________________
स इत्थं साधूनां निजशरणगानां मुनिवरः प्रकुर्वन् संरक्षां जिनमतमखण्डं विशदयन् । रुचिं तत्रत्यानां प्रतिदिनमनूनां श्रुतचये दृढीकुर्वंस्तस्थौ मुनिगणवृतस्तत्र नगरे ॥ ४२ ॥ बभौ चातुर्मास्यं सुकृतनिचयैस्तेन मुनिना प्रबोधं प्राप्तानां श्रुतचितवचोभिः पुरवरे । न चाऽभूदन्योन्यं कलहघटनासङ्घनिचये परा प्रीतिर्जाता परमपरवर्षानधिगता ॥ ४३ ॥ स विद्योन्नत्यै तानथ वसुमतः श्राद्धतिलकान् सुविद्याप्रेमात्तान् हितमितवचोभिः समकरोत् । कृता विद्याशाला शिशुजनविबोधाय प्रथिता समक्षं तस्यैवाऽनुपथि गुणभक्तैः प्रमुदितैः ॥ ४४ ॥ स कोऽप्यासीन्नाऽस्यां पुरि तदुपदेशात्तमतिको जनो यस्तद्भक्त्या विफलहृदयः स्यात् कथमपि । चतुर्मासीपूर्ती परपुरजनोद्धारधिषणं मुनिं तं ते द्रष्टुं निजपुरि सदैच्छन् कृतधियः ॥ ४५ ॥ स नेमिस्तान् श्राद्धान् स्वविहरणविघ्नानिव पुरो विदित्वोपादिक्षज्जिनमतरहस्यं तु किमपि । स्वयं जैनीमाज्ञां मनसि निदधानो विहरणं चकाराऽऽप्तग्रामानुसरणविधिज्ञो मुनिवरः ॥ ४६ ॥ जगामाऽसौ यस्मिन् प्रथितमहिमो नेमिविजयः पुरे तस्मिन् श्राद्धा विविधजिनपूजां विदधिरे । समन्ताद् वात्सल्यं तदहरजनिष्ट प्रमुदितैः बभासे स ग्रामोऽभिनवजनताव्याप्तसरणिः ॥ ४७ ॥ गृहं व्याख्यानस्याऽतिविततमपि श्रोतृनिकरैः समाच्छन्नाभोगं तदुपगमनेऽजायत भूशम् । परं चित्रं तत्राऽप्यखिलजनसुश्राव्यमभवद् यदुच्चैाख्यानं सकलमभितस्तस्य कृतिनः ॥ ४८ ॥
शासनसम्राड्-विशेषः
३९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org