________________
तस्यां चतुर्मास्यां तेषां पुण्यदर्शनमनेककृत्वः सम्प्राप्तम् ।
समागते च पर्वाधिराजपर्युषणापर्वणि महावीरजन्मवाचनवेलायां प्रयत्नपूर्वकं ते हि गुरुभगवन्त उपरितनमालके व्याख्यानपर्षदि समानीताः । तदानीं पूज्यगुरुभगवन्त भृशमशक्ताः शिथिलशरीराश्चाऽऽसन् । सर्वेषां प्रभूताग्रहतः तैस्तदा यथाकथञ्चित् महावीरजन्मवाचनं कृतमासीत् तत् श्रुत्वा सर्वेऽपि मुदितस्वान्ताः सञ्जाताः । तेषां मध्येऽहमपि एकस्तदाऽऽसम् ।
पूज्यशासनसम्राटश्रीगुरुभगवतां निजप्रशिष्योपरि अपूर्वं वात्सल्यम् :
शासनप्रभावकपूज्याचार्य श्रीमद्विजयमेरुप्रभसूरीश्वराणां वदनकमलतः कतिकृत्वः श्रुतस्तेषां जीवनप्रसङ्गः पूज्यशासनसम्राट्सम्बन्धितोऽत्र निर्दिश्यते । प्रायः सप्ताशीत्युत्तर एकोनविंशे वैक्रमे वर्षे श्रीमेरुविजयाभिधानो मुनिर्मैथिलपण्डितप्रवरश्रीशशिनाथ-झाशास्त्रिणां सविधे व्याकरणादिशास्त्राणामध्ययनं कुर्वन्नासीत् । तदानीं नैके विद्वांसः पूज्यशासनसम्राड्गुरुभगवतां पार्वे शिष्याणामध्यापनं कुर्वन्तोऽतिष्ठन् । कस्मिन्नपि समये वर्षावासे शेषकालेऽपि वा कोऽपि विद्वान् तेषां समीपे आगच्छेत् तदा ते हि पूज्यास्तं निजपाद्वेऽध्यापनाय रक्षन्ति स्म । 'अधुनाऽस्मत्पार्वे बहवोऽध्यापयितारो विपश्चितः सन्ति, अत आवश्यकता न विद्यते' इति तु ते हि पूज्या न कदाऽपि कथयामासुः ।
तदानीं सर्वत्रैतादृशी लोकोक्तिः प्रचलिताऽऽसीद् यत् पूज्यशासनसम्राड्गुरुभगवतां समीपे आगताः पण्डितास्तथा च प्रतिमा आदायाऽऽगता मूर्तिनिर्मातारो नैव कदाऽप्येवमेव रिक्तपाणयः पश्चाद् वलन्ति, स्वस्थानं गच्छन्ति वा।
मुनिमेरुविजयाय केनाऽप्यध्ययनविषये किञ्चित् पृष्टम् । तदुत्तरं सम्यग् अददानः स भृशं विषण्णो बाढं रोदितुं लग्नश्च । पूज्यशासनसम्राटश्रीगुरुभगवता एतज्ज्ञातं, तैस्तमाकार्य प्रेम्णा पृष्टं - "अरे ! तव किं जातं, कथं त्वं रुदन्नासीः, त्वादृशस्यैवं रोदनं किमुचितम् ?'' तेन यथास्थितं निवेदितं, तत् श्रुत्वा पूज्यैः कथितम्, स्वस्थो भव, मा रोदीः, त्वं तु बुद्धिशाली परिश्रमशीलश्चाऽसि । कल्यतो मम पार्वेऽध्ययनायाऽऽगच्छेः । अहं त्वां सम्यक् पाठयिष्यामि ।
७६
शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org