________________
श्वोदिने स गतोऽध्ययनाय । पूज्यगुरुभगवद्भिः 'किरातार्जुनीयमहाकाव्यं' पाठयितुं प्रारब्धम् । पूज्यानामध्यापनशैली काऽप्यनिर्वचनीयैवाऽऽसीत् । एकस्मिन् विषयेऽनेकान् विषयान् सङ्कलय्य ते हि यत् पाठयन्त आसन् तत्तु स्वानुभवसंवेद्यमेव। उपर्युपरि वज्रवत् कठोररूपेण दृश्यमाना अपि ते ह्यन्तस्तु शिरीषकुसुमादप्यधिककोमला वात्सल्यसम्भृतमानसाश्चाऽऽसन्।
निम्नोल्लिखितश्लोकेन नीतिकारेणाऽपि लालने बहवो दोषास्ताडने च बहवो गुणाः निरूपिताः सन्ति
लालने बहवो दोषास्ताडने बहवो गुणाः । तस्मात् पुत्रं च शिष्यं च, ताडयेन्न तु लालयेत् ।
अपि च, गुरुपरुषवचनेन तिरस्कृता जना महत्त्वं प्राप्नुवन्तीति वचनं पण्डितराजजगन्नाथेनाऽपि स्वरचितभामिनीविलासे 'गीर्भि'रिति श्लोकेन समर्थितम् । ( अयमेवाऽस्ति स श्लोकः -
___ गीभिर्गुरूणां परुषाक्षराभि-स्तिरस्कृता यान्ति नरा महत्त्वम् ।
अलब्धशाणोत्कषणा नृपाणां न जातु मौलौ मणयो विशन्ति ॥
मुनिमेरुविजयः पूज्यशासनसम्राड्गुरुभगवतां सन्निधौ प्रतिदिनं किरातमभ्यस्यमानः कियता कालेन द्वात्रिंशत्तमश्लोकपर्यन्तं पठितवान् । ततो द्वितीयदिने पुस्तकमादाय नियतसमये पूज्यानां समीपे पठनायाऽऽगतं मुनिमेरुविजयं ते हि पूज्याः कथयामासुः - "अथ मम पार्श्वे पठनाय त्वया नैवाऽऽगन्तव्यम् । अग्रेतनं काव्यं स्वयमेव पठितव्यम् । सर्वेषु विषयेषु तव शेमुष्यस्खलितप्रचारा प्रवर्तिष्यते ।" पूज्यानामेतादृशाशीर्वादस्तेषां खलु जीवने पूर्णरूपेण फलितोऽभवदिति शम् ।।
शासनसम्राड्-विशेषः
७७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org