SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ समं तद्ग्रामीणा जिगमिषव एतेन मुनिना बभूवुस्तं सिद्धाचलप्रवरतीर्थं प्रति तदा । अयं जानन धर्मोन्नतिमित उपात्तागममतिः समं यात्रां चक्रे मितजनसमाजेन मुनिराट् ॥ २८ ॥ स सङ्घस्तेनोक्तं विधिमनुसरन शास्त्रविहितं प्रकुर्वन् वात्सल्यं पुरि पुरि ययौ तीर्थप्रवरम् । वपन सप्तक्षेत्र्यां वसुसुकृतबीजं जिनपतीन् प्रपूज्याऽऽगान्नत्वा गुरुचरममुं स्वं मधुपुरम् ॥ २९ ॥ विहारं सङ्कुर्वन् पुरि पुरि मुनिर्नेमिविजयः प्रबोधं श्राद्धानां हितमितवचोभिर्विमलयन् । प्रकुर्वन्नन्येषामपि हृदि मृदं तत्त्ववचनैर्मुनीनां सन्मार्गे निरुपधिप्रसिद्धिं स गतवान् ॥ ३० ॥ पुरे यरिमन् व्यस्थाच्छ्रुतवचनमेकं त्वपि दिनं सदृष्टान्तन्यायागमप्रभृतिनद्वैस्तु वचनैः । पुरे तस्मिन् श्राद्धा नियतगुरुसेवैकधिषणा अपि पहा जाताश्चरणयुगले तस्य कृतिनः ॥ ३१ ॥ यथा चातुर्मास्यं निकटमभवद् गच्छति दिने तथा श्राद्धास्तत्तत्पुरनगरतस्तस्य निकटे । समाजग्मुर्भक्त्या निजनिजपुरं नेतुमचिरादमुं विद्यावाचस्पतिमनुपमब्रह्मसदनम् ॥ ३२ ॥ सवर्द्ध मानं यत्पुरवरमनन्यार्थघटनात् स्वनाम स्वीचक्रे जगति ननु सौराष्ट्रविषये । पुरं तत्तद्वास्यप्रमितवणिजामाग्रहवशाज्जगामाऽसौ धर्मोन्नतिकृतिपरो नेमिविजयः ॥ ३३ ॥ तदीयप्रौढोक्त्या विविधनयसाम्राज्यभृतया सरस्वत्या साक्षादिव कलितर्मूल्ऽभिनवया । मुदं प्रापुः श्राद्धाः किमपि मनुजा लभ्यमसमं त्वमान्तो व्याख्यानालयविततमध्ये समुदिताः ॥ ३४ ॥ शासनसम्राड्-विशेषः ३७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy