SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Jain Education International न सत्यवचनादृते वचनमस्य तत्त्वेsभव न्न चाऽपि पिशुनावली समभवत् तथाऽस्याऽन्तिके । न पामरजनैः समं विततमन्त्रणाऽस्याऽभव न्न दुर्व्यसनसम्मुखा मतिरभूत् तदीया जने ॥ १५ ॥ सुधर्मपथविच्युतौ कुलवतामपि श्रीमतां पदे प्रणमतामसौ न च मुखं समैक्षन्मुनिः । न बालगणमेलनं समभवत् तथाऽस्य क्वचित् प्रतापभवनस्य तत्परित एव कीर्तिर्बभौ १६ ॥ समायवसृतिं कृती विमलपुण्यबिम्बाऽपि तां तदा नु कचराभिधो विभवतो व्यधादुज्ज्वलाम् । तदुत्सवविराजिते पुरवरे तदानीं नु किं सुरा अपि समागताः समभवन् प्रमोदाञ्चिताः ॥ १७ ॥ श्रिया लसितभालकेऽथ प्रवरे विशां वंशके समृद्धिमहितो युवा परगलाल - डाह्याभिधः । अनल्पविजयाशन- व्यसनलम्पटो निर्भयस्तदन्तिकमुपाययौ प्रतिदिनं प्रसन्नाशयः ॥ १८ ॥ स नेमिविजयो मुनिः सदुपदेशतस्तं मुहुः क्रमाब्जभसलायितं समकरोद् विरक्त्यास्पदम् । वणिक्प्रवर एकदा स तु प्रसङ्गतो वाक्ततेरयाचत विदाम्बरं मुनिममुं सुदीक्षां क्रमात् ॥ १९ ॥ निरक्षरतयाऽऽश्रितं व्यसनलम्पटं मां भवान् विभाव्य निजशक्तितः प्रगुणयत्वभीष्टे क्षमम् । भवत्पदसुसेवयाऽस्खलितजैनधर्मोत्तमा श्रयेण भववारिधेरहमुपैमि पारं यतः ॥ २० ॥ तमुद्यतमभीपदं विमलजैनदीक्षाप्तये भवाब्धितरणक्षमं विहतमोहदुश्चेष्टितम् । विलोक्य किल बान्धवा विदधिरेऽस्य नीत्यालयाधिकारिजनसंश्रयाद् गृहप्रसक्त्युपायान् बहून् ॥ २१ ॥ २८ For Private & Personal Use Only शासनसम्राड् - विशेष: www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy