SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ OOoooo Pooooo VORN लक Owoo0OOD नानास्थानसमागतैर्मुनिजनैः संसेविताङ्घिद्वयः श्रीमच्छ्रावकपुञ्जपूजितपदस्तेषां मनोहादकैः । व्याख्यानैर्जिनधर्मभिर्हृदयतोऽज्ञानस्तमः संहरन् सोऽयं योगिवरः सदा विजयतां श्रीनेमिसूरिर्गुरुः ॥६॥ देशाः सन्ति च के न येऽस्य निजसत्कीर्णा न सम्भाविता भूपाः केऽस्य पदारविन्दयुगलं मूर्खा च ये नाऽऽर्चिषुः । कोऽद्याऽप्यस्ति पुमान् न योऽस्य शृणुते नामामृतं साम्प्रतं सोऽयं योगिवरः सदा विजयतां श्रीनेमिसूरिर्गुरुः ॥७॥ धन्योऽयं दिवसो यदत्र समभूद् विश्वैकवन्द्यो मुनिः पुण्यो ध्यानगतो मदीयहृदये पूज्यः शरण्यः सताम् । यं ध्यात्वाऽऽसमस्तकिल्बिषचयान्मुक्ता भवामो वयं सोऽयं योगिवरः सदा विजयतां श्रीनेमिसूरिर्गुरुः ॥८॥ * स्तुत्यष्टकमिदं केनचिद् विद्वद्वर्येण पण्डितमहोदयेन विरचितमस्ति, किन्तु तन्नामादिकं नोपलभ्यत इत्यतः 'अज्ञातकर्तृकम्' इत्येवमुल्लिखितम् । शासनसम्राड्-विशेषः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy