________________
वि. सं. १९७२ वर्षे पूज्यपादः शासनसम्राट् सूरीश्वरो राजस्थानमध्ये 'फलोधी' ग्रामे चतुर्मासी स्थित आसीत् । तदा हि बहवः साधुवरा ज्वरेण पीडिता
आसन् । ततस्तेषां ज्वरपीडितानां साधुजनानां कृते स्थैण्डिलशुद्ध्यर्थं निर्जीवभूमेरावश्यकताऽऽसीत् । तदर्थं पूज्यपादेन श्रावकवर्यस्य 'श्रीफूलचन्दजी गोलेच्छा' महोदयस्य निर्जनमेकं स्थानं याचितम् । तेन महोदयेनाऽपि दत्ताऽनुमतिः ।
एकदा श्रीपद्मविजयमहाराजोऽस्मिन् स्थाने स्थण्डिलशुद्ध्यर्थं गतवानासीत् । तस्मिन्नैव काले गोलेच्छामहोदयस्य सेवकस्तत्राऽऽगतवान् । तेन तत्स्थानस्य द्वारमुद्घाटितं दृष्टम् । 'कथमुद्घाटितम् ? अन्तः कोऽप्यस्ति न वा?' इति किमप्यविचिन्त्य तेन द्वारं पिहितम् । स तु ततो निर्गतवान् ।
इतस्तेन श्रीपद्मविजयमहाराजेन तद्द्वारमुद्घाटयितुं बहवः प्रयत्नाः कृताः, किन्तु सर्वेऽपि ते प्रयत्ना निष्फला जाताः । पश्चात्तेन मुनिराजेन श्रीउदयविजयमुनिराजस्य नाम्नोच्चैराह्वानं कृतं, केनाऽपि न श्रुतम् । दीर्घकालो व्यतीतः । अतः पूज्यपादस्य मनसि प्रश्न उद्भूतः - 'एष साधुर्दीर्घकालाद् गतः, कथं पुनर्नाऽऽगतवान् ?' इति । तत्क्षणमेव तत्साधोरन्वेषणार्थं केचित् साधवो बहिर्गतवन्तः। अन्ते, कारणं ज्ञातम् । द्वारमुद्घाटितम् ।
पूज्यपादस्य चित्तमुद्विग्नं जातम् । तेन स सेवक आहूतः । उक्तश्च - 'भो ! वयं तु जैनसाधवः, सर्वमपि सहामहे । किन्तु भवता कदाऽपि संन्यासिनः । फकीरादयश्चाऽपि न सन्तापनीयाः । सर्पदशनादिदुष्फलं तेन प्राप्यते' ।
सोऽप्येतदङ्गीकृत्य ततो गतवान् । दैवात् स तत्स्थाने एवैकत्र स्थितं वत्सं निरीक्षितुं गतवान् । वत्सस्य पार्वे स्थितस्य घासपुञ्जस्य मध्ये कश्चित् सर्प आसीत् । स च तं तदा दष्टवान् । मूर्छामापन्नः स भूमौ पतितः । तं तथा दृष्ट्वा कश्चिद् गोलेच्छामहोदयाय निवेदितवान् । स हि त्वरितं तत्र प्राप्तवान् । गोलेच्छामहोदयस्य माता पूज्यपादस्य सकाशं गत्वाऽनुनीतवती यद् ‘माताऽस्य वृद्धाऽस्ति । तस्याश्चाऽयमेकल एव पुत्रः । अतः कृपां विधायाऽस्य रक्षणं कुर्वन्तु भवन्तः ।'
(
१. प्रस्रवणमलादिविसर्जनार्थम् ।
शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org