________________
PooohOON
*अज्ञातकर्तृकं श्रीनेमिसूरीश्वरस्तुत्यष्टकम्
(शार्दूलविक्रीडितम्) विन्दन्नास्तिक-नास्तिकोभयविधे तो स्वतत्रस्थिति तत्तन्नूतनकल्पनाकुमुदिनीपूर्णेन्दुरुष्णद्युतिः । व्यातेनेऽत्र समुद्रमुद्रितमहीपृष्ठे सुधास्यन्दिनीं कीर्तिं यः स विराजतामनुदिनं श्रीनेमिसूरिर्गुरुः ॥१॥
शाब्दे साधुमतिः श्रुतिस्मृतिविधौ श्रीगीष्पतिजैमिनौ साक्षाज्जैमिनिरेव काव्यविषये श्रीमान् कविः किं पुनः । न्यायाम्भोधिविलोडने पटुतर: श्रेष्ठोऽत्र मन्थाचलः । सोऽयं योगिवरः सदा विजयतां श्रीनेमिसूरिर्गुरुः ॥२॥
-
हेलाभ्यस्तसमस्तशास्त्रगहनो यो बाल्य एवाऽचिरात् जातस्तर्कवितर्ककर्कशमतिजैनागमाराधकः । शिष्यान्तस्तिमिरावलिं कवलयन् ज्ञानप्रभां वर्धयन् सोऽयं योगिवरः सदा विजयतां श्रीनेमिसूरिर्गुरुः ॥३॥
नित्यानन्दधनं प्रभाभिरखिलं विद्योतयन्तं जगत् श्रीवीरं तनु-वाङ् -मनोभिरनिशं सन्ध्यायमानो विदन् । श्रीमज्जैनमतावलम्बिजनतां व्याख्यानतो वर्धयन् सोऽयं योगिवरः सदा विजयतां श्रीनेमिसूरिर्गुरुः ॥४॥
किंस्विद् धर्मतनुर्जिनागमवपुः शेषावतार: किमु किं वा स्वर्गसमाधिसाधनविधिः साक्षाज्जिनो वा भवेत् । इत्येवं समवेक्ष्य यं कवयते लोकः प्रमाणैः स्वकै: सोऽयं योगिवरः सदा विजयतां श्रीनेमिसूरिर्गुरुः ॥५॥
६८
शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org