SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ स चाऽऽगात् तत्पार्थे दिनकरकृती व्याकृतिचणोअपठत् तस्मान्नेमिः मुनिरथ च शाब्दी सुविमलाम् । सकाले व्याख्यानं दददपि निजाधीतमखिलं नवीकुर्वलव्यं त्वपठदपि सङ्घार्थप्रवणः ॥ ३५ ॥ य एकस्मिन् कस्मिन्नपि सुकृतयोगाच्च दिवसे तदीयं व्याख्यानं श्रुतियुगपुटेऽधात् कथमपि । स किं श्रुत्वाऽन्येषां कलितवचनाडम्बरमहो गतार्थं व्याख्यानं तदनु मुदमापाऽर्थरसिकः ॥ ३६ ॥ स तस्मिन्नेवाऽब्दे गुरुचरणपूजैकधिषणं नियोज्याऽर्हद्दीक्षां भवजलधिपाराप्तितरणिम् । मुनिश्चक्रे शिष्यं विमलकुलजातं च वणिजं यमाचख्यौ नाम्ना विनतमिह सौभाग्यविजयम् ॥ ३७ ॥ अथैकः कस्मैचिन्मुनिरनिपुणो यौक्तिकगतौ ददौ दीक्षां जैनी सममतिभिरन्यैः समुदितः । तदीयास्तं नव्यं नृपपुरुषसङ्घस्य बलतो गृहे नेतुं चक्रुर्मुनिनिकटमागत्य कलहम् ॥ ३८ ॥ भयात् तेभ्योऽशक्तानवितुमवगत्याऽथ च मुनीन् नवं तान्नीतिज्ञो मुनिरयमवस्थाप्य निकटे । प्रतापस्याऽऽवासो विदितनृपनीत्याशयततिहतोत्साहान् श्राद्धान् द्रुतमुपगताँस्ताँश्च विदधे ॥ ३९ ॥ समीपे सम्प्राप्तं नृपपुरुषमुद्दामधिषणं कुटुम्बेभ्यो दातुं कृतदृढप्रतिज्ञं नवमुनिम् । तथाऽपृच्छद् वाग्मी ह्यधिकृतविधायी मुनिरसौ यथा मूकीभावास्पदमतनुमानं तमकरोत् ॥ ४० ॥ अधूष्यं तं मत्वा मुनिवरमभीतं नयपटुं स तुष्टावाऽत्यर्थं नृपपुरुष आतङ्ककलितः । कुटुम्बानां तस्य त्वपनयनचर्चाऽपि विगता । सुजाता तं नन्तुं मतिरमिततापं श्रितदयम् ॥ ४१ ॥ ३८ शासनसम्राड्-विशेषः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy