोहणं, घयं सुलहं अप्पमुल्लेण बहुं लब्भइ, एवं भावविसुद्धीए गेहब्भंतरे सो भोयाविओ। तहा चम्मवावारिणो असुद्धं चित्तं, जओ सो एवं चितइ-जइ पसुधणस्स संहारो भवेज्जा तया चम्माइं सुलहाइं, थोवमुल्लेण लब्भंते । एवं भावस्स अविसुद्धीए
बाहिरं भोयाविओ। पच्छा पुणो आगया, तया पसुधणविणासवियारणाए सो घयवावारी न्द्र बाहिरं ठविओ, पसुधणवुड्डिवियारणाए य सो चम्मवावारी गिहब्भंतरे ठविओ" । एवं भावस्स विसुद्धीए अविसुद्धीए य सम्माणं असम्माणं च नायव्वं । उवएसो
घयचम्मकिणंताणं, सम्माणं चाऽवमाणणं ।
जाणित्ता 'भावसुद्धीए, जत्तं कुणेज्ज सव्वया' ॥ ॥ परिणाममणुलक्खिअ सम्माणाऽवमाणणोवरिं वुड्डाए कहा समत्ता ॥
- (जणमुहपरंपराओ) सद्धविधिए ॥
SSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSS
१३७
Page #145
--------------------------------------------------------------------------
________________
Page #146
--------------------------------------------------------------------------
________________