SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ यया हीनो नाऽऽत्मा निजकमपि रूपं सुप्रथितं त्ववैत्य ज्ञानान्धो बुडति च भवापारजलधौ । रुचिर्यस्या बोधो भवति महितस्तच्च चरणं जनास्तां सेवध्वं सुगुरुनिकटे मुक्तिजननीम् ॥ २१ ॥ अभाज्यं दायादैरपि सुमतये दत्तमधिकं त्वचौर्यं लुण्टाकैर्नृपकरविहीनं च सुदृढम् । धनं विद्यासज्ञं निजहृदयकोशस्थमजरं जनाः सेवध्वं भो ! परभवगमेकं कृतधियः ॥ २२ ॥ तदीयव्याख्यानैः परहितसमुद्बोधनिपुणैः समुद्रुद्धः सो मितवसुरपि प्राज्यगुणभूत् । वरां विद्याशालां मधुपुरपुरेऽस्थापयदरं शिशूनां बोधाप्त्यै वरनियमदीप्तां स्ववसुभिः ॥ २३ ॥ सरस्वत्यावासं विमलमकरोत् पुस्तकगृहं सुनिर्वृत्तेः स्थानं पसुकृतकार्यं परमपि । धनं तेषां तत्र व्ययितमनपाय्यापरभवं बभूव श्राद्धानां गुरुवचननिष्ठामलधियाम् ॥ २४ ॥ चतुर्मास्यां तस्यामनवरतधर्मश्रवणतो दिनानि श्राद्धानां क्षणमिव ययुस्तस्य निकटे । अभून्निर्विधं तद् धृतमहिमपर्युषणमपि वरिष्ठं पर्वाणां दिवसवरसांवत्सरिक्युक् ॥ २५ ॥ चतुर्मासीपूर्युत्तरदिवसभक्त्या विमलया न कः स्वस्वावासे मुनिमथ निनीषुस्तमभवत् । कथारं कुर्यादमितगमशक्तोऽपि युगपनिवासं तेष्वेकः समदृगपि सोऽकुण्ठधिषणः ॥ २६ ॥ नवे वर्षे प्राप्ते नयनशरनिध्येकप्रमिते (१९५२) विहर्तुं तस्याऽभून्मतिरमितभक्तादपि पुरात् । न कल्पस्योत्क्रान्तौ मतिरनघकल्पागमदृशोऽभवत् स्वप्नेऽप्यस्याऽऽर्हतमतवितानैककृतिनः ॥ २७ ॥ शासनसम्राड्-विशेषः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy