SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ स नेमिविजयं कृती विविधवाचनापण्डितं ग्रहेण निजसन्निधौ समकरोत् सुमैत्रीपदम् । उभौ नयविशारदौ श्रुतविचारणातत्परौ परस्परमतानुगावलभतां प्रमोदं परम् ॥ ७ ॥ द्विजाद् दिनकराभिधादमलशब्दविद्याम्बुधेरपीपठदमन्दधीः स किल पाणिनीयं तदा । स्वबुद्ध्यमितवैभवादनलसप्रवृत्तेरथो सुसंस्कृतपदावली निजवशे समस्थापयत् ॥ ८ ॥ नवाब्धिनवयामिनीपतिमितं (१९४९) तु संवत्सरं सुखेन समपूरयत् स किल पादलिप्ते पुरे । पुनर्विहरणक्रियामनुभवन् जनाभीष्टदां स जामनगरं ययौ भविक प्रार्थनाकर्षितः ॥ ९ ॥ समीहितविवेचनाकलितमर्थतत्त्वोज्ज्वलं निदर्शनसमन्वितं विधिनिषेधवादाश्रितम् । श्रुतोदधिसुसङ्गतं सदुपदेशमिष्टं ददौ स तत्र प्रतिवासरं प्रणतभव्यसङ्घाय वै ॥ १० ॥ अनल्पभववासनामपनयन् जनानां रुचिं जिनप्रवचनाश्रितां विमलयन् भवोत्तारिणीम् । स्वकीयवचनामृतैर्जिनमते जनान् स्थापयन् बहून् पमताश्रितान् समभवत् स पूज्यो जनैः ॥ ११ ॥ तदुक्तिमननोन्मुखा नगरवासिनः श्रावकास्तदन्तिकमशिश्रियन् सततमेव बद्धादराः । परेऽपि निजसंशयप्रलयतोऽस्य साक्तितो विनेयपदवीं ययुर्विबुधमाननीया जनाः ॥ १२ ॥ न यौक्तिकजनादृते वचनमस्य सम्यक्तया सुबोधमभवत् पुनर्निजविचारसञ्चारणे । अतो वचनचातुरीप्रथनलम्पटानामसावुपास्यचरणोऽभवद् विमलतत्त्ववानिर्मितौ ॥ १४ ॥ - शासनसम्राड्-विशेषः २७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy