SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ पूज्यपादशासनसम्राट्श्रीपरमगुरुभगवतां प्रथमं दर्शनम् । आ. विजयहेमचन्द्रसूरिः ( देवशिशुः) तदानीमहं नववर्षीय एवाऽऽसम् । पूज्यशासनसम्राटश्रीमद्विजयनेमिसूरीश्वरगुरुप्रवरा निजविशालशिष्यप्रशिष्यवृन्दपरिवृता राजनगरतो विहृत्य श्रीशेरीसातीर्थे प्रकटप्रभाविश्रीशेरीसापार्श्वनाथप्रमुखजिनबिम्बानां प्रतिष्ठां चिकीर्षवः साभ्रमतीग्रामे घीयालालभाई-फुलचन्द्रश्रेष्ठिनो गृहाङ्गणे पादाववधारितवन्तः । तदा बालसहजौत्सुक्येन समवयस्कमित्रबालैः सह (केऽपि महान्तो गुरुभगवन्तोऽत्र समागताः सन्ति, अतश्चलन्तु, वयं तेषां दर्शनार्थं गच्छाम इति मनसि विचार्य) तत्र गत्वा तेषां गुरुभगवतां प्रथमं दर्शनं कृतमासीत् । एतदर्शनेनाऽहं निजात्मानं प्रबलपुण्यशालिनं प्रवरभाग्यवन्तं च मन्ये । C तदनन्तरं त्र्यधिकद्विसहस्रमितेऽब्दे तु ते हि पूज्यप्रवराः स्वकीयपट्टधरसिद्धान्तवाचस्पति-न्यायविशारदपूज्याचार्यश्रीमद्विजयोदयसूरीश्वर-तत्पट्टधरशास्त्रविशारदकविरत्न-न्यायवाचस्पति-सिद्धान्तमार्तण्डपूज्याचार्यश्रीमद्विजयनन्दनसूरीश्वरप्रभृत्यनेकलघ्वलघुशिष्यपरिवारपरिवृता वर्षावासकृते साभ्रमतीग्रामे समागताः । तदा साभ्रमतीग्रामे अत्यल्पसङ्ख्यकश्रावकाणां गृहाण्यासन् ! तदा कतिचित् श्रावकाः तत्रत्यश्रावकानेवं कथयामासुः - "अरे भद्रभावा: सुश्रावका: ! भवद्भिः सम्यक् विचारितमस्ति न वा? एते तु महान्तो गुरुभगवन्तो विद्यन्ते, धवलगजराजसन्निभानां तेषां सेवां शुश्रूषां भक्तिं च यूयं कथं करिष्यथ?" । तैः प्रत्युत्तरितम्-"अरे श्रेष्ठिवराः ! यूयं व्यर्थं चिन्तां मा कुरुथ, गुरूणां हादिकाशीर्वादाः अस्मदीयशिरस्सु वर्षन्ति, अतो नाऽस्माकं स्वल्पीयस्यपि चिन्ता । वयं तेषां सपरिवाराणां सम्यग्रीत्या सेवां शुश्रूषां भक्ति चाऽवश्यं करिष्यामः । भवन्तो निश्चिन्ता आसताम् ।" तदनन्तरं च तैः श्रावकैर्वर्षावासमध्ये समेषां साधूनां साध्वीनां च प्रबलभावत: पर्याप्तरूपेण भक्तिर्विहिता । तन्निरीक्ष्य राजनगरवास्तव्या नामाङ्किताः श्रेष्ठिप्रवरा आश्चर्यचकिता निम्नाननाश्च सञ्जाताः । शासनसम्राड्-विशेषः ७५ ७५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy