________________
सक्षेपतः श्रुतगताभिमतार्थतत्त्वबोधोऽपि तस्य रुचिसंवलितो बभासे । स्वाध्यायतोऽस्य गुरुरप्यतिमोदभावं नम्रस्य कृत्यनिपुणस्य सुतीक्ष्णबुद्धेः ॥ ५६ ॥ तस्यैवं गुरुसन्निधौ विनयतो विद्यां समभ्यस्यतश्चत्वारो विगता अतीतपदवी संवत्सराः सौख्यदाः । अन्योन्यं प्रबभूव यत्र समयार्थालोचनं वाग्मिनां शिष्याणां मतिताण्डवास्पदमसद्वादप्रमुक्तं शुभम् ॥ ५७ ॥ निध्यब्यङनिशाधिनाथप्रमिते(१९४९) संवत्सरे वैक्रमे वैशाख्ने सितपक्षके रवितिथौ श्रीवृद्धिचन्द्रो मुनिः । शिष्याणां प्रकरे समुन्नतिघटां प्राप्ते कृतार्थः स्वयं स्वर्लोकं द्विगुरुं चकार परमं योगं प्रपद्यार्हतः ॥ ५८ ॥ श्रीले भावपुरे तदा समभवत् सुश्रावकाणां गणे मोदोल्लाससमञ्चितो निरुपमस्तद्देहकृत्योत्सवः । पञ्चत्वं गमितेऽथ तत्र वणिजस्त्वष्टाह्निकाद्युत्सवं चक्रुरतेन बभौ पुरं बलरिपोरेवाऽऽगतं तत्पुरम् ॥ ५९ ॥
इति तृतीयः सर्गः
शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org