SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Maacamoummar NIRALAIME स. लालपदविश्रुतो निजजनान् विभाव्योद्यतान् समीहितपथच्युतौ दृढप्रतिज्ञ एषोऽवदत् । न मेऽधिकरणालये गमनतो भयं बान्धवा मुधा कुरुत मोद्यम विगतमोहलेशे मयि ॥ २२ ॥ नयालयगतो ह्यहं तदधिकारिणां सम्मुखे प्रकाश्य निजनग्नतां समुचितोत्तरं वो ददे । न मे विषयकामना न च मनः कुटुम्बाश्रितं स्पृहा हृदयसङ्गता मम तु जैनदीक्षाश्रिता ॥ २३ ॥ विवेकविकला दशा सपदि याति दूरं यया दृढा विषयवासना विलयमेति सर्वात्मना । विमुक्तिपदवी वरा भवति चाऽत्र नेदीयसी शुभप्रचयराजिता मम तु जैनदीक्षाऽस्तु सा ॥ २४ ॥ वदन्तममलान्वयं दृढप्रतिज्ञमेवं जना विभाव्य तमकल्मषं समभवन् प्रमोदाञ्चिताः । तदिष्टमनुमेनिरे जिनमतप्रभावोन्मुखास्तदा प्रणतबान्धवा गुरुपदाब्जभृङ्गायिताः ॥ २५ ॥ खबाणनिधिकौमुदीपतिमिते (१९५०) तु संवत्सरे शुभग्रहसमुज्ज्वले शुभमतिः स डाह्याभिधः । सुमेरुरचनाञ्चितं परिचितत्य चाडष्टाह्निकोत्सवं मुनिवरात् ततेः प्रवरजैनदीक्षां ललौ ॥ २६ ॥ स नेमिविजयो मुनिः सुमतिसज्ञयाऽन्वर्थयातमग्रिममयोजयच्छ्रितपदं विनेयं गुरुः । अशिक्षयदनन्तरं विमलबोधसम्प्राप्तये सदाचरणपद्धतिं मुनिवरौघसंसेविताम् ॥ २७ ॥ गुरुप्रवरशिक्षया सुमतिनाम्नि तस्मिन् गुनौ गुणाश्चरणसङ्गता उपगता निकामं वराः । गता विलयपद्धतिं व्यसनराजयो मूलतो भवोन्मथनलम्पटा रुचिरुदित्वराऽभूच्छ्रुतम् ॥ २८ ॥ शासनसम्राड्-विशेषः २९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy