________________
भज जिनराजम्
[ रागः भज गोविन्दं ]
भज जिनराजं भज जिनराजं भज जिनराजं चतुरमते ! पारावारे इह संसारे नहि किञ्चित् तव शरणं वाsरे ! ॥
मुनिकल्याणकीर्तिविजयः
क्रोधवशादन्धीभूतस्त्वं दर्पाल्लीनं ते नम्रत्वम् । मायावेशाद् विषधरसि त्वं लोभान्मुञ्चसि नैव ममत्वम् ॥
यौवनमदतो निर्जरायसे गुरूपदेशं नैव मन्यसे । वार्धक्ये ननु किं करिष्यसे ? दुरितशतैर्नूनं हनिष्यसे ॥
विरचय विशदां विषयविरक्तिं विमुञ्च पुद्गलद्रव्यासक्तिम् । शुचिभावनया कुरु जिनभक्तिं महाजनानां श्रुत्वा सूक्तिम् ॥
सावहितं कुरु चित्तनिरीक्षां कुरुष्व सन्ततमात्मपरीक्षाम् । स्वीकुरु सहजां शरीरशिक्षां ह्याद्रियस्व स्वयमेव सुदीक्षाम् ॥
Jain Education International
कुरु गुरुवचनसुधारसपानं भक्त्या गाय च जिनगुणगानम् । धारय शीलं दृढमविगानं प्राप्नुहि धीर ! रुचिरकल्याणम् ॥
८४
For Private & Personal Use Only
www.jainelibrary.org