________________
UM
गुरोर्वचनमादराद् विनयतः शुभाज्ञाञ्चितं शिरस्यथ समग्रहीन्मुकुटवत् सदाऽसौ मुनिः । न काऽपि समभूत् क्रिया क्वचिदपि स्वतत्रान्वया. गुरोरनुमतिं विना शुभवतोऽस्य प्रज्ञावतः ॥ २९ ॥ विनीततरतां गतः सुमतिरुग्रतेजा अपि गुरोः प्रभवतोऽन्तिके प्रशम एव तस्थौ सदा । न धर्मविमुखो जनः क्षणमपि प्रियालापभूत् तदन्तिकमुपाययौ तदतितापभीकुण्ठितः ॥ ३० ॥ विबुद्धबुधविश्रुतं महति दानसशं मुनि स सिद्धगिरियात्रिकात् कुनयजेऽथ(?) कष्टे स्थितम् । तदुद्धरणकामनाकलितधीरुदाराशयो व्यवस्यदकुतोभयस्तमुपपादलिप्तं गतम् ॥ ३१ ॥ वणिक्कुलविभूषणः प्रगचन्द्रसौभाग्यकस्तदा सुविभवोऽभवत् परगचन्द्रकर्पूरजः । स नाम नगरेऽग्रणीः सकलसङ्घसम्मानितो धनव्ययमजीगणन्न सुकृतेष्वनल्पेष्वपि ॥ ३२ ॥ स नेमिविजयाद् गुरोः प्रतिदिनं शुभां देशनामनल्पनयगुम्फितां समशृणोत् सुभावाञ्चितः । प्रसङ्गत उदाहृतं स खलु तीर्थयात्राश्रितं वचःप्रकरमादराद् हृदि दधाविदं भूतये ॥ ३३ ॥ ययोन्नतिघटापरा भवति धर्मवृद्ध्युन्मुखा गृहाङ्गणकृतालयोल्लसति चेन्दिरा सुस्थिरा । विमुक्तिपदयोग्यताऽव्यवहितार्थदा जायते बुधाः कुरुत तां मुदा जगति तीर्थयात्रां वराम् ॥ ३४ ॥ अनल्पभवसञ्चितो विलयमेति यस्याः कृतेः निकाचितदशां गताऽप्यमितकर्मभूतिर्दृतम् । सुबन्धनपदं श्रयत्यपि च तीर्थकृत्कर्म तत् बुधाः कुरुत तां मुदा जगति तीर्थयात्रां वराम् ॥ ३५ ॥
३०
शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org