SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ 1 अथ चतुर्थः सर्गः Exam irmil MumILONG (पृथ्वी छन्दः) तनोतु शुभसन्ततिं भविकसन्ततौ सर्वदा सुरासुरनतक्रमोऽतिदृढमूलमोहारिहा । निसर्गकरुणामयोऽप्रतिहताखिलज्ञानभूरबाध्यवचनो जिनोऽतुलविमुक्तिलक्ष्म्याश्रितः ॥ १ ॥ गुरावुपरते वरे विधिनियोगसंयोगतो विचारनिलयोत्तमे मुनिसमष्टिचूडामणौ । स नेमिविजयो मुनिर्गुरुवियोगसम्पीडितो जनोपकृतये द्रुतं विहरणं समैच्छत् सुधीः ॥ २ ॥ ययौ विहरणक्रमात् प्रथममेष सिद्धाचलं मुनीन्द्रगणसेवितं सततमेव तीर्थोत्तमम् । अनल्पजिनमन्दिराकलितशृङ्गशोभं वरं नदी परमपावनी यमधिभाति शत्रुञ्जया ॥ ३ ॥ गिरिप्रवरसन्निधेर्जगति विश्रुतं यात्रिणां सदैव गमनागमैर्विविधदेशसञ्चारिणाम् । पुरप्रवरमर्थितो नगरवासिसच्छ्रावकैरशोभयदसौ मुनिः प्रथितपादलिप्ताभिधम् ॥ ४ ॥ नृपोऽपि गिरिसन्निधौ वसतिमाप्य तस्मिन् पुरे सुयात्रिगणरक्षणाद् धनमहर्निशं विन्दते । गिरिप्रवरसेवया सुखिन एव तद्वासिनो नराः सुकृतलम्पटा अनुभवन्ति धर्मक्रियाम् ॥ ५ ॥ न यस्य मतिकुण्ठता समभवन्नये गौतमे गदाधरवचस्ततिर्हृदयगा नवीनाऽभवत् । अखण्डमतिताण्डवं व्यधित खण्डने योऽभितः स दानविजयस्तदा मुनिरधिश्रितस्तत्पुरम् ॥ ६ ॥ २६ शासनसम्राड्-विशेषः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521021
Book TitleNandanvan Kalpataru 2008 00 SrNo 21
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy