________________
गलज्जलिकाः
प्रा. अभिराजराजेन्द्रमिश्रः ।
(१)
निद्रिते लोचने
रोचते नो किमपि निद्रिते लोचने मोदते नो किमपि निद्रिते लोचने ॥ १ ॥ उर्वशीमेनकारुपराशिर्वृथा काम्यते नो किमपि निद्रिते लोचने ॥ २ ॥ भोज्यजातं सुधास्वादु नानाविधम् स्वाद्यते नो किमपि निद्रिते लोचने ॥ ३ ॥ नैव वंशीरवो नाऽपि वीणाध्वनिः गाहते नो किमपि निद्रिते लोचने ॥४॥ नैव भार्या, न पुत्रः कुटुम्बोऽथवा सेवते नो किमपि निद्रिते लोचने ॥ ५ ॥ हन्त, मृत्योः पदक्षेपरावे श्रुते चिन्त्यते नो किमपि निद्रिते लोचने ॥६॥ जीवनं नूनमम्भःपृषत्सन्निभम् इत्यपि ज्ञायते निद्रिते. लोचने ॥ ७ ॥ क्वाऽपयातं बलं भोगझञ्झास्पदम् ? नो परित्रायते निद्रिते लोचने ॥ ८ ॥ सर्वमासीन्ममैव, स्वयं साम्प्रतम् मुच्यते, का गतिर्निद्रिते लोचने ॥ ९ ॥
८६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org