________________
जयध्वनिपरायणैः पुरनिवासिभिः श्रावकैः समर्चितपदो मुनिः सपतिसङ्घविभ्राजितः । सुतोरणविभूषिते पुरि प्रसर्पदच्छध्वनाववीविशदुपाश्रये प्रभुमुपास्य चैत्ये जिनम् ॥ ४३ ॥ जिनानमितकामदान् सगुरुरेव सिद्धाचलोपरि प्रथितचैत्यगान् प्रणमितुं ससको ययौ । प्रणम्य नृभवं तदा सफलयन् ससङ्घाधिपो कृतार्थपरिपूरितां प्रथितसप्तपात्रीं ननु ॥ ४४ ॥ अनल्पदिवसागतं सविधवर्त्तिनं वाग्मिनं समस्तनयकोविदं विनयतत्परं निर्भयम् । विलोक्य तमकल्मषं जिनमताब्जभानुं मुनि स दानविजयोऽभवत् प्रमदमेदुरो निर्भरम् ॥ ४५ ॥ तदीयवचनादयो विदितवेद्यकर्तव्यकः स नेमिविजयो मुनिर्निभृतमेव सर्वं व्यधात् । क्रिया फलति सत्त्वतो विविधमत्रगुप्तान्वया सतां परिकरादृते न तु वचःप्रथाडम्बरैः ॥ ४६ ॥ न यद् बहुविधैः श्रमैरपि बभूव लेशादपि प्रसिद्धिपदमर्थिनामपि सहायकूत्याऽऽत्मनः(?)। तदाशु मुनिना कृतं समवलोक्य दानाभिधः स नेमिविजयेन यन्मुदमियाय दुःखक्षयम् ॥ ४७ ॥ एवं सोपकारी गुणगणनिलयो विश्वविख्यातकीर्तिः श्रीमान् नेमिर्विहर्तुं पुरि पुरि जनताबोधिहेतोरियेष । तीर्थनैतादृशानां स्थितिरतिसमया युज्यते धर्मचूद्ध्यै कल्पैदम्पर्यभाजां यत इह यमिनां तत्त्वदृष्ट्यैकधाम्नाम् ॥ ४८ ॥
इति चतुर्थः सर्गः ॥
३२
शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org