________________
स पूर्वाभ्यस्तानामतिपरिचितानामपि कृती सदावृत्त्याऽनैषीन्मतिमपरतवां श्रुतचये । तदूहापोहाभ्यामपठितमपि ग्रन्थनिरं तथा व्यास्थद् विज्ञानपि निजवशेऽस्थापयदसौ ॥ १४ ॥ न तस्याऽभ्यासेऽभूत् कुमतकलहानां निवसनं ह्यनुच्छिन्नाशङ्को न च समभवत् कोऽपि मतिमान् । प्रभावात् तस्याऽभूत् सुमतिविजयोऽप्यल्पधिषण: पदार्थज्ञो नित्यं तदनुमतिमिष्टामभिलषन् ॥ १५ ॥ अनुच्छिन्नं यद्यत् प्रथममपरैः संशयपदं सुधीलक्ष्मीचन्द्रो मुनिवरमपृच्छत् तदखिलम् ।। असौ सम्यग्युक्तोत्तमवितरत् तद्यदभवन्मनो निष्ठं तस्याऽनघगुणसमापत्तिप्रवणम् ॥ १६ ॥ स इत्थं सङ्घस्याऽतुलगुणगणोल्लासवशतो निकामं सद्भक्त्या हृदि समवसद् गौरवपदम् । अवात्सीदन्येषामपि परिचितानां हृदि गुणैरहार्यैः सुश्लाघास्पदमतनु सोऽभूच्चरणतः ॥ १७ ॥ अथाऽन्येद्युः सङ्घानुपदिशनमानिव वरान् हितं तत्तद्योग्यं मितमनघमर्थ्य सुविहितम् । प्रसङ्गात् सद्विद्याममितफलदां व्यास्थदुपमाविहीनामेकान्तादमितमतिरित्थं धृतदयः ॥ १८ ॥ यया स्वेष्टज्ञानं भवति मनुजानां हितकर ययाऽनिष्टोद्बोधाद् विरमति जनोऽकृत्यकरणात् । सूते यां ना नूनं भवति च पशुः पुच्छविकलो जनास्तां सेवध्वं वरविनयदां धर्मजननीम् ॥ १९ ॥ ययैकाकी वाग्मी विहरति जनोऽनर्थवियुतो निकामं निर्भीको निखिलपृथिवीमेव ससुखम् । प्रवेशो निर्द्वन्द्वो नृपसदसि सम्मानसहितो यया कस्तां नेच्छेज्जन इह शुभार्थप्रजननीम् ॥ २० ॥
शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org