SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ एतच्छुत्वा दयासागरो गुरुवरोऽपि खेदमाप्तवान् उक्तवांश्च – 'तस्मै घृतं पाययतु । सर्वं सुस्थं भविष्यति' । पूज्यपादस्य निर्देशानुसारेण घृतपानान्तरं झटित्येव निर्विषः स सञ्जातः । सुप्तोत्थित इवाऽक्षिणी उन्मील्योपविष्टवांश्च । सर्वेऽपि प्रसन्ना जाताः । सहजतयोच्चरितमपि महापुरुषाणां वचनं कथं फलवद् भवतीति प्रसङ्गेनैतेन ज्ञायते । एतादृशस्य वचनसिद्धस्य पूज्यपादस्य श्रीनेमिसूरीश्वरभगवतश्चरणयोः शताब्दीवर्षे कोटीशो वन्दनावलिः । अणुरपि मणिः प्राणत्राणक्षमो विषभक्षिणां शिशुरपि राजा सिंहीसूनु: समाहयते गजान् । तनुरपि तरुस्कन्धोद्धतो दहत्यनलो वनं प्रकृतिमहतां जात्यं तेजो न मूर्तिमपेक्षते ॥ ८२ शासनसम्राड्-विशेषः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy