________________
इमाममितकामदां विभवतस्तु सङ्ख कृती सुकारयति यः स्वयं प्रकुरुते च पुण्याशयः । न तस्य गुणवर्णने गुरुरपि प्रभुस्तत्त्वतो न कोऽपि सदृशो भवेदिह पत्र वा तत्फलैः ॥ ३६ ॥ स धर्मधन एकदा गुरुवरं ययाचे स्वयं महाग्रहपुरस्सरं शुभमिदं समात्ताञ्जलिः । प्रपूरय गुरो ! स्पृहां मम सुतीर्थयात्राश्रयां निजागमनतोऽनघाऽप्रतिमसङ्घगत्यञ्चितात् ॥ ३७ ॥ तमर्थिनमसौ मुनिनिखिलतीर्थराज गिरि प्रतिस्वगमनोक्तितः समकरोदभीष्टोद्यतम् । निमवित इयत्तयाऽनवधृताऽथ सङ्घोऽभितोऽप्युपागमदनारतं प्रवरतीर्थयात्रेच्छया ॥ ३८ ॥ चचाल पुरतस्ततोऽधिपममुं प्रपद्याऽऽर्हतं स सिद्धिगिरिसम्मुखं जनसमाज आनन्दभाक् । श्रुतोक्त विधिमत्यजन् मुनिवरस्य तस्याऽऽज्ञया पदप्रचरणादिकं विदितधर्मशास्त्राम्बुधः ॥ ३९ ॥ अजीगणदुदारताचमसीम्नि तिष्ठन्नसौ । वसुव्ययमनल्पशो न च पथि क्वचित् कर्मणि । उपात्राकृतिं क्वचित् क्वचिदपि प्रभोर्मन्दिरं मुनीशवचनात् क्वचित् समकरोत् स जीर्णोद्धतिम् ॥ ४० ॥ ससङ्घजनतामनोऽभिमतवस्तुसम्पादनैरप्रीणयदनारतं पथि गृहस्थितिं दर्शयन् । जिनार्चनघटां परां पुरि पुरि प्रकुर्वन् ययौ सुमिष्टमुपभोजयन् प्रतिपुरं स साधर्मिकान् ॥ ४१ ॥ स नेमिविजयो मुनिः सदुपदेशतोऽहर्निशं. समागतजनान् बहूनकृत तत्र धर्मोद्यतान् । पुरं च सुप्रयाणकैः प्रथितपादलिप्ताभिधं समासददनामयं सपतिसङ्घयुक्त: कृती ॥ ४२ ॥
शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org