________________
वचनसिद्धिः
__मुनिधर्मकीर्तिविजय: a) यो महानस्ति स न महान् भवितुं प्रयतते, यश्च प्रयतते स न कदाऽपि महान् भवति । अद्य जनाः प्रसिद्ध्यर्थमितस्ततोऽटाट्यन्ते, तदर्थं च विविधान् प्रयोगानपि कुर्वन्ति । तेष्वेकः प्रयोगोऽस्ति चमत्कारः । जनाः चमत्कृतिरागिणः सन्ति । “यत्र ) चमत्कारस्तत्र नमस्कारः" इति जनश्रुतिमनुसृत्य 'चमत्कृतिः' इति नाममात्रमपि निशम्याऽद्य बुद्धिमन्तः पण्डिताः संस्कारिणः श्रेष्ठिनश्चाऽपि सनेत्रनिमीलनमुन्मत्ता इव धावन्ति । अद्य केषाञ्चिज्जनानां हस्तात् कुङ्कम क्षरति, मन्दिरादिष्वमृतस्रवणं भवति, केषुचित् स्थानेषु रक्षणार्थं सर्पराज आगच्छति, केषाञ्चिज्जनानां देहेषु माणिभद्र-पद्मावती-कालिका-अम्बिका- इति देवदेव्यः प्रविशन्ति । अहो ! समाजे किं किं न प्रचलति ! चमत्कारस्य व्याजेन बहवो मायाविन: पापिनश्च जना मुग्धजनान् वञ्चयन्ति, स्वमायापाशे च बध्नन्ति । अत्र सत्यं कियदस्ति, इति तु चिन्तनीयमस्ति।
यः सात्त्विकः सज्जनः सरलः सत्यवादी चाऽस्ति स न कदाऽप्येवं करोति । एतादृशगुणवान् तु यद् यद् वदति तदवश्यंतया फलति, कार्यं चाऽपि सिद्ध्यत्येव । तथाऽपि सज्जना गुणिजनाश्च तं चमत्कृतिरूपेण पर्णयन्ति, न च स्वभक्तद्वारेणाऽपि प्रसिद्धयन्ति ।
__ अस्माकं गुरुदेवः पूज्यपाद-शासनसम्राटश्रीनेमिसूरीश्वरमहाराज एतादृशः सात्त्विकः सरलः सत्यभाषी चाऽऽसीत् । स मनोवाक्काययोगेन निर्मल आसीत् । स सदैव प्रसिद्धितो मायाप्रपञ्चतोऽसत्याचरणाच्च दूरमेव वसति स्म । एवं तस्य चित्तस्य विशुद्धिवशात् स यद् वदति स्म तत् सफलीभवति स्मैव । अतः स वचनसिद्धो महापुरुष आसीत् । तस्य पूज्यपादस्य जीवने चमत्काररूपेण कथ्यमाना बहवः प्रसङ्गाः सञ्जाताः । तथाऽपि न कदाचिदपि स्वयमन्येन वा चमत्कारस्य व्याजेन प्रसिद्धिमवाप्तुं प्रयतवान् । तस्य जीवने घटित एकः प्रसङ्गोऽत्र लिख्यते मया।
-
शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org