________________
यदा प्रश्नं व्यास्थत् स्वपरमुनिगर्वप्रकटनात् तदा सभ्यास्तथ्यं परमतमसम्बाधमविदन् । यदा दौस्थ्यं तस्योत्तरदलपर: सोऽप्रकटयत् तदाऽसत्यं पूर्वं सकलमविदन् किं न कृतिनः ? ॥ ४९ ॥ न तस्य व्याख्याने किमपि वचनीयं समभवत् न किञ्चित् प्रष्टव्यं त्वप्रकटितसमाधानमभवत् । अतो नो श्रोतॄणामविहतमतीनामपि तदाअवकाशः प्रश्नानां कथमपि बभूवाउनुपधितः ॥ ५० ॥ यदा प्रष्टाऽज्ञानादथ च विमतेर्वाऽधिकतरप्रबोधायाऽप्राक्षीद् गहन विषयं तं मुनिवरम् । तदा पृष्टो नेमिः श्रुतनयसमुल्लासवचनैस्तथा व्यास्थत् प्रष्टा चरणविनतोऽजायत यथा ॥ ५१ ॥ इत्थं जनानां मुदमाततान व्याख्यानतो नेमिरपेतदोषः । कीर्तिस्तदीयाऽप्रतिघा जगत्सु जहास चन्द्रं प्रथिताङ्कदोषम् ॥ ५२ ॥
इति पञ्चमः सर्गः ॥
७
.
शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org