________________
-
सरस्वत्या वन्दनम्
डॉ. आचार्यरामकिशोर मिश्रः
हे श्वेतहंसपरिवाहिनि ! वन्दनीये ! गन्धर्वदेवदितिसूनुमनुष्यपूज्ये ! कुन्देन्दुशङनिभभास्वरगौररूपे !
वीणाप्रवादिनि सरस्वति ! देवि ! चन्दे ॥ १ ॥ पृथ्व्यात्मकं जननि ! गन्धमहं ददामि, धूपं ददामि पवनात्मकमत्र तुभ्यम् । दीपं च ते हि दहनात्मकमर्पयामि,
सर्वोपचारमयि देवि ! समर्पये ते ॥ २ ॥ सम्पादयित्रि ! नतभक्तमनोमुदो हे ! विज्ञानतत्त्वरसदे ! वदे ! यशोदे ! वेदान्तदे ! दह च मे जडतां सुवर्णे !
वीणाप्रवादिनि ! सरस्वति ! देवि ! वन्दे ॥३॥ वीणाधरे ! कमलवासिनि ! शुभ्रगात्रि ! ताराधिनाथवदने ! कविकीर्तनीये ! वागीश्वरि ! प्रथितपुस्तकधारयित्रि !
बुद्धिं प्रदेहि कवितावरदे ! नमस्ते ॥ ४ ॥ आनन्ददायिनि ! बुधार्चितपादपद्मे ! त्वामाह्वयामि हृदये कविताप्रदात्रि ! ज्ञानेश्वरी त्वमसि मङ्गलदे ! प्रसीद,
वीणाप्रवादिनि ! सरस्वति ! देवि ! वन्दे ॥५॥ अग्रे नमामि पुरतः प्रणमामि पश्चात्, भूमौ नमामि गगने प्रणमामि चोर्ध्वम् ।
अब्धौ नमामि च सरित्सु सरोवरेषु, वीणाप्रवादिनि ! सरस्वति ! देवि ! वन्दे ॥६॥
२९५/पट्टीरामपुरम्, खेकड़ा (बागपत) उत्तरप्रदेशः २५०१०१
,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org